रघुवंशम् महाकाव्यम् : कालिदास

Raghuvamsham (Sanskrit) : Kalidasa


  • रघुवंश महाकाव्य (हिंदी अनुवाद) : पहला सर्ग
  • प्रथमः सर्गः

    वागर्थाविव१ संपृक्तौ वागर्थप्रतिपत्तये। जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥१॥ क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः। तितीषुर्दुस्तरं मोहादुडुपेनास्मि सागरम्॥२॥ मन्दः कवियशःप्रार्थी गमिष्याम्युपहास्यताम्। प्रांशुलभ्ये फले लोभादुबाहुरिव वामनः॥३॥ अथवा कृतवाग्द्वारे वंशेऽस्मिन् पूर्वसूरिभिः। मणौ वज्रसमुत्कीर्ण सूत्रस्येवास्ति मे गतिः॥४॥ सोऽहमा १जन्मशुद्धीनामा २फलोदयकर्मणाम्। ३आसमुद्रक्षितीशानामा ४नाकरथवर्त्मनाम्॥५॥ ५यथाविधिहुताग्नीनां ६यथाकामाचतार्थनाम्। ७यथापराधदण्डानां ८यथाकालप्रबोधिनाम्॥६॥ ९त्यागाय संभृतार्थानां १०सत्याय मितभाषिणाम्। ११यशसे विजिगीषूणां १२प्रजायै गृहमेधिनाम्॥७॥ १३शैशवेऽभ्यस्तविद्यानां १४यौवने विषयैषिणाम्। ५वार्द्धके मुनिवृत्तीनां १६योगेनान्ते तनुत्यजाम्*॥८॥ रघूणामन्वयं वक्ष्ये तनुवाग्विभवोऽपि सन्॥ तद्गुणैः कर्णमागत्य चापलाय प्रचोदितः॥९॥ (१. पद्यमिदं प्रक्षिप्तमिति दक्षिणात्याः। * एते सर्वे गुणा रघावेव दशिता इति रघुरेवात्र नायकः। अजप्रभृति-ष्वेतेषां क्रमेण ह्रासात् तेषां रघुमाहात्म्यपर्यवसायित्वमेव व्यतिरेकविधया। मानुषवध्यस्य रावणस्य दशरथेनापि हन्तुं शक्यत्वे रामाद्यवतारः पुरुषदौर्बल्यसूचनमेव।) तं सन्तः श्रोतुमर्हन्ति सदसद्व्यक्तिहेतवः। हेम्नः संलक्ष्यते ह्यग्नौ विशुद्धिः श्यामिकापि वा॥१०॥ वैवस्वत मनुर्नाम माननीयो मनीषिणाम्। आसीन्महीक्षितामाद्यः प्रणवश्छन्दसामिव॥११॥ तदन्वये शुद्धिमति प्रसुतः शुद्धिमत्तरः। दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव॥१२॥ व्यूढोरस्को वृषस्कन्धः शालप्रांशुर्महाभजः। आत्मकर्मक्षमं देहं क्षात्रो धर्म इव श्रितः॥१३॥ सर्वातिरिक्तसारेण सर्वतेजोऽभिभाविना। स्थितः सर्वोन्नतेनोर्वी क्रान्त्वा मेरुरवात्मना॥१४॥ आकारसदृश प्रज्ञ: प्रज्ञया सदशागमः। आगमैः सदृशारम्भ आरम्भसदृशोदयः ॥१५॥ भीमकान्त पगुणैः स बभूवोपजीविनाम्। अधृष्यश्चाभिगम्यश्च यादोरत्ने रिवार्णवः ॥१६॥ रेखामात्रमपि क्षुण्णादामनोवर्मनः परम्। न व्यतीयुः प्रजास्तस्य नियन्तुर्नमिवृत्तयः ॥१७॥ प्रजानामेव भूत्यर्थं स ताभ्यो बलिमग्रहीत्। सहस्रगुणमुत्स्रष्टुमादत्ते हि रसं रविः॥१८॥ सेना परिच्छदस्तस्यद्वयमेवार्थसाधनम्। शास्त्रेष्वकुण्ठिता बुद्धिमौर्वी धनुषि चातता ॥१९॥ तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च। फलानुमेयाः प्रारम्भाः संस्काराः प्राक्तना इव ॥२०॥ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः। अगृध्नुराददे सोऽर्थमसक्तः सुखमन्वभूत्॥२१॥ ज्ञाने मौनं क्षमा शक्ती त्यागे श्लाघाविपर्ययः। गुणा गुणानुबन्धित्वात् तस्य सप्रसवा इव॥२२॥ अनाकृष्टस्य विषयैविद्यानां पारदश्वनः। तस्य धर्मरतेरासीद् वृद्धत्वं जरसी विना॥२३॥ प्रजानां विनयाधानाद् रक्षणाद् भरणादपि स पिता पितरस्तासां केवलं जन्महेतवः॥२४॥ स्थित्यै दण्डयतो दण्ड्यान् परिणेतुः प्रसूतये। अप्यर्थकामौ तस्याऽऽस्तां धर्म एव मनीषिणः॥२५॥ दुदोह ग स यज्ञाय सस्याय मघवा दिवम्। संपविनिमयेनोभो दधतुर्भ वनद्वयम्॥२६॥ न किलानुययुस्तस्य राजानो रक्षितुर्यशः। व्यावृत्ती यत् परस्वेभ्यः श्रुतौ तस्करता स्थिता॥२७॥ द्वेष्योऽपि संमतः शिष्टस्तस्यार्तस्य यथौषधम्। त्याज्यो दुष्टः प्रियोऽप्यासीदङ्गुलीवोरगक्षता॥२८॥ तं वेधा विदधे ननं महाभूतसमाधिना। तथाहि सर्वे तस्यासन् परार्थेकफला गुणाः ॥२९॥ स वेला-वप्र-वलयां परिखीकृतसागराम्। अनन्यशासनामुर्वी शशासकपुरीमिव॥३०॥ तस्य दाक्षिण्यरूढेन नाम्ना मगधवंशजा। पत्नी सुदक्षिणेत्यासीदध्वरस्येवे दक्षिणा॥३१॥ कलत्रवन्तमात्मानमवरोधे महत्यपि। तया मेने मनस्विन्या लक्ष्म्या च वसुधाधिपः॥३२॥ तस्यामात्मानुरूपायामात्मजन्म-समुत्सुकः। विलम्बितफलैः कालं स निनाय मनोरथैः॥३३॥ संतानार्थाय विधये स्वभुजादवतारिता। तेन धूर्जगतो गुर्वी सचिवेषु निचिक्षिपे॥३४॥ अथाभ्यर्थ्य विधातारं प्रयतौ पुत्रकाम्यया। तौ दम्पती वसिष्ठस्य गुरोर्जग्मतुराश्रमम्॥३५॥ स्निग्धगम्भीर-निर्दोषमेकं स्यन्दनमास्थितौ। प्रावृषेण्यं पयोवाहं विद्युदैरावताविव॥३६॥ मा भूदाश्रमपीडेति परिमेयपुरःसरौ। अनुभावविशेषात् तु सेनापरिवृताविव ॥३७॥ सेव्यमानौ सुखस्पर्शेः सालनिर्यासगन्धिभिः। पुष्परेणूत्किरैर्वातैराधूतवनराजिभिः॥३८॥ मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः। षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः॥३९॥ परस्पराक्षि - सादृश्य - मदूरोज्झित - वर्मसु। मृगद्वन्द्वेषु पश्यन्तौ स्यन्दनाबद्धदृष्टिषु ॥४०॥ श्रेणीबन्धाद् वितन्वदभिरस्तम्भ तोरणस्रजम्। सारसैः कलनिहदैः क्वचिदुन्नमिताननौ ॥४१॥ पवनस्यानुकूलत्वात् प्रार्थनासिद्धिशंसिनः। रजोभिस्तुरगोत्कीर्णेरस्पृष्टालकवेष्टनी ॥४२॥ सरसीष्वरविन्दानां वीचिविक्षोभशीतलम्। आमोदमुपजिघ्रन्तौ स्वनिःश्वासानुकारिणम् ॥४३॥ ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम्। अमोघाः प्रतिगृह्णन्तावघ्नुपदमाशिषः॥४४॥ हैयङ्गवीनमादाय घोषवद्धानुपस्थितान्। नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम्॥४५॥ काप्यभिख्या तयोरासीद् व्रजतोः शुद्धवेषयोः। हिमनिमु क्तयोयेंगे चित्राचन्द्रमसोरिव॥४६॥ तत् तद् भूमिपतिः पत्न्यै दर्शयन् प्रियदर्शनः। अपि लङ्घितमध्वानं बुबुधे न बुधोपमः॥४७॥ स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः। सायं संयमिनस्तस्य महर्षोर्महिषीसखः॥४८॥ वनान्तरादुपावृत्त : समित्कुशफलाहरैः। पूर्यमाणमदृश्याग्नि - प्रत्युद्यातैस्तपस्विभिः ॥४९॥ आकीर्णमृषिपत्नीनामुटजद्वाररोधिभिः। अपत्यैरिव नीवारभागधेयोचितै मृगैः॥५०॥ सेकान्ते मुनिकन्याभिस्तत्क्षणोज्झितवृक्षकम्। विश्वासाय विहङ्गानामालवालाम्बुपायिनाम्॥५१॥ आतपात्ययसंक्षिप्तनीवारासु निषादिभिः। मृगैर्वतित - रोमन्थ - मुटजाङ्गन - भूमिषु॥५२॥ अभ्युत्थिताग्निपिशुनैरतिथीनाश्रमोन्मुखान्। पुनानं पवनोधूर्तधूमैराहुतिगन्धिभिः॥५३॥ अथ यन्तारमादिश्य धुर्यान् विश्रामयेति सः। तामवारोयत् पत्नीं रथादेवततार च॥५४॥ तस्मै सभ्याः सभार्याय गोप्त्रे गुप्ततमेन्द्रियाः। अर्हणामर्हते चक्रुर्मुनयो नयचक्षुषे॥५५॥ विधेः सायंतनस्यान्ते स ददर्श तपोनिधिम्। अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजम्॥५६॥ तयोर्जगृहतुः पादान् राजा राज्ञी च मागधी। तौ गुरुर्गुरुपत्नी चे प्रीत्या प्रतिननन्दतुः॥५७॥ तमातिथ्यक्रिया-शान्त-रथ-क्षोभ-परिश्रमम्। पप्रच्छ कुशलं राज्ये राज्याश्रममुनि मुनिः॥५८॥ अथाथर्वनिर्धस्तस्य विजितारिपुरः पुरः। अथ्र्यामर्थपतिर्वाचमाददे वदतां वरः॥५९॥ उपपन्न ननु शिवं सप्तस्वङ्गेषु यस्य मे। दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम्॥६०॥ तव मन्त्रकृतो मन्त्रैर्दुरात् प्रशमितारिभिः। प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभदः शराः॥६१॥ हविरावजतं होतस्त्वया विधिवदग्निषु। वृष्टिर्भवति सस्यानामवग्रहविशोषिणाम्॥६२॥ पुरुषायुषजीविन्यो निरातङ्का निरीतयः। यन्मदीयाः प्रजास्तस्य हेतुस्त्वद्ब्रह्मवर्चसम्॥६३॥ त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना। सानुबन्धाः कथं न स्युः संपदो मे निरापदः॥६४॥ किन्तु वध्वां तवैतस्यामदष्टसदृशप्रजम्। न मामवति सद्वीपा रत्नसूरपि मेदिनी॥६५॥ नूनं मत्तः परं वंश्याः पिण्डविच्छेददशिनः। न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः॥६६॥ मत्परं दुर्लभं मत्वा नूनमावजितं मया। पयः पूर्वैः स्वनिःश्वासैः कवोष्णमुपभुज्यते॥६७॥ सोऽहमिज्याविशुद्धात्मा प्रजालोपनिमीलितः। प्रकाशश्वाप्रकाशश्च लोकालोक इवाचलः॥६८॥ लोकान्तरसुखं पुण्यं तपोदानसमुद्भवम्। संततिः शुद्धवंश्या हि परत्रेह च शर्मणे॥६९॥ तया हीनं विधातर्मा कथं पश्यन् न दूयसे। सिक्त स्वयमिव स्नेहाद् वन्ध्यमाश्रमवृक्षकम्॥७०॥ असह्यपीडं भगवन्नृणमन्त्यमवेहि मे। अरुन्तुदमिवालानमनिर्वाणस्य दन्तिनः ॥७१॥ तस्मान्मुच्ये यथा तात संविधातुं तथार्हसि। इक्ष्वाकूणां दुरापेऽर्थे त्वदधीना हि सिद्धयः॥७२॥ इति विज्ञापितो राज्ञा ध्यानस्तिमितलोचनः। क्षणमात्रमृषिस्तस्थौ सुप्तमीन इव ह्रदः॥७३॥ सोऽपश्यत् प्रणिधानेन संततेः स्तम्भकारणम्। भावितात्मा भुवो भर्तुरथैनं प्रत्यबोधयत्॥७४॥ पुरा शक्रमुपस्थाय तवोर्वी प्रति यास्यतः। आसीत् कल्पतरुच्छायामाश्रिता सुरभिः पथि ॥७५॥ धर्मलोपभयाद् राज्ञीमृतुस्नातामिमां स्मरन्। प्रदक्षिणक्रियाहयां तस्यां त्वं साधु नाचरः॥७६॥ १अवजानासि मां यस्मादतस्ते न भविष्यति। मत्प्रसूतिमनाराध्य प्रजेति त्वां शशाप सा॥७७॥ स शापो न त्वया राजन् न च सारथिना श्रुतः। नदत्याकाशगङ्गायाः स्रोतस्युद्दामदिग्गजे॥७८॥ ईप्सितं तदवज्ञानाद् विद्धि सार्गलमात्मनः। प्रतिबध्नाति हि श्रेयः पूज्यपूजाव्यतिक्रमः॥७९॥ हविषे दीर्घसत्रस्य सा चेदानीं प्रचेतसः। भुजङ्गपिहितद्वारं पातालमधितिष्ठति॥८०॥ (१. पद्यमिदं त्याज्यमित्यरहस्यज्ञाः। मेघविद्युदिव कामधेनुः प्रकृतिः। अतएव ‘भुजङ्गपिहिता' रघु० १॥८०। मनुष्यस्तविकृतिमेव सेवेत। अत्रास्मल्लेखः ‘नन्दिनीविद्ये'ति।) स त्वमेकान्तरां तस्याः मदीयां वत्समातरम्।1 आराधय सपत्नीक: प्रीता कामदुघा हि सा॥८१॥ इति वादिन एवास्य होतुराहुतिसाधनम्। अनिन्द्या नन्दिनी नाम धेनुराववृते वनात्॥८२॥ ललाटोदयमाभग्नं पल्लवस्निग्धपाटला। बिभ्रती श्वेतरोमाङ्क संध्येव शशिनं नवम्॥८३॥ भुवं कोष्णेन कुण्डोध्नी मेध्येनावभृथादपि। प्रस्नवेनाभिवर्षन्ती वत्सालोकप्रवतिना॥८4॥ रजःकणैः खुरोधूतैः स्पृशभिर्गात्रमन्तिकात्। तीर्थाभिषेकजांशुद्धिमादधाना महीक्षितः॥८५॥ तां पुण्यदर्शनां दृष्ट्वा निमित्तज्ञस्तपोनिधिः। याज्यमाशंसितावन्ध्यप्रार्थनं पुनरब्रवीत्॥८६॥ अदूरवर्तनीं सिद्ध राजन् विगणयात्मनः। उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत्॥८७॥ वन्यवृत्तिरिमां शश्वदात्मानुगमनेन गाम्। 2विद्यामभ्यसनेनेव प्रसादयितुमर्हसि॥८८॥ प्रस्थितायां प्रतिष्ठेथाः स्थितायां स्थितिमाचरेः। निषण्णायां निषीदास्यां पीताम्भसि पिबेरपः॥८९॥ वधूभक्तिमती चैनामचतामातपोवनात्। प्रयता प्रातरन्वेतु सायं3 प्रत्युव्रजेदपि॥९०॥ (१. उदयपुरादिहस्तलेखेष्वयमेव पाठः। ‘सुतां तदीयां सुरभेः कृत्वाप्रतिनिधि शुचिः'- म. २. गां विद्यां च यौगपद्येन प्रसादयेति गुरोरादेशः। एवं च ‘नन्दिनी' नाम धेनुविशेषो विद्याविशेषश्च। तदत्र प्रासंगिकोभयोपमा। ३. प्रत्युत्प्रयातु चेति युज्येत वक्तुम्।) इत्याप्रसादादस्यास्त्वं परिचर्यापरो भव। अविघ्नमस्तु ते स्थेयाः पितेव धुरि पुत्रिणाम् ॥९१॥ तथेति प्रतिजग्राह प्रीतिमान् सपरिग्रहः। आदेशं देशकालज्ञः शिष्यः शासितुरानतः॥९२॥ अथ प्रदोषे दोषज्ञः संवेशाय विशांपतिम्। सूनुः सूनृतवाक् स्रष्टुविससजेंजितश्रियम् ॥९३॥ सत्यामपि तपःसिद्धौ नियमापेक्षया मुनिः। कल्पवित् कल्पयामास वन्यामेवास्य संविधाम्॥९४॥ निर्दिष्टां कुलपतिना स पर्णशाला-मध्यास्य प्रयतपरिग्रहद्वितीयः। तच्छिष्याध्ययननिवेदितावसानां संविष्ट: कुशशयने निशां निनाय ॥९५॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये वसिष्ठाश्रमे नन्दिनीविद्याधिगमो नाम प्रथमः सर्गः॥

  • रघुवंश महाकाव्य (हिंदी अनुवाद) : द्वितीय सर्ग
  • द्वितीयः सर्गः

    अथ प्रजानामधिपः प्रभाते जायाप्रतिग्राहितगन्धमाल्याम्। वनाय प्रीतप्रतिबद्धवत्सां यशोधनो धेनुमृषेर्मुमोच॥१॥ तस्याः खुरन्यासपवित्रपांसुमपांसुलानां धुरि कीर्तनीया। मागं मनुष्येश्वरधर्मपत्नी श्रुतेरिवार्थं स्मृतिरवगच्छत्॥२॥ निवर्य राजा दयितां दयालुस्तां सौरभेयीं सुरभिर्यशोभिः। पयोधरोभूत चतुःसमुद्रां जुगोप गोरूपधरामिवोर्वीम्॥३॥ व्रताय तेनानुचरेण धेनोन्य॑षेधि शेषोऽप्यनुयायिवर्गः। न चान्यतस्तस्य शरीररक्षा स्ववीर्यगुप्ता हि मनोः प्रसूतिः॥४॥ अस्वादवभिः कवलेस्तृणानां कण्डूयनैर्दशनिवारणैश्च। अव्याहतैः स्वैरगतैः स तस्याः सम्राट् समाराधनतत्परोऽभूत्॥५॥ स्थितः स्थितामुच्चलितः प्रयातां निषेदुषोमासनबन्धधीरः। जलाभिलाषी जलमाददानां छायेव तां भूपतिरवगच्छत्॥६॥ स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः। आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः॥७॥ लताप्रतानोग्रथितः स केशरधिज्यधन्वा विचचार दावम्। रक्षापदेशान्मुनिहोमधेनोर्वन्यान् विनेष्यन्निव दुष्टसत्त्वान्॥८॥ विसृष्टपाश्र्वानुचरस्य तस्य पाश्र्वद्रुमाः पाशभृता समस्य। उदीरयामासुरिवोन्मदानामालोकशब्दं वयसां विरावैः ॥९॥ मरुत्प्रयुक्ताश्च मरुत्सखाभं तमर्त्यमारादभिवर्तमानम्। अवाकिरन् बाललताः प्रसूनैराचारलाजैरिव पौरकन्याः ॥१०॥ धनुर्भ तोऽप्यस्य दयाई भावमाख्यातमन्तःकरणैर्विशः। विलोकयन्त्यो वपुरापुरक्ष्णां प्रकामविस्तारफलं हरिण्यः॥११॥ स कीचकैमरुतपूर्णरन्ध्र: कूजभिरापादितवंशकृत्यम्। शुश्राव कुजेषु यशः स्वमुच्चैरुद्गीयमानं वनदेवताभिः॥१३॥ पृक्तस्तुषारैगरिनिर्झराणामनोकहाकम्पितपुष्पगन्धिः। तमातपक्लाम्तमनातपत्रमा चारपूतं पवनः सिषेवे॥१२॥ शशाम वृष्टयापि विना दवाग्निरासीद् विशेषां फलपुष्पवृद्धिः। ऊनं न सत्त्वेष्वधिको ववाधे तस्मिन् वनं गोप्तरि गाहमाने॥१४॥ संचारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्। प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च1 धेनुः॥१५॥ तां देवतापित्रतिथिक्रियार्थामन्वग्ययौ मध्यमलोकपालः। बभौ च सा तेन सतां मतेन श्रद्धेव साक्षाद् विधिनोपपन्ना॥१६॥ स पल्वलोत्तीर्णवराहयूथान्यावासवृक्षोन्मुखबहिणानि। ययौ मृगाध्यासितशाद्वलानि श्यामायमानानि वनानि पश्यन्॥१७॥ पीनभारोद्वहनप्रयत्नाद् गृष्टिगुरुत्वाद् वपुषो नरेन्द्रः। उभावलचक्रतुरञ्चिताभ्यां तपोवनावृत्तिपथं गताभ्याम्॥१८॥ वसिष्ठधेनोरनुयायिनं तमावर्तमानं वनिता वनान्तात्। पपौ निमेषालसपक्ष्मपङ्क्तिरुपोषिताभ्यामिव लोचनाभ्याम्॥१९॥ पुरस्कृता वर्मनि पाथवेन प्रत्युद्गता पार्थिवधर्मपत्न्या। तदन्तरे सा विरराज धेनुदिनक्षपामध्यगतेव सन्ध्या॥२०॥ (१. प्रस्तुतोभयौपमा। तत्रापि धेनुः पूर्वप्रसङ्गागतेति दीपकमेवात्र युक्तम्।) प्रदक्षिणीकृत्य पयस्विनीं तां सुदक्षिणा साक्षतपात्रहस्ता। प्रणम्य चानचे विशालमस्याः शृङ्गान्तरं द्वारमिवार्थसिद्धेः॥२१॥ वत्सोत्सुकापि स्तिमिता सपर्या प्रत्यग्रहीत् सेति ननन्दतुस्तौ। भक्त्योपपन्नेषु हि तविधानां प्रसादचिह्नानि पुरःफलानि ॥२२॥ गुरोः सदारस्य निपीड्य पादौ समाप्य सान्ध्यं च विधि दिलीपः। दोहावसाने पुनरेव दोग्ध्रीं भेजे भुजोच्छिन्नरिपुनिषण्णाम्॥२३॥ तामन्तिकन्यस्तवलिप्रदीपमन्वास्य गोप्ता गृहिणीसहायः। क्रमेण सुप्तामनु संविवेश सुप्तोत्थितां प्रातरनूदतिष्ठत्१ ॥२४॥ इत्थं व्रतं धारयंतः प्रजार्थं समं महिष्या महनीयकीर्तेः। सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दोनोद्धरणोचितस्य॥२५॥ अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः। गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश॥२६॥ सा दुष्प्रधर्षा मनसापि हिंस्ररित्यद्रिशोभाप्रहितेक्षणेन। अलक्षिताभ्युत्पतनो नृपेण प्रसह्य सिंहः किल तां चकर्ष॥२७॥ तदीयमाक्रन्दितमार्तसाधो-हानिवद्ध-प्रतिशब्ददीर्घम्। रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम्॥२८॥ स पाटलायां गवि तस्थिवांसं धनुर्धरः केसरिणं ददर्श। अधित्यकायामिव धातुमय्यां लोध्रद्रुमं सानुमतः प्रफुल्लम्॥२९॥ ततो मृगेन्द्रस्य मृगेन्द्रगामी वधाय वध्यस्य शरं शरण्यः। जाताभिषङ्गो नृपतिनिषङ्गादुद्धर्तुमैच्छत् प्रसभोद्धतारिः ॥३०॥ (१. नन्दिनी हि विद्या। सा च बुद्धिः। बुद्धिहि पूर्वमेव जागत्ति, पश्चात् पुमान्।) वामेतरस्तस्य करः प्रहर्तुर्नखप्रभाभूषितकङ्कपत्रे। सक्ताङ्गुलिः सायकपुड्स एव चित्रापितारम्भ इवावतस्थे॥३१॥ बाहु-प्रतिष्टम्भ-विवृद्ध--मन्युरभ्यर्णमागस्कृतमस्पृशभिः। राजा , स्वतेजोभिरदह्यतान्तभॊगीव मन्त्रौषधिरुद्धवीर्यः ॥३२॥ तमार्यगृह्यं निगृहीतधेनुर्मनुष्यवाचा मनुवंशकेतुम्। विस्माययन् विस्मितमात्मवृत्तौ सिहोरुसत्त्वं निजगाद सिंहः॥३३॥। अलं महीपाल तव श्रमेण प्रयुक्तमप्यस्त्रमितो वृथा स्यात्। न पादपोन्मूलनशक्ति रंहः शिलोच्चये मूच्र्छति मारुतस्य॥३४॥ कैलासगौरं वृषमारुरुक्षोः पादार्पणानुग्रहपूतपृष्ठम्। अवेहि मां किंकरमष्टमूर्तेः कुम्भोदरं नाम निकुम्भमित्रम्॥३५॥ अमं पुरः पश्यसि देवदारु१ पुत्रीकृतोऽसौ वृषभध्वजेन। यो हेमकुम्भस्तननिःसृतानां स्कन्दस्य मातुः पयसां रसज्ञः॥३६॥ कण्डूयमानेन कट कदाचिद् वन्यद्विपेनोन्मथिता त्वगस्य। अथैनमद्रेस्तनया शुशोच सेनान्यमालीढमिवासुरास्त्रैः॥३७॥ तदाप्रभृत्येव वनद्विपानां त्रासार्थमस्मिन्नहमद्रिकुक्षौ। व्यापारितः शूलभृता विधाय सिहत्वमङ्कागतसत्त्ववृत्ति॥३८॥ तस्यालमेषा क्षुधितस्य तृप्त्यै प्रदिष्टकाला परमेश्वरेण। उपस्थिता शोणितपारणा मे सुरद्विषश्चान्द्रमसी सुधैव॥३९॥ स त्वं निवर्तस्व विहाय लज्जां गुरोर्भवान् दशितशिष्यभक्तिः। शस्त्रेण रक्ष्यं यदशक्यरक्षं न तद् यशः शस्त्रभृतां क्षिणोति॥४०॥ (१. अनेन कुमारसंभवं प्रागरच्यतेत्यनुमीयेत, तत्र ५।१४ पद्ये ‘गुहोऽपियेषामि'-त्याद्युक्तेः।) इति प्रगल्भं पुरुषाधिराजो मृगाधिराजस्य वचो निशम्य। प्रत्याहतास्त्री गिरिशप्रभावादात्मन्यवज्ञां शिथिलीचकार॥४१॥ प्रत्यब्रवीच्चैनमिषुप्रयोगे तत्पूर्वभङ्गे वितथप्रयत्नः। जडीकृतस्त्र्यम्बकवीक्षणेन वज्रं मुमुक्षन्निव वज्रपाणिः॥४२॥ संरुद्धचेष्टस्य मृगेन्द्र कामं हास्यं वचस्तद् यदहं विवक्षुः। अन्तर्गतं प्राणभृतां हि वेद सर्वं भवान् भावमतोऽभिधास्ये॥४३॥ मान्यः स मे स्थावरजङ्गमानां सर्गस्थितिप्रत्यवहारहेतुः। गुरोरपीदं धनमाहिताग्नेर्नश्यत् पुरस्तादनुपेक्षणीयम्॥४४॥ स त्वं मदीयेन शरीरवृत्ति देहेन निर्वर्तयितुं प्रसीद। दिनावसानोत्सुकवालवत्सा विसृज्यतां धेनुरियं महर्षेः॥४५॥ अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्वन्। भूयः स भूतेश्वरपाश्र्ववर्ती किंचिद् विहस्यार्थपति बभाषे॥४६॥ एकातपत्रं जगतः प्रभुत्वं नवं वय: कान्तमिदं वपुश्च। अल्पस्य हेतोर्बहु हातुमिच्छन् विचारविमूढः प्रतिभासि मे त्वम्॥४७॥ भूतानुकम्पा तव चेदिये गौरेका भवेत् स्वस्तिमती त्वदन्ते। जीवन् पुनः शश्वदुपप्लवेभ्यः प्रजाः प्रजानाथ पितेव पासि॥४८॥ अथैकधेनोरपराधचण्डाद् गुरोः कृशानुप्रतिमाद् विभेषि। शक्योऽस्य मन्युर्भवता विनेतुं गाः कोटिशः स्पर्शयता घटोध्नीः॥४९॥ तद् रक्ष कल्याणपरम्पराणां भोक्तारमूर्जस्वलमात्मदेहम्। महीतलस्पर्शनमात्रभिन्नमृद्धं हि राज्यं पदमैन्द्रमाहुः॥५०॥ एतावदुक्त्वा विरते मृगेन्द्र प्रतिस्वनेनास्य गुहागतेन। शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव॥५१॥ निशम्य देवानुचरस्य वाचं मनुष्यदेवः पुनस्प्युवाच। धेन्वा तदध्यासितकातराक्ष्या निरीक्ष्यमाणः सुतरां दयालुः॥५२॥ क्षतात् किल त्रायत इत्युदग्रः क्षत्रस्य शब्दो भुवनेषु रूढः। राज्येन किं तदविपरीतवृत्तेः प्राणैरुपक्रोशमलीमसैर्वा॥५३॥ कथं नु शक्योऽनुनयो महर्षेविश्राणनाच्चान्यपयस्विनीनाम्। इमामनूनां सुरभेरवेहि रुद्रौजसा तु प्रहृतं त्वयाऽस्याम् ॥५४॥ सेयं स्वदेहार्पणनिष्क्रयेण न्याय्या मया मोचयितुं भवत्तः। न पारणा स्याद् विहता तवैवं भवेदलुप्तश्च मुनेः क्रियार्थः॥५५॥ भवानपीदं परवानवैति महान् हि यत्नस्तव देवदारौ। स्थातुं नियोक्तुर्नहि शक्यमग्ने विनाश्य रक्ष्यं स्वयमक्षतेन॥५६॥ किमप्यहिंस्यस्तव चेन्मतोऽहं यशःशरीरे भव मे दयालुः। एकान्तविध्वंसिषु मविधानां पिण्डेष्वनास्था खलु भौतिकेषु॥५७॥ संवन्धमाभाषणपूर्वमाहुवृत्तः स नौ संगतयोर्वनान्ते। तद् भूतनाथानुग नार्हसि त्वं सम्वन्धिनो मे प्रणयं विहन्तुम्॥५८॥ तथेति गामुक्तवते दिलीपः सद्य:प्रतिष्टम्भविमुक्तबाहुः। स न्यस्तशस्त्रो हरये स्वदेहमुपानयत् पिण्डमिवामिषस्य ॥५९॥ तस्मिन् क्षणे पालयितुः प्रजानामुत्पश्यतः सिंहनिपातमुग्रम्। अवाङ्मुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥६०॥ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुत्थितः सन्। ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्रविणीं न सिंहम्॥६१॥ तं विस्मितं धेनुरुवाच साधो मायां मयोद्भाव्य परीक्षितोऽसि। ऋषिप्रभावान्मयि नान्तकोऽपि प्रभुः प्रहर्तुं किमुतान्यहिंस्राः ॥६२॥ भक्त्या गुरौ मय्यनुकम्पया च प्रीतास्मि ते पुत्र वरं वृणीष्व। न केवलानां पयसां प्रसूतिमवेहि मां कामदुधां प्रसन्नाम्॥६३॥ ततः समानीय स मानितार्थी हस्ती स्वहस्ताजितवीरशब्दः। वंशस्य कर्तारमनन्तकीत्ति सुदक्षिणायां तनयं ययाचे॥६४॥ संतानकामाय तथेति कामं, राज्ञे प्रतिश्रुत्य पयस्विनी सा। दुग्ध्वा पयः पत्रपुटे मदीयं पुत्रोपभुक्ष्वेति तमादिदेश॥६५॥ वत्सस्य होमार्थविधेश्व शेषमृषेरनुज्ञामधिगम्य, मातः। औधस्यमिच्छामि तवोपभोक्तुं षष्ठांशमुर्त्या इव रक्षितायाः ॥६६॥ इत्थं क्षितीशेन वसिष्ठधेनुर्विज्ञापिता प्रीततरा बभूव। तदन्विता हैमवताच्च कुक्षेः प्रत्याययावाश्रममश्रमेण॥६७॥ तस्याः प्रसन्नेन्दुमुखः प्रसावं गुरुनृपाणां गुरवे निवेद्य। प्रहर्षचिह्नानुमितं प्रियायै शशंस वाचा पुनरुक्तयेव॥६८॥ स नन्दिनीस्तन्यमनिन्दितात्मा सद्वत्सलो वत्सहुतावशेषम्। पपौ वसिष्ठेन कृताभ्यनुज्ञः शुभ्र' यशो मूर्त मिवातितृष्णः ॥६६॥ प्रातर्यथोक्तव्रतपारणान्ते प्रास्थानिक स्वस्त्ययनं प्रयुज्य। तौ दम्पती स्वां प्रति राजधानी प्रस्थापयामास वशी वसिष्ठः ॥७०॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च। धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रभावः ॥७१॥ श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः। ययावनुघातसुखेन मार्ग स्वेनेव पूर्णेन मनोरथेन॥७२॥ तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजार्थव्रतकशिताङ्गम्। नेत्रैः पपुस्तृप्तिमनाप्नुवभिर्नवोदयं नाथमिवौषधीनाम्॥७३॥ पुरन्दरश्रीः पुरमुत्पताकं प्रविश्य पौरैरभिनन्द्यमानः। भुजे भुजङ्गेन्द्रसमानसारे भूयः स भूमेधुरमाससञ्ज॥७४॥ अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः। सुरसरिदिव तेजो वह्निनिष्ठ्य तमेशम्। नरपतिकुलभूत्यै गर्भमाधत्त राज्ञी गुरुभिरभिनिविष्टं लोकपालानुभावैः॥७५॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये सुदक्षिणागर्भाधानो नाम द्वितीयः सर्गः॥

    तृतीयः सर्गः

    अथेप्सितं भर्तुरुपस्थितोदयं सखीजनोद्वीक्षणक्ॐउदीमुखं। निदानं इक्ष्वाकुकुलस्य संततेः सुदक्षिणा दौर्हृदलक्षणं दधौ।। ३.१।। शरीरसादादसमग्रभूषणा मुखेन सालक्ष्यत लोध्रपाण्डुना। तनुप्रकाशेन विचेयतारका प्रभातकल्पा शशिनेव शर्वरी।। ३.२।। ततो विशांपत्युरनन्यसंततेर्मनोरथं किंचिदिवोदयोन्मुखं। अनन्यसौहार्दरसस्य दोहदं प्रिया प्रपेदे प्रकृतिप्रियंवदा।। ३.२आ।। मुखेन सा केतकपत्त्रपाण्डुना कृशाङ्गयष्टिः परिमेयभूषणा। स्थिताल्पतारां करुणेन्दुमण्डलां विभातकल्पां रजनीं व्यडम्बयथ्।। ३.२भ्।। तदाननं मृत्सुरभि क्षितीश्वरो रहस्युपाघ्राय न तृप्तिं आययौ। करीव सिक्तं पृषतैः पय्ॐउचां शुचिव्यपाये वनराजिपल्वलं।। ३.३।। दिवं मरुत्वानिव भोक्ष्यते भुवं दिगन्तविश्रान्तरथो हि तत्सुतः। अतोऽभिलाषे प्रथमं तथाविधे मनो बबन्धान्यरसान्विलङ्घ्य सा।। ३.४।। न मे ह्रिया शंसति किंचिदीप्सितं स्पृहावती वस्तुषु केषु मागधी। न हीष्टं अस्य त्रिदिवेऽपि भूपतेर्प्रियासखीरुत्तरकोसलेश्वरः।। ३.५।। उपेत्य सा दोहददुःखशीलतां यदेव वव्रे तदपश्यदाहृतं। न हीष्टं अस्य त्रिदिवेऽपि भूपतेरभूदनासाद्यं अधिज्यधन्वनः।। ३.६।। क्रमेण निस्तीर्य च दोहदव्यथां प्रचीयमानावयवा रराज सा। पुराणपत्त्रापगमादनन्तरं लतेव संनद्धमनोज्ञपल्लवा।। ३.७।। दिनेषु गच्छत्सु नितान्तपीवरं तदीयं आनीलमुखं स्तनद्वयं। तिरश्चकार भ्रमराभिलीनयोः सुजातयोः पङ्कजकोशयोः श्रियम्)।। ३.८।। निधानगर्भां इव सागराम्बरां शमीं इवाभ्यन्तरलीनपावकां। नदीं इवान्तःसलिलां सरस्वतीं नृपः ससत्त्वां महिषीं अमन्यत।। ३.९।। प्रियानुरागस्य मनःसमुन्नतेर्भुजार्जितानां च दिगन्तसंपदां। यथाक्रमं पुंसवनादिकाः क्रिया धृतेश्च धीरः सदृशीर्व्यधत्त सः।। ३.१०।। सुरेन्द्रमात्राश्रितगर्भगौरवात्प्रयत्नमुक्तासनया गृहागतः। तयोपचाराञ्जलिखिन्नहस्तया ननन्द पारिप्लवनेत्रया नृपः।। ३.११।। कुमारभृत्याकुशलैरनुष्ठिते भिषग्भिराप्तैरथ गर्भभर्मणि। पतिः प्रतीतः प्रसवोन्मुखीं प्रियां ददर्श काले दिवं अभ्रीतं इव।। ३.१२।। ग्रहैस्ततः पञ्चभिरुच्चसंश्रयैरसूर्यगैः सूचितभाग्यसंपदं। असूत पुत्रं समये शचीसमा त्रिसाधना शक्तिरिवार्थं अक्षयं।। ३.१३।। दिशः प्रसेदुर्मरुतो ववुः सुखाः प्रदक्षिणार्चिर्हविरग्निराददे। बभूव सर्वं शुभशंसि तत्क्षणं भवो हि लोकाभ्युदयाय तादृशां।। ३.१४।। अरिष्टशय्यां परितो विसारिणा सुजन्मनस्तस्य निजेन तेजसा। निशीथदीपाः सहसा हतत्विषो बभूवुरालेख्यसमर्पिता इव।। ३.१५।। जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरं। अदेयं आसीत्त्रयं एव भूपतेः शशिप्रभं छत्त्रं उभे च चामरे।। ३.१६।। समीक्ष्य पुत्रस्य चिरान्मुखं पिता निधानकुम्भस्य युवेव दुर्गतः। मुदा शरीरे प्रबभूव नात्मनः पयोधिरिन्दूदयमूर्छितो यथा।। ३.१६*।। निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबतः सुताननं। महोदधेः पूर इवेन्दुदर्शनाद्गुरुः प्रहर्षः प्रबभूव नात्मनि।। ३.१७।। स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोधसा कृते। दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बभौ।। ३.१८।। सुखश्रवा मङ्गलतूर्यनिस्वनाः प्रमोदनृत्यैः सह वारयोषितां। न केवलं सद्मनि मागधीपतेः पथि व्यजृम्भन्त दिवौकसां अपि।। ३.१९।। न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः। ऋणाभिधानात्स्वयं एव केवलं तदा पितःणां मुमुचे स बन्धनाथ्।। ३.२०।। शुतस्य यायादयं अन्तं अर्भकस्तथा परेषां युधि चेति पार्थिवः। अवेक्ष्य धातोर्गमनार्थं अर्थविच्चकार नाम्ना रघुं आत्मसंभवं।। ३.२१।। पितुः प्रयत्नात्स समग्रसंपदः शुभैः शरीरावयवैर्दिने दिने। पुपोष वृद्धिं हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः।। ३.२२।। उमावृषाङ्कौ शरजन्मना यथा यथा जयन्तेन शचीपुरंदरौ। तथा नृपः सा चु सुतेन मागधी ननन्दतुस्तत्सदृशेन तत्समौ।। ३.२३।। रथाङ्गनाम्नोरिव भावबन्धनं बभूव यत्प्रेम परस्पराश्रयं। विभक्तं अप्येकसुतेन तत्तयोः परस्परस्योपरि पर्यचीयत।। ३.२४।। उवाच धात्र्या प्रथमोदितं वचो ययौ तदीयां अवलम्ब्य चाङ्गुलिं। अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः।। ३.२५।। तं अङ्कं आरोप्य शरीरयोगजैः सुखैर्निषिञ्चन्तं इवामृतं त्वचि। उपान्तसंमीलितलोचनो नृपश्चिरात्सुतस्पर्शरस्ज्ञतां ययौ।। ३.२६।। तं अङ्कं आरोप्य शरीरयोगजैः स्थितेरभेत्ता स्थितिमन्तं अन्वयं। स्वमूर्तिभेदेन गुणाग्र्यवर्तिना पतिः प्रजानां इव सर्गं आत्मनः।। ३.२७।। स वृत्तचौलश्चलकाकपक्षकैरमात्यपुत्रैः सवयोभिरन्वितः। लिपेर्यथावद्ग्रहणेन वाङ्मयं नदीमुखेनेव समुद्रं आविशथ्।। ३.२८।। अथोपनीतं विधिवद्विपश्चितो विनिन्युरेनं गुरवो गुरुप्रियं। अवन्ध्ययत्नाश्च बभूवुरर्भके ततार विद्याः पवनातिपातिभिर्।। ३.२९।। धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः। ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितां इवेश्वरः।। ३.३०।। त्वचं स मेध्यां परिधाय रौरवीं अशिक्षतास्त्रं पितुरेव मन्त्रवथ्। न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः।। ३.३१।। महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव। रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः।। ३.३२।। अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्तयद्गुरुः। नरेन्द्रकन्यास्तं अवाप्य सत्पतिं तमोनुदं दक्षसुता इवाबभुः।। ३.३३।। युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकंधरः। वपुःप्रकर्षादजयद्गुरुं रघुस्तथापि नीचैर्विनयाददृश्यत।। ३.३४।। ततः प्रजानां चिरं आत्मना धृतां नितान्तगुर्वीं लघयिष्यता धुरं। निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक्।। ३.३५।। नरेन्द्रमूलायतनादनन्तरं घनव्यपायेन गभस्तिमानिव। अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलं।। ३.३६।। विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव। बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः।। ३.३७।। नियुज्य तं ह्ॐअतुरंगरक्षणे धनुर्धरं राजसुतैरनुद्रुतं। अपूर्णं एकेन शतक्रतूपमः शतं क्रतूना अपविघ्नं आप सः।। ३.३८।। ततः परं तेन मखाय वज्वना तुरंगं उत्सृष्टं अनर्गलं पुनः। धनुर्भृतां अग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः।। ३.३९।। विषादलुप्तप्रतिपत्ति विस्मितं ममैव येनेह तुरंगं ईक्षसे। धेन्वा निशम्येति वचः समीर्तं श्रुतप्रभावा ददृशेऽथ नन्दिनी।। ३.४०।। स्वेदाम्बुना मार्जय पुत्र लोचने ममैव येनेह तुरंगं ईक्षसे। धेन्वा निशम्येति वचः समीरितं मुदं परां आप दिलीपनन्दनः।। ३.४०*।। तदङ्गनिस्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सतां। अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः।। ३.४१।। स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसंभवः। पुनः पुनः सूतनिषिद्धचापलं हरन्तं अश्वं रथरश्मिसंयतं।। ३.४२।। स पूर्वतः पर्वतपक्षशातनं हरिं विदित्वा हरिभिश्च वाजिभिः। अवोचदेनं गन्गस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव।। ३.४३।। मखांशभाजां प्रथमो मनीषिभिस्त्वं एव देवेन्द्र सदा निगद्यसे। अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे।। ३.४४।। त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा। स चेत्स्वयं करमसु धर्मचारिणां त्वं अन्तरायो भवसि च्युतो विधिः।। ३.४५।। तदङ्गं अग्र्यं मघवन्महाक्रतोरमुं तुरंगं प्रतिमोक्तुं अर्हसि। पतःश्रुतेर्दर्शयितार ईश्वरा मलीमसां आददते न पद्धतिं।। ३.४६।। इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसां। निवर्तयां आस रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुं उत्तरं।। ३.४७।। यदात्थ राजन्यकुमार तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः। जगत्प्रकाशं तदशेषं इज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः।। ३.४८।। हरिर्यथैकः पुरुशोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः। तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी न हि शब्द एष नः।। ३.४९।। अतोऽयं अश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयापहारितः। अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य संततेः।। ३.५०।। ततः प्रहस्यापभयः पुरंदरं पुनर्बभाषे तुरगस्य रक्षिता। गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान्।। ३.५१।। स एवं उक्त्वा मघवन्तं उन्मुखः करिष्यमाणः सशरं शरासनं। अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः।। ३.५२।। रघोरवष्टम्भमयेन पत्त्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः। नवाम्बुदानीकमुहूर्तलाञ्छने धनुष्यमोघं समधत्त सायकं।। ३.५३।। दिलीपसूनोः स बृहद्(?) भुजान्तरं प्रविश्य भीमासुरशोणितोचितः। पपावनास्वादितपूर्वं आशुगः कुतूहलेनेव मनुष्यशोणितं।। ३.५४।। हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ। भुजे शचीपत्त्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकं।। ३.५५।। जहार चान्येन मयूरपत्त्रिणा शरेण शक्रस्य महाशनिध्वजं। चुकोप तस्मै स भृशं सुरश्रियः प्रसहय केशव्यपरोपणादिव।। ३.५६।। तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविशभीमदर्शनैः। बभूव युद्धं तुमुउलं जयैषिणोरध्ॐउखैरूर्ध्वमुखैश्च पत्त्रिभिः।। ३.५७।। अतिप्रबन्धप्रहितास्त्रवृष्टिभिस्तं आश्रयं दुष्प्रहस्य तेजसः। शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निं इवाद्भिरम्बुदः।। ३.५८।। ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीर। रघुः शशाङ्कार्धमुखेन पत्त्रिणा शरासनज्यां अलुनाद्विडौजसः।। ३.५९।। स चापं उत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः। महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलं अस्त्रं आददे।। ३.६०।। रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः। निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिस्वनैः।। ३.६१।। तथापि शस्त्रव्यवहारनिष्ठुरे बिपक्षभावे चिरं अस्य तस्थुषः। तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्र गुणैर्निधीयते।। ३.६२।। असङ्गं अद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढं आयुधं। अवेहि मां प्रीतं ऋते तुरंगमात्किं इच्छसीति स्फुटं आह वासवः।। ३.६३।। ततो निषङ्गादसमग्रं उद्धृतं सुवर्णपुङ्खद्युतिरञ्जिताङ्गुलिं। नरेन्द्रसूनुः प्रतिसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरं।। ३.६४।। अमोच्यं अश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि। अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यतां।। ३.६५।। यथा च वृत्तान्तं इमं सदोगतस्त्रिलोचनैकांशतया दुरासदः। तवैव संदेषहराद्विशंपतिः शृणोति लोकेश तथा विधीयतां।। ३.६६।। तथेति कामं प्रतिशुश्रुवान्रघोर्यथागतं मातलिसारथिर्ययौ। नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिनासूनुरपि न्यवर्तत।। ३.६७।। तं अभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः। परामृशन्हर्षजडेन पाणिना तदीयं अङ्गं कुलिशव्रणाङ्कितं।। ३.६८।। इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः। समारौरुक्षुर्दिवं आयुषः क्षये ततान सोपानपरंपरां इव।। ३.६९।। अथ स विषव्यावृत्तात्मा यथाविधि सूनवे नृपतिककुदं दत्त्वा यूने सितातपवारणं। मुनिवनतरुच्छायां देव्या तया सह शिश्रिये गलितवयसां इक्ष्वाकूणा इदं हि कुलव्रतम्।। ३.७०। ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रघुराज्याभिषेको नाम तृतीयः सर्गः॥

    चतुर्थः सर्गः

    स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ। दिनान्ते निहितं तेजः सवित्रेव हुताशनः॥ ४.१॥ न्यस्तशस्त्रं दिलीपं च तं च शुश्रुवुषां पतिं। राज्ञां उद्धृतनाराचे हृदि शल्यं इवार्पितं॥ ४.१*॥ दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितं। पूर्वं प्रदूमितो राज्ञां हृदयेऽग्निरिवोत्थितः॥ ४.२॥ पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः। नवाभ्युत्थानदर्शिन्यो ननन्दुः स प्रजाः प्रजाः॥ ४.३॥ समं एव समाक्रान्तं तस्योन्नयनपङ्क्तयः। तेन सिंहासनं पित्र्यं अखिलं चारिमण्डलं॥ ४.४॥ छायामण्डललक्ष्येन तं अदृश्या किल स्वयं। पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितं॥ ४.५॥ परिकल्पितसांनिध्या काले काले च बन्दिषु। स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती॥ ४.६॥ मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः। तथाप्यनन्यपूर्वेव तस्मिन्नासीद्वसुंधरा॥ ४.७॥ स हि सर्वस्य लोकस्य युक्तदण्डतया मनः। आददे नातिशीतोष्णो नभस्वानिव दक्षिणः॥ ४.८॥ मन्दोत्कण्टः कृतास्तेन गुणाधिकतया गुरौ। फलेन सहकारस्य फुष्पोद्गम इव प्रजाः॥ ४.९॥ नयविद्भिर्नवे राज्ञि सदसच्चोपदर्शितं। पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः॥ ४.१०॥ पञ्चानां अपि भूतानां उत्कर्षं पुपुषुर्गुणाः। नवे तस्मिन्महीपाले सर्वं नवं इवाभवथ्॥ ४.११॥ यथा प्रह्लादनाच्चन्द्रः प्रतापात्तपनो यथा। तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनाथ्॥ ४.१२॥ कामं कर्णान्तविष्रान्ते विशाले तस्य लोचने। चक्षुष्मत्ता तु शास्त्रेण सूक्ष्मकार्यार्थदर्शिना॥ ४.१३॥ लब्धप्रशमनस्वस्थं अथैनं समुपस्थिता। पार्थिवश्रीर्द्वितीयेव शरत्पङ्कजलक्षणा॥ ४.१४॥ निर्वृष्टलघुभिर्मेघैर्मुक्तवर्त्मा सुदुःसहः। स्वं धनुः शङ्कितेनेव युगपद्व्यानशे दिशः॥ ४.१५॥ अधिज्यं आयुधं कर्तुं मुक्तवर्त्मा सुदुःसहः। स्वं धनुः शङ्कितेनेव संजह्रे शतमन्युना॥ ४.१५*॥ वार्षिकं संजहारेन्द्रो धनुर्जैत्रं रघुर्दधौ। प्रजार्थसाधने तौ हि पर्यायोद्यतकार्मुकौ॥ ४.१६॥ पुण्डरीकातपत्रस्तं विकसत्काशचामरः। ऋतुर्विडम्बयां आस आसीत्समरसा द्वयोः॥ ४.१७॥ प्रसादरीकातपत्रस्तं चन्द्रे च विशदप्रभे। तदा चक्षुष्मतां प्रीतिरासीत्समरसा द्वयोः॥ ४.१८॥ हंसश्रेणीषु तारासु कुमुद्वत्सु च वारिषु। विभूतयय्स्तदीयानां पर्यस्ता यशसां इव॥ ४.१९॥ इक्षुच्छायनिषादिन्यस्तस्य गोप्तुर्गुणोदयं। आकुमारकथोद्घातं शालिगोप्यो जगुर्यशः॥ ४.२०॥ प्रससादोदयादम्भः कुम्भयोनेर्महौजसः। रघोरभिभवाशङ्कि चुक्षुभे द्विषतां मनः॥ ४.२१॥ मदोदग्राः ककुद्मन्तः सरितां कूलमुद्रुजाः। लीलाखेलं अनुप्रापुर्मोहक्षास्तस्य विक्रमं॥ ४.२२॥ प्रसवैः सप्तपर्णानां मदगन्धिभिराहताः। असूययेव तन्नागाः सप्तधैव प्रसुस्रुवुः॥ ४.२३॥ सरितः कुर्वती गाधाः पथश्चाश्यानकर्दमान्। यात्रायै चोदयां आस तं शक्तेः प्रथमं शरथ्॥ ४.२४॥ सम्यक्तस्मै घुतो वह्निर्वाजिनीराजनाविधौ। प्रदक्षिणार्चिर्व्याजेन हस्तेनेव जयं ददौ॥ ४.२५॥ स गुप्तमूलप्रत्यन्तः शुद्धपार्ष्णिरयान्वितः। षड्विधं बलं आदाय प्रतस्थे दिग्जिगीषया॥ ४.२६॥ अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः। पृषतैर्मन्दरोद्धूतैः क्षीरोर्मय इवाच्युतं॥ ४.२७॥ स ययौ प्रथमं प्राचीं तुल्यः प्राचीनबर्हिषा। अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः॥ ४.२८॥ रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसंनिभैः। भुवस्तलं इव व्य्ॐअ कुर्वन्व्य्ॐएव भूतलं॥ ४.२९॥ प्रतापोऽग्रे ततः शब्दः परागस्तदन्तरं। ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः॥ ४.३०॥ मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः। विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः॥ ४.३१॥ पुरोगैः कलुषास्तस्य सहप्रस्थायिभिः कृशाः। पश्चात्प्रयायिभिः पङ्काश्चक्रिरे मार्गनिम्नगाः॥ ४.३१*॥ स सेनां महतीं कर्षन्पूर्वसागरगामिनीं। बभौ हरजटाभ्रष्टां गङ्गां इव भगीरथः॥ ४.३२॥ त्याजितैः फलं उत्खातैर्भग्नैश्च बहुधा नृपैः। तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः॥ ४.३३॥ पौरस्त्यानेवं आक्रामंस्तांस्ताञ्जनपदाञ्जयी। प्राप तालीवन्श्यामं उपकञ्ठं महोदधेः॥ ४.३४॥ अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव। आत्मा संरक्षितः सुह्मैर्वृत्तिं आश्रित्य वैतसीं॥ ४.३५॥ वङ्गानुत्खाय तरसा नेता नौसाधनोद्धतान्। निचखान जयस्तम्भान्गङ्गास्रोतोऽन्तरेषु सः॥ ४.३६॥ आपादपद्मप्रणताः कलमा इव ते रघुं। फलैः संवर्धयां आसुरुत्खातप्रतिर्पिताः॥ ४.३७॥ स तीर्त्वा कपिषां सैन्यैर्बद्धद्विरदसेतुभिः। उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ॥ ४.३८॥ स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयथ्। अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः॥ ४.३९॥ प्रतिजग्राह कालिङ्गस्तं अस्त्रैर्गजसाधनः। पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्वतः॥ ४.४०॥ द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनं। सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियं॥ ४.४१॥ वायव्यास्त्रविनिर्धूतात्पक्षाविद्धान्महोदधेः। गजानीकात्स कालिङ्गं तार्क्ष्यः सर्पं इवाददे॥ ४.४१*॥ ताम्बूलीनां दलैस्तत्र रचितापानभूमयः। नलिकेरासवं योधाः शात्रवं च पपुर्यशः॥ ४.४२॥ गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः। श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीं॥ ४.४३॥ ततो वेलातटेनैव फलवत्पूगमालिना। अगस्त्याचरितां आशां अनाशास्यजयो ययौ॥ ४.४४॥ स सैन्यपरिभोगेण गजदानसुगन्धिना। कावेरीं सरितां पत्युः शङ्कनीयां इवाकरोथ्॥ ४.४५॥ बलैरधुषितास्तस्य विजिगीषोर्गताध्वनः। मरिचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः॥ ४.४६॥ ससञ्जुरश्वक्षुण्णानां एलानां उत्पतिष्णवः। तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः॥ ४.४७॥ आजानेयखुरक्षुण्णपक्वैलाक्षेत्रसंभवं। व्यानशे सपदि व्य्ॐअ त्रिपदीछेदिनां अपि॥ ४.४७*॥ भोगिवेष्टनमार्गेषु चन्दनानां समर्पितं। न्ऽआस्रसत्करिणां ग्रैवं त्रिपदीछेदिनां अपि॥ ४.४८॥ दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि। तस्यां एव रघोः पाण्ड्याः प्रतापं न विषेहिरे॥ ४.४९॥ ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः। ते निपत्य ददुस्तस्मै यशः स्वं इव संचितं॥ ४.५०॥ स निर्विश्य यथाकामं तटेष्वालीनचन्दनौ। स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ॥ ४.५१॥ तस्यानीकैर्विसर्पद्भिरपरान्तजयोद्यतैः। रामास्त्रोत्सारितोऽप्यासीत्सह्यलग्न इवार्णवः॥ ४.५३॥ भयोत्सृष्टविभूषाणां तेन केरलयोषितां। अलकेषु चमूरेणुश्चूर्णप्रतिनिधीकृतः॥ ४.५४॥ मुरलामारुतोद्धूतं अगमत्कैतकं रजः। तद्योधवारबाणानां अयत्नपटवासतां॥ ४.५५॥ अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः। वर्मभिः पवनोद्धूतराजतालीवनद्व्ह्वनैः॥ ४.५६॥ खर्जूरीस्कन्धनद्धानां मदोद्गार्तसुगन्धिषु। कटेषु करिणां पेतुः पुंनागेभ्यः शिलीमुखाः॥ ४.५७॥ अवकाशं किलोदन्वान्रामायाभ्यर्थितो ददौ। अपरान्तमहीपालव्याजेन रघवे करं॥ ४.५८॥ मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणं। त्रिकूटं एव तत्रोच्चैर्जयस्तम्भं चकार सः॥ ४.५९॥ पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना। इन्द्रियाख्यानिव रिपूंस्तत्त्वज्ञानेन संयमी॥ ४.६०॥ यवनीमुखपद्मानां सेहे मधुमदं न सः। बालातपं इवाब्जानां अकालजलदोदयः॥ ४.६१॥ संग्रामस्तुमुलस्तस्य पाश्चात्यैरश्वसाधनैः। शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूथ्॥ ४.६२॥ भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीं। तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव॥ ४.६३॥ अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः। प्रणिपातप्रतीकारः संरम्भो हि महात्मनां॥ ४.६४॥ विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमं। आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु॥ ४.६५॥ ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशं। शरैरुस्रैरिवोदीच्यानुद्धरिष्यं रसानिव॥ ४.६६॥ जितानजय्यस्तानेव कृत्वा रथपुरःसरान्। महार्णवं इवौराग्निः प्रविवेशोत्तरापथं॥ ४.६६*॥ विनीताध्वश्रमास्तस्य सिन्धुतीरवेचेष्टनैः। दुधुवुर्वाजिनः स्कन्धांल्लग्नकुङ्कुमकेसरान्॥ ४.६७॥ तत्र हूणावरोधानां भर्तृशु व्यक्तविक्रमं। कपोलपाटलादेशि बभूव रघुचेष्टितं॥ ४.६८॥ काम्बोजाः समरे सोढुं तस्य वीर्यं अनीश्वराः। गजालानपरिक्लिष्टैरक्षोटैः सार्धं आनताः॥ ४.६९॥ तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः। उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरं॥ ४.७०॥ ततो गौरीगुरुं शैलं आरुरोहाश्वसाधनः। वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः॥ ४.७१॥ शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसंभ्रमं। गुहाशयानां सिंहानां परिवृत्यावलोकितं॥ ४.७२॥ भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः। गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे॥ ४.७३॥ विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः। दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥ ४.७४॥ सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः। आसन्नोषधयो नेतुर्नक्तं अस्नेहदीपिकाः॥ ४.७५॥ तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षत त्वचः। गजवर्ष्म किरातेभ्यः शशंसुर्देवदारवः॥ ४.७६॥ तत्र जन्यं रघोर्घोरं पार्वतीयैर्गणैरभूथ्। नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं॥ ४.७७॥ शरैरुत्सवसंकेतान्स कृत्वा विरतोत्सवान्। जयोदाहरणं बाह्वोर्गापयां आस किंनरान्॥ ४.७८॥ परस्परेण विज्ञातस्तेषूपायनपाणिषु। राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा॥ ४.७९॥ तत्राक्षोभ्यं यशोराशिं निवेश्यावरुरोभ सः। पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियं॥ ४.८०॥ चकम्पे तीर्णलौहित्ये तस्मिन्प्राग्ज्योतिषेश्वरः। तद्गालानतां प्राप्तैः सह कालागुरुद्रुअमैः॥ ४.८१॥ न प्रसेहे स रुद्धार्कं अधारावर्षदुर्दिनं। रथवर्त्म रजोऽप्यस्य कुत एव पताकिनीं॥ ४.८२॥ तं ईशः कामरूपाणां अत्याखण्डलविक्रमं। भेजे भिन्नकटैर्नागैरन्यानुपरुरोध यैः॥ ४.८३॥ कामरूपेश्वरस्तस्य हेमपीठाधिदेवतां। रत्नपुष्पोपहारेण च्छायां आनर्च पादयोः॥ ४.८४॥ इति जित्वा दिषो जिष्णुर्न्यवर्तत रथोद्धतं। रजो विश्रामयन्राज्ञां छत्त्रशून्येषु मौलिषु॥ ४.८५॥ स विश्वजितं आजह्रे यज्ञं सर्वस्वदक्षिणं। आदानं हि विसर्गाय सतं वारिमुचां इव॥ ४.८६॥ सत्त्रान्ते सचिवसखः पुरस्क्रियाभिर्गुर्वीभिः शमितपराजयव्यलीकान्। काकुत्स्थश्चिरविरहोत्सुकावरोधान्राजन्यान्स्वपुरनिवृत्तयेऽनुमेने॥ ४.८७॥ यज्ञान्ते तं अवभृथाबिषेकपूतं सत्कारैः शमितपराजयव्यलीकान्। आमन्त्र्योत्सुकवनितात्पतद्विसृष्टाः स्वानि स्वान्यवनिभुजः पुराणि जग्मुः॥ ४.८७*॥ ते रेकाध्वजकुलिशातपत्रैचिह्नं सम्राजश्चरणयुगं प्रसादलभ्यं। प्रस्थानप्रणतिभिरङ्गुलीषु चक्रुर्मौलिस्रक्च्युतमकरन्दरेणुगौरं॥ ४.८८॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रघुविश्वजिद्यज्ञानुष्ठानो नाम चतुर्थः सर्गः॥

    पञ्चमः सर्गः

    तं अध्वरे विश्वजिति क्षितीशं निःशेषविश्राणितकोशजातं। उपात्तविद्यो गुरुदक्षिनार्थी कौत्सः प्रपेदे वरतन्तुशिष्यः॥ ५.१॥ स मृन्मये वीतहिरण्मयत्वात्पात्रे निधायार्गह्यं अनर्घशीलः। श्रुतप्रकाशं यशसा प्रकाशः प्रत्युज्जगामातिथिं आतिथेयः॥ ५.२॥ तं अर्चयित्वा विधिवद्विधिज्ञस्तपोधनं मानधनाग्रयायी। विशांपतिर्विष्टरभाजं आरात्कृताञ्जलिः कृत्यविदित उवाच॥ ५.३॥ अप्यग्रणीर्मन्त्रकृतां ऋषीणां कुशाग्रबुद्धे कुशली गुरुस्ते। यतस्त्वया ज्ञानं अशेषं आप्तं लोकेन चैतन्यं इवोष्णरश्मेः॥ ५.४॥ कायेन वाचा मनसापि शश्वद्यत्संभृतं वासवधैर्यलोपि। आपाद्यते न व्ययं अन्तरायैः कच्चिन्महर्षेस्त्रिविधं तपस्तथ्॥ ५.५॥ आधारबन्धप्रमुखैः प्रयत्नैः संवर्धितानां सुतनिर्विशेषं। कच्चिन्न वाय्वादिरुपप्लवो वः श्रमच्छिदं आश्रमपादपानां॥ ५.६॥ क्रियानिमित्तेष्वपि वत्सलत्वादभग्नकामा मुनिभिः कुशेषु। तदङ्कशय्याच्युतनाभिनाला कच्चिन्मृगीणां अनघा प्रसूतिः॥ ५.७॥ निर्वर्त्यते यैर्नियमाभिषेको येभ्यो निवापाञ्जलयः पितःणां। तान्युञ्छषष्ठाङ्कितसैकतानि शिवानि वस्तीर्थजलानि कच्चिथ्॥ ५.८॥ नीवारपाकादि कडम्गरीयैरामृश्यते जानपदैर्न कच्चिथ्। कालोपपन्नातिथिकल्पभागं वन्यं शरीरस्थितिसाधनं वः॥ ५.९॥ अपि प्रसन्नेन महर्षिणा त्वं सम्यग्विनीयानुमतो गृहाय। कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षमं आश्रमं ते॥ ५.१०॥ तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सुकं मे। अप्याज्ञया शासितुरात्मना वा प्राप्तोऽसि संभावयितुं वनान्मां॥ ५.११॥ इत्यर्घ्यपात्रानुमितव्ययस्य रघोरुदारां अपि गां निशम्य। स्वार्थोपपत्तिं प्रति दुर्बलाशस्तं इत्यवोचद्वरतन्तुशिष्यः॥ ५.१२॥ सर्वत्र नो वार्त्तं अवेहि राजन्नाथे कुतस्त्वव्यशुभं प्रजानां। सूर्ये तपत्यावरणाय दृष्टेः कल्पेत लोकस्य कथं तमिस्रा॥ ५.१३॥ भक्तिः प्रतीक्ष्येषु कुलोचिता ते पूर्वान्महाभाग तयाऽतिशेषे। व्यतीतकालस्त्वहं अभ्युपेतस्त्वां अर्थिभावादिति मे विषादः॥ ५.१४॥ शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः। आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः॥ ५.१५॥ स्थाने भवानेकनराधिपः सन्नकिंचनत्वं मखजं व्यनक्ति। पर्यायपीतस्य सुरैर्हिमांशोः कलाक्षयः श्लाघ्यतरो हि वृद्धेः॥ ५.१६॥ तदन्यतस्तावदनन्यकार्यो गुर्वर्थं आहर्तुं अहं यतिष्ये। स्वस्त्यस्तु ते निर्गलिताम्बुगर्भं शरद्घनं नार्दति चातकोऽपि॥ ५.१७॥ एतावदुक्त्वा प्रतियातुकामं शिष्यं महर्षेर्नृपतिर्निषिध्य। किं वस्तु विद्वन्गुरवे प्रदेयं त्वया कियद्वेति तं अन्वयुङ्क्त॥ ५.१८॥ ततो यथावद्विहिताध्वराय तस्मै स्मयावेशविवर्जिताय। वर्णाश्रमाणां गुरवे स वर्णी विचक्षणः प्रस्तुतं आचचक्षे॥ ५.१९॥ समाप्तविद्येन मया महर्षिर्विज्ञापितोऽभूद्गुरुदक्षिणायै। स मे चिरायास्खलितोपचारां तां भक्तिं एवागणयत्पुरस्ताथ्॥ ५.२०॥ निर्बन्धसंजातरुषार्थकार्श्यं अचिन्तयित्वा गुरुणाहं उक्तः। वित्तस्य विद्यापरिसंख्यया मे कोटीष्चतस्रो दश चाहरेति॥ ५.२१॥ सोऽहं सपर्याविधिभाजनेन मत्वा बह्वन्तं प्रभुशब्दशेषं। अभ्युत्सहे संप्रति नोपरोद्धुं अल्पेतरत्वाच्छ्रुतनिष्क्रयस्य॥ ५.२२॥ इत्थं द्विजेन द्विजराकान्तिरावेदितो वेदविदां वरेण। एनोनिवृत्तेन्द्रियवृत्तिरेनं जगाद भूयो जगदेकनाथः॥ ५.२३॥ गुर्वर्थं अर्थी श्रुतपारदृश्वा रघोः सकाशादनवाप्य कामं। गतो वदायान्तरं इत्ययं मे मा भूत्परीवादनवावतारः॥ ५.२४॥ स त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोऽग्निरिवाग्न्यगारे। द्वित्राण्यहान्यर्हसि सोढुं अर्हन्यावद्यते साधयितुं त्वदर्थं॥ ५.२५॥ तथेति तस्य्ऽ आवितथं प्रतीतः प्रत्यग्रहीत्संगरं अग्रजन्मा। गां आत्तसारां रघुरप्यवेक्ष्य निष्कष्टुं अर्थं चकमे कुबेराथ्॥ ५.२६॥ वसिष्ठमन्त्रोक्षणजात्प्रभावादुदन्वदाकाशमहीधरेषु। मरुत्सखस्येव बलाहकस्य गतिर्विजघ्ने न हि तद्रथस्य॥ ५.२७॥ अथाधिशिश्ये प्रयथः प्रदोषे रथं रघुः कल्पितशस्त्रगर्भं। सामन्तसंभावनयैव धीरः कैलासनाथं तरसा जिगीषुः॥ ५.२८॥ प्रातः प्रयाणाभिमुखाय तस्मै सविस्मयाः कोशगृहे नियुक्ताः। हिरण्मयीं कोशगृहस्य मध्ये वृष्टिं शशंसुः पतितां नभस्तः॥ ५.२९॥ तं भूपतिर्भासुरहेमराशिं लब्धं कुबेरादभियास्यमानाथ्। दिदेश कौतस्य समस्तं एव पादं सुमेरोरिव वज्रभिन्नं॥ ५.३०॥ जनस्य साकेतनिवासिनस्तौ द्वावप्यभूतां अभिनन्द्यसत्त्वौ। गुरुप्रदेयाधिकनीःस्पृहोऽर्थी नृपोऽर्थिकामादधिकप्रदश्च॥ ५.३१॥ अथोष्ट्रवामीशतवाहितार्थं प्रजेष्वरं प्रीतमना महर्षिः। स्पृषन्करेणानतपूर्वकायं संप्रस्थितो वाचं उवाच कौत्सः॥ ५.३२॥ किं अत्र चित्रं यदि कामसूर्भूर्वृत्ते स्थितस्याधिपतेः प्रजानां। अचिन्तनीयस्तु तव प्रभावो मनीषितं द्यौरपि येन दुग्धा॥ ५.३३॥ आशास्यं अन्यत्पुनरुक्तभूतं श्रेयांसि सर्वाण्यधिजग्मुषस्ते। पुत्रं लभस्वात्मगुणानुरूपं भवन्तं ईडं भवतः पितेव॥ ५.३४॥ इत्थं प्रयुज्याशिषं अग्रजन्मा राज्ञे प्रतीयाय गुरोः सकाशं। राजापि लेभे सुतं आशु तस्मादालोकं अर्कादिव जीवलोकः॥ ५.३५॥ ब्राह्मे मुहूर्ते किल तस्य देवी कुमारकल्पं सुषुवे कुमारं। अतः पिता ब्रह्मण एव नाम्ना तं आत्मजन्मानं अजं चकार॥ ५.३६॥ रूपं तदोजस्वि तदेव वीर्यं तदैव नैसर्गिकं उन्नतत्वं। न कारणात्स्वाद्बिभिदे कुमारः प्रवर्तितो दीप इव प्रदीपाथ्॥ ५.३७॥ उपात्तविद्यं विधिवद्गुरुभ्यस्तं यौवनोद्भेदविशेषकान्तं। श्रीर्गन्तुकामापि गुरोरनुज्ञां धीरेव कन्या पितुराचकाङ्क्ष॥ ५.३८॥ अथेश्वरेण क्रथकैशिकानां स्वयंवरार्थं स्वसुरिन्दुमत्याः। आप्तः कुमारानयनोत्सुकेन भोजेन दूतो रघवे विसृष्टः॥ ५.३९॥ तं श्लाघ्यसंबन्धं असौ विचिन्त्य दारक्रियायोग्यदशं च पुत्रं। प्रस्थापयां आस ससैन्यं एनं ऋद्धां विदर्भाधिपराजधानीं॥ ५.४०॥ तस्योपकार्यारचितोपकारा वन्येतरा जानपदोपदाभिः। मार्गे निवासा मनुजेन्द्रसूनोर्बभूवुरुद्यानविहारकल्पाः॥ ५.४१॥ स नर्मदारोधसि शीकरार्द्रैर्मरुद्भिरानर्तितनक्तमाले। निवेशयां आस विलङ्घिताध्वा क्लान्तं रजोधूसरकेतु सैन्यं॥ ५.४२॥ अथोपरिष्टाद्भ्रमरैर्भ्रमद्भिः प्राक्सूचितान्तःसलिलप्रवेशः। निर्धौत दानामलगण्डभित्तिर्यन्यः सरित्तो गज उन्ममज्ज॥ ५.४३॥ निःशेषविक्षालितधातुनापि वप्रक्रियां ऋक्षवतस्तटेषु। नीलोर्ध्वरेखाशबलेन शंसन्दन्तद्वयेनाश्मविकुण्ठितेन॥ ५.४४॥ संहारविक्षेपलघुक्रियेण हस्तेन तीराभिमुखः सशब्दं। बभौ स भिन्दन्बृहतस्तरङ्गान्वार्यर्गलाभङ्ग इव प्रवृत्तः॥ ५.४५॥ स भोगिभोगाधिकपीवरेण हस्तेन तीराभिमुखः सशब्दं। संवर्धितार्त्धप्रहितेन दीर्घान्चिक्षेप वारीपरिघानिवोर्मीन्॥ ५.४५*॥ शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चाथ्। पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटं उत्ससर्प॥ ५.४६॥ कारण्डवोत्सृष्टमृदुप्रत्नानाः पुलिन्दयोषाम्बुविहारकाञ्चीः। कर्षन्स शैवाललता नदीषः स्कन्धावलग्नास्तटं उत्ससर्प॥ ५.४६*॥ तस्यैकनागस्य कपोलभित्त्योर्जलावगाहक्षणमात्रशान्ता। वन्येतरानेकपदर्शनेन पुनर्दिदीपे मददुर्दिनश्रीः॥ ५.४७॥ सप्तच्छदक्षीरकटुप्रवाहं असह्यं आघ्राय मदं तदीयं। विलङ्घिताधोरणतीव्रयत्नाः सेनागजेन्द्रा विमुखा बभूवुः॥ ५.४८॥ स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्यस्तरथं क्षणेन। रामापरिताणविहस्तयोधं सेनानिवेशं तुमुलं चकार॥ ५.४९॥ तं आपतन्तं नृपतेरवध्यो वन्यः करीति श्रुतवान्कुमारः। निवर्तयिष्यन्विशिखेन कुम्भे जघान नात्यायतकृष्टशार्ङ्गः॥ ५.५०॥ स विद्धमात्रः किल नागरूपं उत्सृज्य तद्विस्मितसैन्यदृष्टः। स्फुरत्प्रभामण्डलमध्यवर्ति कान्तं वपुर्व्य्ॐअचरं प्रपेदे॥ ५.५१॥ अथ प्रभावोपनतैः कुमारं कल्पद्रुमोत्थैरवकीर्य पुष्पैः। उवाच वाग्मी दशनप्रभाभिः संवर्धितोरःस्थलतारहारः॥ ५.५२॥ मतङ्गशापादवलेपमूलादवाप्तवानस्मि मतङ्गजत्वं। अवेहि गन्धर्वपतेस्तनूजं प्रियंवदं मां प्रियदर्शनस्य॥ ५.५३॥ स चानुनीतः प्रणतेन पश्चान्मया महर्षिर्मृदुतां अगच्छथ्। उष्णत्वं अग्न्यातपसंप्रयोगाच्छैत्यं हि यत्सा प्रकृतिर्जलस्य॥ ५.५४॥ इक्ष्वाकुवंशप्रभवो यदा ते भेत्स्यत्यजः कुम्भं अय्ॐउखेन। संयोक्ष्यसे स्वेन वपुर्महिम्ना तदेत्यवोचत्स तपोनिधिर्मां॥ ५.५५॥ संमोचितः सत्त्ववता त्वयाहं शापाच्चिरप्रार्थितदर्शनेन। प्रतिप्रियं चेद्भवतो न कुर्यां वृथा हि मे स्यात्स्वपदोपलब्धिः॥ ५.५६॥ संमोहनं नाम सखे ममास्त्रं प्रयोगसंहारविभक्तमन्त्रं। गान्धर्वं आधत्स्व यतः प्रयोक्तुर्न चारिहिंसा विजयश्च हस्ते॥ ५.५७॥ अलं ह्रिया मां प्रति यन्मुहूर्तं दयापरोऽभुः प्रहरन्नपि त्वं। तस्मादुपच्छन्दयति प्रयोजं मयि त्वया न प्रतिशेधरौक्ष्यं॥ ५.५८॥ तथेत्युपस्पृश्य पयः पवित्रं स्ॐओध्बवायाः सरितो नृस्ॐअः। उदङ्मुखः सोऽस्त्रविदस्त्रमन्त्रं जग्राह तस्मान्निगृहीतशापाथ्॥ ५.५९॥ एवं तयोरध्वनि दैवयोगादासेदुषोः सख्यं अचिन्त्यहेतु। एको ययौ चैत्ररथपदेशान्सौराज्यरम्यानपरो विदर्भान्॥ ५.६०॥ तं तस्थिवांसं नगरोपकण्ठे तदागमारूढगुरुप्रहर्षः। प्रत्युज्जगाम क्रथकैशिकेन्द्रश्चन्द्रं प्रवृद्धोर्मिरिवोर्मिमाली॥ ५.६१॥ प्रवेश्य चैनं पुरं अग्रयायी नीचैस्तथोपाचरदर्पितश्रीः। मेने यथा तत्र जनः समेतो वैदर्भं आगन्तुं अजं गृहेशं॥ ५.६२॥ तस्य्ऽ आधिकारपुरुषैः प्रणतैः प्रदिष्टां प्राग्द्वारवेदिविनिवेशितपूर्ण कुम्भां। मेने यथा तत्र जनः समेतो बाल्यात्परां इव दशां मदनोऽध्युवास॥ ५.६३॥ तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयं अजस्य लिप्सोः। भावावबोधकलुषा दयितेव रात्रौ निद्रा चिरेण नयनाभिमुखी बभूव॥ ५.६४॥ तं कर्णभूषणनिपीडितपीवरांसं शय्योत्तरच्छदविमर्दकृशाङ्गरागं। सूतात्मजाः सवयसः प्रथितप्रबोधं) प्राबोधयन्नुषसि वाग्भिरुदारवाचः॥ ५.६५॥ रात्रिर्गता मतिमतां वर मुञ्च शय्यां धात्रा द्विधैव ननु धूर्जगतो विभक्ता। तां एकतस्तव बिभर्ति गुरुर्विनिद्रस्तस्या भवानपरधुर्यपदावलम्बी॥ ५.६६॥ निद्रावशेन भवताप्यनपेक्षमाणा पर्युत्सुकत्वं अबला निशि खण्डितेव। लक्ष्मीर्विनोदयति येन दिगन्तलम्बी सोऽपि त्वदाननरुचिं विजहाति चन्द्रः॥ ५.६७॥ तद्वल्गुना युगपदुन्मिषितेन तावत्सद्यः परपरतुलां अधिरोहतां द्वे। प्रस्पन्दमानपरुषेतरतारं अन्तश्चक्षुस्तव प्रचलितभ्रमरं च पद्मं॥ ५.६८॥ वृन्ताच्छ्लथं हरति पुष्पं अनोकहानां संसृज्यते सरसिजैररुणाम्शुभिन्नैः। स्वाभाविकं परगुणेन विभातवायुः सौरभ्यं ईप्सुरिव ते मुखमारुतस्य॥ ५.६९॥ ताम्रोदरेषु पैतं तरुपल्लवेषु निर्धौत हारगुलिकाविशदं हिमाम्भः। आभाति लब्धपरभागतयाधरोष्ठे लीलास्मितं सदशनार्चिरिव त्वदीयं॥ ५.७०॥ यावत्प्रतापनिधिराक्रमते न भानुरह्नाय तावदरुणेन तमो निरस्तं। आयोधनाग्रसरतां त्वयि वीर याते किं वा रिपूंस्तव गुरुः स्वयं उच्छिनत्ति॥ ५.७१॥ शय्यां जहत्युभयपक्षविनीतनिद्राः स्तम्बेरमा मुखरशृङ्खलकर्षिणस्ते। येषां विभान्ति तरुणारुणरागयोगाद्भिन्नाद्रिगैरिकतटा इव दन्तकोषाः॥ ५.७२॥ दीर्घेष्वमी नियमिताः पटमण्डपेषु निद्रां विहाय वनजाक्ष वनायुदेश्याः। वक्त्रोष्मणा मलिनयन्ति पुरोगतानि लेह्यानि सैन्धवशिलाशकलानि वाहाः॥ ५.७३॥ भवति विरलभक्तिर्म्लानपुष्पोपहारः स्वकिरण्परिवेषोध्बेदशून्याः प्रदीपाः। अयं अपि च गिरं नस्त्वत्प्रबोधप्रयुक्तां अनुवदति शुकस्ते मञ्जुवाक्पञ्जरस्थः॥ ५.७४॥ इति विरचितवाग्भिर्बन्दिपुत्रैः कुमारः सपदि विगतनिद्रस्तल्पं उज्झां चकार। मदपटु निनदद्भिर्बोधितो राजहंसैः सुरगज इव गाङ्गं सैकतं सुप्रतीकः॥ ५.७५॥ अथ विधिं अवसाय्य शास्त्रदृष्टं दिवसमुखोचितं अञ्चिताक्षिपक्ष्मा। कुशलविरचितानुकूलवेषः क्षितिपसमाजं अगात्स्वयंवरस्थम्॥ ५.७६॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजस्क्यंवराभिगमनो नाम पञ्चमः सर्गः॥

    षष्ठः सर्गः

    स तत्र मञ्चेषु मनोज्ञवेषान्सिंहासनस्थानुपचारवस्तु। वैमानिकानां मरुतां अपश्यदाकृष्टलीलान्नरलोकपालान्॥ ६.१॥ रतेर्गृहीतानुनयेन कामं प्रत्यर्पितस्वाङ्गं इवेश्वरेण। काकुत्स्थं आलोकयतां नृपाणां मनो बभूवेन्दुमतीनिराशं॥ ६.२॥ वैदर्भनिर्दिष्टं असौ कुमारः क्ëप्तेन सोपानपथेन मञ्चं। शिलाविभङ्गैर्मृगराजशावस्तुङ्गं नगोत्सङ्गं इवारुरोह॥ ६.३॥ परार्ध्यवर्णास्तरणोपपन्नं आसेदिवान्रत्नवदासनं सः। भूयिष्ठं आसीदुपमेयकान्तिर्मयूरपृष्ठाश्रयिणा गुहेन॥ ६.४॥ तासु श्रिया राजपरंपरासु प्रभाविशेषोदयदुर्निरीक्ष्यः। सहस्रधात्मा व्यरुचद्विभक्तः पय्ॐउचां पङ्क्तिषु विद्युतेव॥ ६.५॥ तेषां महार्हासनसंस्थितानां उदारनेपथ्यभृतां स मध्ये। रराज धाम्ना रघुसूनुरेव कल्पद्रुमाणां इव पारिजातः॥ ६.६॥ नेत्रव्रजाः पौरजनस्य तस्मिन्विहाय सर्वान्नृपतीन्निपेतुः। मदोत्कटे रेचितपुष्पवृक्षा गन्धद्विपे वन्य इव द्विरेफाः॥ ६.७॥ अथ स्तुते बन्दिभिरन्वयज्ञैः स्ॐआर्कवंश्ये नरदेवलोके। संचारिते च्ऽ आगारुसारयोनौ धूपे समुत्सर्पति वैजयन्तीः॥ ६.८॥ पुरोपकण्ठोपवनाश्रयाणां कलापिनां उद्धतनृत्यहेतौ। प्रध्मातशङ्खे परितो दिगन्तांस्तूर्यस्वने मूर्छति मङ्गलार्थे॥ ६.९॥ मनुष्यवाह्यं चतुरश्रयानं अध्यास्य कन्या परिवारशोभि। विवेश मञ्चान्तरराजमार्गं पतिंवरा क्ëप्तविवाहवेषा॥ ६.१०॥ तस्मिन्विधानातिशये विधातुः कन्यामये नेत्रशतैकलक्ष्ये। निपेतुरन्तःकरणैर्नरेन्द्रा देहैः स्थिताः केवलं आसनेषु॥ ६.११॥ तां प्रत्यभिव्यक्तमनोरथानां महीपतीनां प्रणयाग्रदूत्यः। प्रवालोशोभा इव पादपानां शृङ्गारचेष्ट विविधा बभूवुः॥ ६.१२॥ कश्चित्कराभ्यां उपगूढनालं आलोलपत्त्राभिहतद्विरेफं। रजोभिरन्तः परिवेषबन्धि लीलारविन्दं भ्रमयां चकार॥ ६.१३॥ विस्रस्तं अंसादपरो विलासी रत्नानुविद्धाङ्गदकोटिलग्नं। प्रालम्बं उत्कृष्य यथावकशं निनाय साचीकृतचारुवक्त्रः॥ ६.१४॥ आकुञ्चिताग्राङ्गुलिना ततोऽन्यः किंचित्समावर्जितनेत्रशोभः। तिर्यग्विसंसर्पिनखप्रभेण पादेन हैमं विलिलेख पीठं॥ ६.१५॥ निवेश्य वामं भुजं आसनार्धे ततसंनिवेशादधिकोन्नतांसः। कश्चिद्विवृत्तत्रिकभिन्नहारः सुहृत्समाभाषणतत्परोऽभूथ्॥ ६.१६॥ विलासिनीविभ्रमदन्तपत्त्रं आपाण्डु रं केतकबर्हं अन्यः। प्रियाइतम्बोचितसंनिवेशैर्विपाटयां आस युवा नखाग्रैः॥ ६.१७॥ कुशेशयाताम्रतलेन कश्चित्करेण रेखाध्वजलाञ्छनेन। रत्नाङ्गुलीयप्रभयानुविद्धानुदीरयां आस सलीलं अक्षान्॥ ६.१८॥ कश्चिद्यथाभागं अवस्थितेऽपि स्वसंनिवेशाद्व्यतिलङ्घिनीव। वज्रांशुगर्भाङ्गुलिरन्ध्रं एकं व्यापारयां आस करं किरीटे॥ ६.१९॥ ततो नृपाणां श्रुतवृत्तवंशा पुंवत्प्रगल्भा प्रतिहाररक्षी। प्राक्संनिकर्षं मगधेश्वरस्य नीत्वा कुमारीं अवदत्सुनन्दा॥ ६.२०॥ असौ शरण्यः शरणोन्मुखानां अगाधसत्त्वो मगधप्रतिष्ठः। राजा प्रजारञ्जनलब्धवर्णः परंतपो नाम यथार्थनामा॥ ६.२१॥ कामं ण्र्पाः सन्तु सहरशोऽन्ये राजन्वतीं आहुरनेन भूमिं। नक्षत्रताराग्रहसंकुलापि ज्योतिष्मती चन्द्रमसैव रात्रिः॥ ६.२२॥ क्रियाप्रबन्धादयं अध्वराणां अजस्रं आहूतसहस्रनेत्रः। शच्याश्चिरं पाण्दुकपोललम्बान्मन्दारशून्यानलकांश्चकार॥ ६.२३॥ अनेन चेदिच्छसि गृह्यमाणं पाणिं वरेण्येन कुरु प्रवेशे। प्रासादवातायनसंश्रितानां नेत्रोत्सत्वं पुष्पपुराङ्गनानां॥ ६.२४॥ एवं तयोक्ते तं अवेक्ष्य किंचिद्विस्रंसिदूर्वाङ्कमधूकमाला। ऋजुप्रणामक्रिययैव तन्वी प्रत्यादिदेशैनं अभाषमाणा॥ ६.२५॥ तां सैव वेत्रग्रहणे नियुक्ता राजान्तरं राजसुतां निनाय। समीरणोत्थेव तरङ्गलेखा पद्मान्तरं मानसराजहंसीं॥ ६.२६॥ जगाद चैनां अयं अङ्गनाथः सुराङ्गनाप्रार्थितयौवनश्रीः। विनीतनागः किल सूत्रकारैरैन्द्रं पदं भूमिगतोऽपि भुङ्क्ते॥ ६.२७॥ अनेन पर्यासयतास्रबिन्दून्मुक्ताफल्स्थूलतमान्स्तनेषु। प्रत्यर्पिताः शत्रुविलासिनीनां उन्मुच्य सूत्रेण विनैव हाराः॥ ६.२८॥ निसर्गभिन्नास्पदं एकसंस्थं अस्मिन्द्वयं श्रीश्च सरस्वती च। कान्त्या गिरा सूनृतया च योग्या त्वं एव कल्याणि तयोस्तृतीया॥ ६.२९॥ अथाङ्गराजादवतार्य चक्षुर्याह्जन्यां अवदत्कुमारी। नासौ न काम्यो न च वेद सम्यग्द्रष्टुं न सा भिन्नरुचिर्हि लोकः॥ ६.३०॥ ततः परं दुष्प्रसहं द्विषद्भिर्नृपं नियुक्ता प्रतिहारभूमौ। निदर्शयां आस विशेषदृश्यं इन्दुं नवोत्थानं इवेन्दुमत्यै॥ ६.३१॥ अवन्तिनाथोऽयं उदग्रबाहुर्विशालवक्षास्तनुवृत्तमध्यः। आरोप्य चक्रभ्रह्मं उष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति॥ ६.३२॥ अस्य प्रयाणेषु समग्रशक्तेरग्रेसरैर्वाजिभिरुत्थितानि। कुर्वन्ति सामन्तशिखामणीनां प्रभाप्ररोहास्तमयं रजांसि॥ ६.३३॥ असौ महाकालनिकेतनस्य वसन्नदूरे किल चन्द्रमौलेः। तमिस्रपक्षेऽपि सह प्रियाभिर्ज्योत्स्नावतो निर्विशति प्रदोषान्॥ ६.३४॥ अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते। सिप्रातरङ्गानिलकम्पितासु विहर्तुं उद्यानपरंपरासु॥ ६.३५॥ तस्मिन्नभिद्योतितबन्धुपद्मे प्रतापसंशोषितशत्रुपङ्के। बबन्ध सा नोत्तमसौकुमार्या कुमुद्वती भानुमतीव भावं॥ ६.३६॥ तां अग्रतस्तामरसान्तराभां अनूपराजस्य गुणैरनूनां। विधाय सृष्टिं ललितां विधातुर्जगाद भूयः सुदतीं सुनन्दा॥ ६.३७॥ संग्रामनिर्विष्टसहस्रबाहुरष्टदासद्वीपनिखातयूपः। अनन्यसाधारणराजशब्दो बभूव योगी किल कार्तवीर्यः॥ ६.३८॥ अकार्यचिन्तासमकालं एव प्रादुर्भवंश्चापधरः पुरस्ताथ्। अन्तःशरीरेष्वपि यः प्रजानां प्रत्यादिदेशाविनयं विनेता॥ ६.३९॥ ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वसद्वक्त्रपरंपरेण। कारागृहे निर्जितवासवेन लङ्केश्वरेणोषितं आ प्रसादाथ्॥ ६.४०॥ तस्यान्वये भूपतिरेष जातः प्रतीप इत्यागमवृद्धसेवी। येन श्रियः संश्रयदोषरूढं स्वभावलोलेत्ययशः प्रमृश्टं॥ ६.४१॥ आयोधने कृष्णगतिं सहायं अवाप्य यः क्षत्रियकालरात्रिं। धारां शितां रामपरश्वधस्य संभावयत्युत्पलपत्त्रसारां॥ ६.४२॥ अस्याङ्कलक्ष्मीर्भव दीर्घबाहोर्माहिष्मतीवप्रनितम्बकाञ्चीं। प्रासादजालैर्जल्वेणिरम्यां रेवां यदि प्रेक्षितुं अस्ति कामः॥ ६.४३॥ तस्याः प्रकामं प्रियदर्शनोऽपि न स क्षितीशो रुचये बभूव। शरत्प्रमृष्टाम्बुधरोपरोधः शशीव पर्याप्तकलो नलिन्याः॥ ६.४४॥ सा शूरसेन्दाधिपतिं सुषेणं उद्दिश्य लोकान्तरगीतकीर्तिं। आचारशुद्धोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी॥ ६.४५॥ नीपान्वयः पार्थिव एष वज्वा गुणैर्यं आश्रित्य परस्परेण। सिद्धाश्रमं शान्तं इवैत्य सत्त्वैर्नैसर्गिकोऽप्युत्ससृजे विरोधः॥ ६.४६॥ यस्य्ऽ आत्मगेहे नयनाभिरामा कान्तिर्हिमांशोरिव संनिविष्ट। हर्म्याग्रसंरूढतृणाङ्कुरेषु तेजोऽविशह्यं रिपुमन्दिरेषु॥ ६.४७॥ यस्यावरोधस्तनचन्दनानां प्रक्षालनाद्वारिविहारकाले। कलिन्दकन्या मथुरां गताऽपि गङ्गोर्मिसंसक्त जलेव भाति॥ ६.४८॥ त्रस्तेन ताक्र्ष्यात्किल कालियेन मणिं विसृष्टं यमुनौकसा यः। वक्षःस्थलव्यापिरुचं दधानः सकौस्तुभं ह्रेपयतीव कृष्नं॥ ६.४९॥ संभाव्य भर्तारं अमुं युवानं मृदुप्रवालोत्तरपुष्पशय्ये। वृन्दावने चैत्ररथादनूने निर्विश्यतां सुन्दरि युवनश्रीः॥ ६.५०॥ अध्यास्य चाम्भःपृषतोक्षितानि शैलेयगन्धीनि शिलातलानि। कलापिनां प्रावृषि पश्य नृत्यं कान्तासु गोवर्धनकन्दरासु॥ ६.५१॥ नृपं तं आवर्तमनोज्ञनाभिः सा व्यत्यगादन्यवधूर्भवित्री। महीधरं मार्गवशादुपेतं स्रोतोवहा सागरगामिनीव॥ ६.५२॥ अथाङ्गदाश्लिष्टभुजं भुजिष्या हेमाङ्गदं नाम कलिङ्गनाथं। आसेदुषीं सादितशत्रुपक्षं बालां अबालेन्दुमुखीं बभाषे॥ ६.५३॥ असौ महेन्द्राद्रिसमानसारः पतिर्महेन्द्रस्य महोदधेश्च। यस्य क्षरत्सैन्यगजच्छलेन यात्रासु यातीव पुरो महेन्द्रः॥ ६.५४॥ ज्याघातरेखे सुभुजो भुजाभ्यां बिभर्ति यश्चापभृतां पुरोगः। रिपुश्रियां साञ्जनभाष्पसेके बन्दीकृटानां इव पद्धती द्वे॥ ६.५५॥ रणेऽमितत्रीणतया प्रकाशः शरासनज्यानिकषौ भुजाभ्यां। विशिष्टरेखौ रिपुविक्रमाग्नेर्निर्वाणमार्गाविव यो बिभर्ति॥ ६.५५*॥ यं आत्मनः सद्मनि संनिकृष्टो मन्द्रध्वनित्याजितयामतूर्यः। प्रासादवातायनदृष्यवीचिः प्रबोधयत्यर्णव एव सुप्तं॥ ६.५६॥ अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु। द्वीपानतरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः॥ ६.५७॥ प्रलोभिताप्याकृतिलोभनीया पतिं पुरस्योरुगपूर्वनाम्नः। तस्मादपावर्तत दूरकृष्टा नीत्येव लक्ष्मीः प्रतिकूलदैवाथ्॥ ६.५८॥ अथाधिगम्याभुवराजकल्पं पतिं पुरस्योरुगपूर्वनाम्नः। आचारपूतोभयवंशदीपं शुद्धान्तरक्ष्या जगदे कुमारी॥ ६.५८*॥ अथोराख्यस्य पुरस्य नाथं दौवारिकी देवसरूपं। इतश्चकोराक्षि विलोकयेति पूर्वानुशिष्टां निजगाद भोज्यां॥ ६.५९॥ पाण्ड्योऽयं अंसार्पितलम्बहारः क्ëप्ताङ्गरागो हरिचन्दनेन। आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः॥ ६.६०॥ विन्ध्यस्य संस्तम्भयिता महाद्रेर्निःशेषपीतोज्झितसिन्धुराजः। प्रीत्याश्वमेधावभृथार्द्रमूर्तेः सौस्नातिको यस्य भवत्यगस्त्यः॥ ६.६१॥ अस्त्रं हरादाप्तवता दुरापं येनेन्द्रलोकाव जयाय दृप्तः। पुरा जनस्थानविमर्दशङ्की संधाय लःकाधिपतिः प्रतस्थे॥ ६.६२॥ अनेन पाणौ विधिवद्गृहीते महाकुलीनेन महीव गुर्वी। रत्नानुविद्धार्णवमेखलाया दिशः सपत्नी भव दक्षिणस्याः॥ ६.६३॥ ताम्बूलवल्लीपरिणद्धपूगास्वेलालतालिङ्गितचन्दनासु। तमालपत्त्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु॥ ६.६४॥ इन्दीवरश्यामतनौर्नृपोऽसौ त्वं रोचनागौरशरीरयष्टिः। अन्योन्यशोभापरिवृद्धये वां योगस्तडित्तोयदयोरिवास्तु॥ ६.६५॥ स्वसुर्विदर्भाधिपतेस्तदीयो लेभेऽन्तरं चेतसि नोपदेशः। दिवाकरादर्शनबद्धकोशे नक्शत्रनाथांशुरिवारविन्दे॥ ६.६६॥ संचारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा। नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः॥ ६.६७॥ तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूथ्। वामेतरः संशयं अस्य बाहुः केयूरबन्धोच्छवसितैर्नुनोद॥ ६.६८॥ तं प्राप्य सर्वावयवानवद्यं व्यावर्ततान्योपगमात्कुमारी। न हि प्रफुल्लं सहकारं एत्य वृक्सान्तरं काङ्क्षति षट्पदाली॥ ६.६९॥ तस्मिन्समावेशितचित्तवृत्तिं इन्दुप्रभां इन्दुमतीं अवेक्ष्य। प्रचक्रमे वक्तुं अनुक्रमज्ञा सविस्तरं वाक्यं इदं सुनन्दा॥ ६.७०॥ इक्ष्वाकुवंश्यः ककुदं नृपाणां ककुत्स्थ इत्याहितलक्षणोऽभूथ्। काकुत्स्थशब्दं यत उन्नतेच्छाः श्लाघ्यं दधत्युत्तरकोसलेन्द्राः॥ ६.७१॥ महेन्द्रं आस्थाय महोक्षरूपं यः संयति प्राप्तपिनाकि लीलः। चकार बाणैरसुराङ्गनानां गण्डस्थलीः प्रोषितपत्त्रलेखाः॥ ६.७२॥ ऐरावतास्फालनविश्लथं यः संघट्टयन्नङ्गदं अङ्गदेन। उपेयुशः स्वां अपि मूर्तिं अग्र्यां अर्धासनं गोत्रभिदोऽधितष्ठौ॥ ६.७३॥ जातः कुले तस्य किलोरुकीर्तिः कुलप्रदीपो नृपतिर्दिलीपः। अतिष्ठदेकोनशतक्रतुत्वे शक्राभ्यसूयाविनिवृत्तये यः॥ ६.७४॥ यस्मिन्महीं शासति वाणिनीनां निद्रां विहारार्धपथे गतानां। वातोऽपि नासरंसयदंशुकानि को लम्बयेदाहरणाय हस्तं॥ ६.७५॥ पुत्रो रघुस्तस्य पदं प्रशास्ति महाक्रतोर्विश्वजितः प्रयोक्ता। चतुर्दिगावर्जितसंभृतां यो मृत्पात्रशेषां अकरोद्विभूतिं॥ ६.७६॥ आरूढं अद्रीनुदधीन्वितीर्णं भुजंगमानां वसतिं प्रविष्टं। ऊर्ध्वं गतं यस्य न चानुबन्धि यशः परिच्छेत्तुं इयत्तयालं॥ ६.७७॥ असौ कुमारस्तं अजोऽनुजातस्त्रिविष्टपस्येव पतिं जयन्तः। गुर्वीं धुरं यो भुवनस्य पित्रा धुर्येण दम्यः सदृशं बिभर्ति॥ ६.७८॥ कुलेन कान्त्या वयसा नवेन गुणैश्च तैस्तैर्विनयप्रधानैः। त्वं आत्मनस्तुल्यं अमुं वृणीष्व रत्नं समागच्छतु काञ्चनेन॥ ६.७९॥ ततः सुनन्दावचनावसाने लज्जां तनू कृत्य नरेन्द्रकन्या। दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत्संवरणस्रजेव॥ ६.८०॥ सा यूनि तस्मिन्नभिलाषबन्धं शशाक शालीनतया न वक्तुं। र्ॐआञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रामदरालकेश्याः॥ ६.८१॥ तथागतायां परिहासपूर्वं सख्यां सखी वेत्रधरा बभाषे। आर्ये व्रजामोऽन्यत इत्यथैनां वधूरसूयाकुटिलं ददर्श॥ ६.८२॥ सा चूर्णगौरं रघुनन्दनस्य धात्रीकराभ्यां करभोपमोरूः। आसञ्जयां आस यथाप्रदेशं कण्ठे गुणं मूर्तं इवानुरागं॥ ६.८३॥ तया स्रजा मङ्गलपुष्पमय्या विशालवक्षःस्थललम्बया सः। अमंस्त कण्ठार्पितबाहुपाशां विदर्भराजावरजां वरेण्यः॥ ६.८४ शशिनं उपगतेयं कौमुदी मेघमुक्तं जलनिधिं अनुरूपं। इति समगुणयोगप्रीतयस्तत्र पौराः श्रवणकटु नृपाणां एकवाक्यं विवव्रुः॥ ६.८५ प्रमुदितवरपक्षं एकतस्तत्क्षितिपतिमण्डलं अन्यतो वितानं। उषसि सर इव प्रफुल्लपद्मं कुमुदवनप्रतिपन्ननिद्रं आसीथ्॥ ६.८६॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये इन्दुमती-स्वयंवरो नाम षष्ठः सर्गः॥

    सप्तमः सर्गः

    अथोपयन्त्र सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम्। स्वसारमादाय विदर्भनाथः पुरप्रवेशाभिमुखो बभूव ॥१॥ सेनानिवेशान पृथिवीक्षितोऽपि जग्मुर्विभातग्रहमन्दभासः। भोज्यां प्रति व्यर्थमनोरथत्वाद् रूपेषु वेषेषु च साभ्यसूयाः॥२॥ सांनिध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोभकृतामभावः। काकुत्स्थमुद्दिश्य समत्सरोऽपि शशाम तेन क्षितिपाललोकः॥३॥ तावत् प्रकीर्णाभिनवोपचारमिन्द्रायुधद्योतिततोरणाङ्कम्। वरः स वध्वा सह राजमार्ग प्राप ध्वजच्छायनिवारितोष्णम्॥४॥ ततस्तदालोकनतत्पराणां सोधेषु चामीकरजालवत्सु। बभूवुरित्थं पुरसुन्दरीणां त्यक्तान्यकार्याणि विचेष्टितानि॥५॥ आलोकमार्ग महसा व्रजन्त्या कयाचिदुद्वेष्टन- १धान्तमाल्यः। बन्धुं न संभावित एव तावत् करेण रुद्धोऽपि न केशपाशः॥६॥ प्रसाधिकालम्वितमग्रपादमाक्षिप्य काचिद् द्रवरागमेव। उत्सृष्टलोलागतिरागवाक्षादालक्तकाङ्क पदवीं ततान॥७॥ विलोचनं दक्षिणमञ्जनेन संभाव्य तदवञ्चितवामनेत्रा। तथैव वातायनसंनिकर्षं ययौ शलाकामपरा वहन्तो॥८॥ जालान्तरप्रेषितदृष्टिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम्। नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः॥९॥ अर्धाचिता२ सत्वरमुत्थितायाः पदे पदे दुनिमिते गलन्ती। कस्याश्चिदासोद् रसना तदानीमङ्गुष्ठमूलापतसूत्रशेषा॥१०॥ (१. च म.
    २. ञ्चिता म.) तासां मुखैरासवगन्धगर्भेव्यप्तान्तराः सान्द्रकुतूहलानाम्। विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन्॥११॥ ता राघवं दृष्टिभिरापिबन्त्यो नार्यो न जग्मुविषयान्तराणि। तथाहि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा।१२॥ स्थाने वृता भूपतिभिः परोक्षैः स्वयंवरं साधुममंस्त भोज्यो। पद्मेव नारायणमन्यथासौ लभेत कान्तं कथमात्मतुल्यम्॥१३॥ परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत्। अस्मिन् द्वये रूपविधानयत्नः पत्युः प्रजानां वितथोऽभविष्यत्॥१४॥ रतिस्मरौ नूनमिमावभूतां राज्ञां सहस्रेषु तथाहि बाला। गतेयमात्मप्रतिरूपमेव मनो हि जन्मान्तरसङ्गतिज्ञम् ॥१५॥ इत्युद्गताः पौरवधूमुखेभ्यः शृण्वन् कथाः श्रोत्रसुखाः कुमारः। उद्भासितं मङ्गलसंविधाभिः संबन्धिनः सद्म समाससाद ॥१६॥ ततोऽवतीर्याशु करेणुकायाः स कामरूपेश्वरदत्तहस्तः। वैदर्भनिदिष्टमथो विवेश नारीमनांसीव चतुष्कमन्तः ॥१७॥ महार्हसिंहासनसंस्थितोऽसौ सरत्नमर्यं मधुपर्कमिश्नम्। भोजोपनीतं च दुकूलयुग्मं जग्राह साधं वनिताकटाक्षः॥१८॥ दुकलवासाः स वधूसमीपं विन्ये विनीतैरवरोधदक्षः। वेलासकाशं स्फुटफेनराजिर्नवैरुदन्वानिव. चन्द्रपादेः ॥१९॥ तत्राचतो भोजपतेः पुरोधा हुत्वाग्निमाज्यादिभिरग्निकल्पः। तमेव चाधाय विवाहसाक्ष्ये बधूवौ संगमयांचकार॥२०॥ हस्तेन हस्तं परिगृह्य बध्वाः स राजसूनुः सुतरां चकासे। अनन्तराशोकलताप्रवालं प्राप्येव चूतः प्रतिपल्लवेन ॥२१॥ आसीद् वरः कण्ट कितप्रकोष्ठः स्विन्नाङ्गुलिः संववृते कुमारी। तस्मिन् द्वये तत्क्षणमात्मवृत्तिः समं विभक्तेव मनोभवेन ॥२२॥ तयोरपाङ्गप्रतिसारितानि क्रियासमापत्तिषु१ कातराणि। ह्रीयन्त्रणामानशिरे मनोज्ञामन्यन्य लोलानि विलोचनानि॥२३॥ प्रदक्षिणप्रक्रमणात् कृशानोरुदचषस्तन्मिथुनं चकासे। मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥२४॥ नितम्बगुर्वी गुरुणा प्रयुक्ता वधूवधातृप्रतिमेन तेन। चकार सा मत्तचकोरनेत्रा लज्जावती लाजविसर्गमग्नौ॥२५॥ हविःशमीपल्लवलाजगन्धी पुण्यः कृशानोरुदियाय धूमः। कपोलसंसपशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे॥२६॥ तदजनक्लेदसमाकुलाचं प्रम्लानबीज।कुरकर्णपूरम्। वधूमुखे पाटलगण्डलेखमाचारधूमग्रहणाद् बभूव ॥२७॥ तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रभिश्च क्रमशः प्रयुक्तम्। कन्याकुमारी कनकासनस्थावाद्रक्षतारोपणमन्वभूताम्॥२८॥ इति स्वसुजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा। महोपतीनां पृथगणार्थं समादिदेशाधिकृतानधिश्रीः ॥२९॥ लिङ्गमुदः संवतविक्रियास्ते दाः प्रसन्ना इव गूढनक्राः। वैदर्भमामन्त्र्य ययुस्तदोयां प्रत्ययं पूजामुपदाच्छलेन॥३०॥ १. वर्तनिर्वासितानि म.) स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ १समरोपलभ्यम्। आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥३१॥ भत्तपि तावत् ऋथकेशिकानामनुष्ठितानन्तरजाविवाहः। सत्त्वानुरूपाहरणी२ कृतश्रीः प्रास्थापयद् राघवमन्वगाच्च॥३२॥ तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा। तस्मादपावतंत कुण्डिनेशः पर्वात्यये सोम इवोष्णरेश्मेः॥३३॥ प्रमन्यवः प्रागपि कोसलेन्द्र प्रत्येकमात्तस्वतया बभूवुः। अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य॥३४॥ तमुद्द्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दप्तः। बलिप्रदिष्टां श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः॥३५॥ तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः। प्रत्यग्रहीत् पार्थिववाहिनीं तां ३ज्योतीरथां शोण इवोत्तरङ्गः॥३६॥ पत्तिः पदाति रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्। यन्ता गजस्याभ्यपतद् गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम्॥३७॥ नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्। बाणाक्षरैरेव परस्परस्य नामोजितं चापभृतः शशंसुः॥३८॥ उत्थापितः संयति रेणु रश्वैः सान्द्रीकृतः स्यन्दनवंश चक्रः। विस्तारितः कुञ्जरकर्णतालै४ रनुक्रमेणोपरुरोध सूर्यम्॥३६॥ मत्स्यध्वजा वायुवशाद् विदीर्णैर्मुखेः प्रवृद्धध्वजिनीरजांसि। बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥४०॥ (१. समरो म. २. आहरणं यौतुकम्, लोके 'दहेज' इति। १. ज्योतिरा-नदी मध्यप्रदेशस्य रीवाक्षेत्रे शोणगामिनी सरित्। भागीरथीमिति तु मल्लिनाथ-हेमाद्रिभट्टी। प्राचीनटीकाकृत्सु पाण्डुग्रन्थेषु पुनर्योतीरथेत्येव पाठः। एष एव चोचितः, शोजस्याजस्थानीयत्वात् सरित्कर्तृकेऽभियोगे कर्मत्वेनान्वयस्यान्यथाऽसिद्धेः। भागीरथीपाठे पुनरभियोगे शोणकर्तृकत्वमेव प्रसिद्ध्येत्, शोणस्यैव भागीरथीगामित्वस्य दृश्यमानत्वात्। 2. नेत्रक्रमेण म०, नेत्रं क्षौमं वास इति तत्समर्थकाः। अनुक्रमस्तु श्लोकार्थ एवोपनिद्धः।) रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वृणितेन नागः। स्वभर्तृ नामग्रहणाद् बभूव सान्द्रे रजस्यात्मपरावबोधः॥४१॥ आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजम्भितस्य। शस्त्रक्षताश्वद्विपवीर जन्मा बालारुणोऽभूद् रुधिरप्रवाहः॥४२॥ स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात् पवनावधूतः। अङ्गारशेषस्य हुताशेनस्य पूर्वोत्थितो धूम इवावभासे॥४३॥ प्रहारमूच्र्छापगमे रथस्था यन्तृनुपालभ्य निवतिताश्वान्। यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः॥४४॥ अप्यर्धमार्गे परवाणलूना धनुर्भतां हस्तवतां पृषत्काः। संप्रापुरेवात्म-जवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम्॥४५॥ आधोरणानां गजसंनिपाते शिरांसि चक्रनिशितैः क्षुराग्नः। हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः॥४६॥ पूर्व प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी। तुरङ्गमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकाङ्क्ष॥४७॥ तनुत्यज वर्मभृतां विकोशैबृहत्सु दन्तेष्वसिभिः पतभिः। उद्यन्तमग्नि शमयांवभूवुर्गजा विविग्नाः करसीकरेण ॥४८॥ शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव। रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः॥४९॥ उपान्तयनिष्कुषितं विहङ्गैक्षिप्य तेभ्यः पिशितप्रियापि। केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदमपाचकार॥५०॥ कश्चिद् द्विषत्खङ्गहृतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य। वामाङ्गसंसक्तसुराङ्गनः स्वं नृत्यत्कवन्धं समरे ददर्श॥५१॥ अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित्। व्यश्व गदाव्यायतसंप्रहारो भग्नायुधौ बाहुविमर्दनिष्ठौ॥५२॥ परस्परेण क्षतयोः प्रहरुत्क्रान्तवाय्वोः समकालमेव। अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरःप्राथितयोविवादः॥५३॥ व्यूहावुभौ तावितरेतरस्माद् भङ्गं जयं चापतुरव्यवस्थम्। पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्येव महार्णवोर्मी॥५४॥ परेण भग्नेऽपि बले महौजा 'ययावजः प्रत्यरिसैन्यमेव। धुमो निवत्र्येत समीरणेन यतस्तु कक्षस्तत इव वह्निः ॥५५॥ रथी निषङ्गी कवची धनुष्मान् दृप्तः स राजन्यकमेकवीरः। निवारयामास महावराहः कल्पक्षयोवृत्तमिवार्णवाम्भः॥५६॥ स दक्षिणं तृणमुखे च१ वामं व्यापारयन् हस्तमलक्ष्यताजौ। आकर्णकृष्टा सकृदस्य योद्धुमौर्वांव बाणान् सुषुवे रिपुघ्नान् ॥५७॥ स रोषदष्टाधिकलोहितौष्ठव्यक्तोर्ध्वरेखा भुकुटीर्वहभिः। तस्तार गां भल्लनिकृत्तकण्ठेहुंकारगर्भेद्विषतां शिरोभिः ॥५८॥ सर्वैर्बलाङ्गद्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च। सर्वप्रयत्नेन च भूमिपालास्तस्मिन् प्रजह युधि सर्व एव॥५९॥ सोऽस्त्रव्रजेश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः। नीहारमग्नो' दिनपूर्वभागः किचित्प्रकाशेन विवस्वतेव॥६०॥ (१. मुखेन म.) प्रियम्वदात् प्राप्तमसौ कुमारः प्रायुक्त राजस्वधिराज सुनुः। गान्धर्व मस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलौल्यः ॥६१॥ ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम्। तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम्॥६२॥ ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलज कुमारः। तेन स्वहस्ताजितमेकवीरः पिबन् यशो मूर्तमिवाबभासे ॥६३॥ शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रु ददृशुः स्वयोधाः। निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम्॥६४॥ सशोणितस्तेन शिलीमुखाग्र र्निक्षेपिताः केतुषु पार्थिवानाम्। यशो हृतं संप्रति राघवेणे न जीवितं वः कृपयेति वर्णाः॥६५॥ स चापकोटीनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः। ललाटबद्धश्रमवारिविन्दुर्भीतां प्रियामेत्य वचो बभाषे ॥६६॥ इतः परानर्भकहार्य शस्त्रान् वैदर्भि पश्यानुमता मयासि। एवंविधेनाहवचेष्टितेन त्वं प्राय॑से हस्तगता ममभिः॥६७॥ तस्याः प्रतिद्वन्द्वि भवाद् विषादात् सद्यो विमुक्तं मुखमावभासे। नि:श्वासवाष्पापगमात् प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः॥६८॥ हृष्टापि सा ह्रीविजिता न साक्षाद् वाग्भिः सखीनां प्रियमभ्यनन्दत्। स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम्१॥६९॥ इति शिरसि स वामं पादमाधाय राज्ञा- मुदवदनवद्यां तामवद्यादपेतः। रथतुरगरजोभिस्तस्य रूक्षालकाग्रा। समरविजयलक्ष्मीः सैव मूर्त्ता बभूव॥७०॥ प्रथमपरिगतार्थस्तं रघुः संनिवृत्तं विजयिनमभिनन्द्य श्लाघ्यजायासमेतम्। तदुपहितकुटुम्वः शान्तिमार्गोत्सुकोऽभू न्न हि सति कुलधुर्ये सूर्यवंश्या गृहाय॥७१॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजविवाहो नाम सप्तमः सर्गः॥

    अष्टमः सर्गः

    अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः। वसुधां अपि हस्तगामिनीं अकरोदिन्दुमतीं इवापरां॥ ८.१॥ दुरितैरपि कर्तुं आत्मसात्प्रयतन्ते नृपसूनवो हि यथ्। तदुपस्थितं अग्रहीदजः पितुराज्ञेति न भोगतृष्णया॥ ८.२॥ अनुभूय वसिष्ठसंभृतैः सलिलैस्तेन सहाभिषेचनं। विशदोच्छवसितेन मेदिनी कथयां आस कृतार्थतां इव॥ ८.३॥ स बभूव दुरासदः परैर्गुरुणाथर्वविदा कृतक्रियः। पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा॥ ८.४॥ रघुं एव निवृत्तयौवनं तं अमन्यन्त नवेश्वरं प्रजाः। स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान्गुणानपि॥ ८.५॥ अधिकं शुशुभे शुभंयुना द्वितयेन द्वयं एव संगतं। पदं ऋद्धं अजेन पैतृकं विनयेनास्य नवं च यौवनं॥ ८.६॥ सदयं बुभुजे महाभुजः सहसोद्वेगं इयं व्रजेदिति। अचिरोपनतां स मेदिनीं नवपाणिग्रहणां वधूं इव॥ ८.७॥ अहं एव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयथ्। उदधेरिव निमगाशतेष्वभवन्नास्य विमानना क्वचिथ्॥ ८.८॥ न खरो न च भूयसा मृदुः पवमानः पृथिवीरुहानिव। स पुरस्कृतमध्यमक्रमो नमयां आस नृपाननुद्धरन्॥ ८.९॥ अथ वीक्स्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजं आत्मवत्तया। विषयेषु विनाशधर्मसु त्रिदिवस्तेष्वपि निःस्पृहोऽभवथ्॥ ८.१०॥ गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः। पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे॥ ८.११॥ तं अरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः। पितरं प्रणिपत्य पादयोरपरित्यागं अयाचतात्मनः॥ ८.१२॥ रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितं आत्मजप्रियः। न तु सर्प इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियं॥ ८.१३॥ स कीलश्रमं अन्त्यं आश्रितो निवसन्नावसथे पुराद्बहिः। समुपास्यत पुत्रभोग्यया स्नूषयेवाविकृतेन्द्रियः श्रिया॥ ८.१४॥ प्रशमस्थितपूर्वपार्थिवं कुलं अभ्युद्यत नूतनेश्वरं। नभसा निभृतेन्दुना तुलां उदितार्केण समारुरोह तथ्॥ ८.१५॥ यतिपार्थिवलिङ्गधारिणौ ददृशते रघुराघवौ जनैः। अपवर्गमहोदयार्थयोर्भुवं अंशाविव धर्मयोर्गतौ॥ ८.१६॥ अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशरदैरजः। अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः॥ ८.१७॥ समयुजय्त भूपतिर्युवा सचिवैः प्रत्यहं अर्थसिद्धये। अपुनर्जननोपत्तये प्रययाः संयमिभिर्मनीषिभिः॥ ८.१७*॥ नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनं आददे युवा। परिचेतुं उपांशु धारणां कुशपूतं प्रवयास्तु विष्टरं॥ ८.१८॥ अनुरण्जयितुं प्रजाः प्रभुर्व्यहारासनं आददे नवः। अपरः शुचिविष्टरस्थितः परिचेतुं यतते स्म धारणाः॥ ८.१८*॥ अनयत्प्रभुशक्तिसंपदा वशं एको नृपतीननन्तरान्। अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान्॥ ८.१९॥ नयचक्षुरजो दिदृक्षया पररन्ध्रस्य ततान मण्डले। हृदये समरोपयन्मनः परमं ज्योतिरवेक्षितुं रघुः॥ ८.१९*॥ अकरोदचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसाथ्। अपरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना॥ ८.२०॥ पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलं। रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्टकाञ्चनः॥ ८.२१॥ न नवः प्रभुरा फलोदयात्स्थिरकर्मा विरराम कर्मणः। न च योगविधेर्नवेतरः स्थिरधीरा परमात्मदर्शनाथ्॥ ८.२२॥ इति शत्रुषु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ। प्रसितावुदयापवर्गयोरुभयीं सिद्धिं उभाववापतुः॥ ८.२३॥ अथ काश्चिदजव्यपेक्षया गमयित्वा सम्दर्शनः समाः। तमसः परं आपदव्ययं पुरुषं योगसमाधिना रघुः॥ ८.२४॥ शुतदेहविसर्जनः पितुश्चिरं अश्रूणि विमुच्य राघवः। विदधे विधिं अस्य नैष्ठिकं यतिभिः सार्धं अनग्निं अग्निचिथ्॥ ८.२५॥ अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पविथ्। न हि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः॥ ८.२६॥ स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः। शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगथ्॥ ८.२७॥ क्षितिरिन्दुमती च भामिनी पतिं आसाद्य तं अग्र्यपौरुषं। प्रथमा बहुरत्नसूरभूदपरा वीरं अजीजनत्सुतं॥ ८.२८॥ दशरास्मिशतोपमद्युतिं यशसा दिक्षु दशवपि श्रुतं। दशपूर्वरथं यं आख्यया दशकण्ठारिगुरुं विदुर्बुधाः॥ ८.२९॥ ऋषिदेवगणस्वधाभुजां श्रुतयागप्रस्वैः स पार्थिवः। अनृणत्वं उपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः॥ ८.३०॥ बलं आर्तभयोपशान्तये विदुषां संनतये बहु श्रुतं। वसु तस्य न केवलं गुणवत्तापि परप्रयोजना॥ ८.३१॥ स कदाचिदवेषितप्रजः सह देव्या विजहार सुप्रजाः। नगरोपवने शचीसखो मरुतां पालयितेव नन्दने॥ ८.३२॥ अथ रोधसि दक्षिणोदधेः श्रित गोकर्णनिकेतं ईश्वरं। उपवीणयितुं ययौ रवेरुदगावृत्तिपथेन नारदः॥ ८.३३॥ कुसुमैर्ग्रथितां अपार्थिवैः स्रजं आतोद्यशिरोनिवेशितां। अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः॥ ८.३४॥ भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः। ददृशे पवनावलेपजं सृजती बाष्पं इवाञ्जनाविलं॥ ८.३५॥ अभिभूय विभूतिं आर्तवीं मधुगन्धातिशयेन वीरुधां। नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिं॥ ८.३६॥ क्षणमात्रसखीं सुजातयोः स्तनयोस्तां अवलोक्य विहला। निमिमील नरोत्तमप्रिया हृतचन्द्रा तमसेव क्ॐउदी॥ ८.३७॥ वपुषा करणोज्झितेन सा निपतन्ती पतिं अप्यपातयथ्। ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीं॥ ८.३८॥ समं एव नराधिपेन सा गुरुसंमोहविलुप्तचेतना। गुरुसंमोहविलुप्तचेतना नवदीपार्चिरिव क्षितेस्तलं॥ ८.३८*॥ उभयोरपि पार्श्ववर्तिनां तुमु लेनार्तरवेण वेजिताः। विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः॥ ८.३९॥ नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता। प्रतिकारविधानं आयुषः सति शेषे हि फलाय कल्पते॥ ८.४०॥ प्रतियोजयितव्यवल्लकीसमवस्थां अथ सत्त्वविप्लवाथ्। स निनाय नितान्तवत्सलः परिगृह्योचितं अङ्कं अङ्गनां॥ ८.४१॥ स निनाय नितान्तवत्सलः परिवृत्तप्रथमच्छविं क्षणाथ्। सलिलोद्धृतपद्मिनीनिभां दयितां अङ्कं उदशुलोचनः॥ ८.४१*॥ स निनाय नितान्तवत्सलः करणापायविभिन्नवर्णया। समलक्ष्यत बिभ्रदाविलां मृगलेखां उषसीव चन्द्रमाः॥ ८.४२॥ विललाप स बाष्पगद्गदं सहजां अप्यपहाय धीरतां। अभितप्तं अयोऽपि मार्दवं भजते कैव कथा शरीरिषु॥ ८.४३॥ कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितुं यदि। न भविष्यति हन्त साधनं किं इवानयत्प्रहरिष्यतो विधेः॥ ८.४४॥ अथ वा मृदु वस्तु हिंसितुं मृदुनैवारभते प्रजान्तकः। हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता॥ ८.४५॥ स्रगियं यदि जीवितापहा हृदये किं निहिता न हन्ति मां। विषं अप्यमृतं क्वचिद्भवेदमृतं वा विषं ईश्वरेच्छया॥ ८.४६॥ अथ वा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा। यदनेन तरुर्न पातितस्क्षपिता तद्विटपाश्रितलता॥ ८.४७॥ कृतवत्यसि नावधीरणां अपराध्हेऽपि यदा चिरं मयि। कथं एकपदे निरागसं जनं आभाष्यं इमं न मन्यसे॥ ८.४८॥ ध्रुवं अस्मि शठः शुचिस्मिते विधितः कैतववत्सलस्तव। परलोकं असंनिवृत्तये यदनापृच्छ्य गतासि मां इतः॥ ८.४९॥ दयितां यदि तावदन्वगाद्विनिवृत्तं किं इदं तया विना। सहतां हतजीवितं मम प्रबलां आत्मकृतेन वेदनां॥ ८.५०॥ सुरतश्रमसंभृतो मुखे ध्रियते स्वेदलवोद्गमोऽपि ते। अथ चास्तमिताऽस्यहो बत धिगिमां देहभृतां असारतां॥ ८.५१॥ सुरतश्रमवारिबिन्दवो न हि तावद्विरमन्ति ते मुखे। कथं अस्तमिताऽस्यहो बत धिगिमां देहवतां असारतां॥ ८.५१*॥ मनसापि न विप्रियं मया कृतपूर्वं तव किं जहासि मां। ननु शब्दपतिः क्षितेरहं त्वयि मे भावनिबन्धना रतिः॥ ८.५२॥ कुसुमोत्कचितान्वलीमतश्चलयन्भृङ्गरुचस्तवालकान्। करभोरु करोति मारुतस्त्वदुपावर्तन्शङ्कि मे मनः॥ ८.५३॥ तदपोहितुं अर्हसि प्रिये प्रतिबोधेन विषादं आषु मे। ज्वलितेन गुहागतं तमस्तुहिनाद्रेरिव नतं ओषधिः॥ ८.५४॥ इदं उच्छ्वसितालकं मुखं विश्रान्तकथं दुनोति मां। निशि सुप्तं इवैकपङ्कजं विरताभ्यन्तरषट्पदस्वनं॥ ८.५५॥ शशिनं पुनरेति शार्वरी दयिता द्वन्द्वचरं पतत्रिणं। इति तौ विर्हान्तरक्षमौ कथं अत्यन्तगता न मां दहेः॥ ८.५६॥ नवपल्लवसंस्तरेऽपि ते मृदु दूयेत यदङ्गं अर्पितं। तदिदं विषहिष्यते कथं वद वामोरु चिताधिरोहणं॥ ८.५७॥ इयं अप्रतिबोधशायिनीं रशना त्वां प्रथमा रहःसखी। गतिविभ्रमसाद नीरवा न शुचा नानुमृतेव लक्ष्य्ते॥ ८.५८॥ कलं अन्यभृतासु भाषितं कलहंसीषु गतं मदालसं। पृटतीषु विलोलं ईक्षितं पवनाधूतलतासु विभ्रमः॥ ८.५९॥ त्रिदिवोत्सुकयाप्यवेक्ष्य मां निहिताः सत्यं अमी गुणास्त्वया। विरहे तव मे गुरुव्यथं हृदयं न त्ववलम्बितुं क्षमाः॥ ८.६०॥ मिथुनं परिकल्पितं त्वया सहकारः फलिनी च नन्विमौ। अविधाय विवाहसत्क्रियां अनयोर्गम्यत इव्यसांप्रतं॥ ८.६१॥ कुसुमं कृतदोहदस्त्वया यदशोकोऽयं उदीरयिष्यति। अलकाभरणं कथं नु तत्तव नेष्यामि निवापलाल्यतां॥ ८.६२॥ स्मरतेव सशब्दनूपुरं चरणानुग्रहं अन्यदुर्लभं। अमुना कुसुमाश्रुवर्षिणा त्वं अशोकेन सुगात्रि शोच्यसे॥ ८.६३॥ तव निःश्वसितानुकारिभिर्बकुलैरर्धचितां समं मया। असमाप्य विलासमेखलां किं इदं किंनरकण्ठि सुप्यते॥ ८.६४॥ समदुःखसुखः सखीजनः प्रतिपच्चन्द्रनिभोऽयं आत्मजः। अहं एकरसस्तथापि ते व्यवसायः प्रतिपत्तिनिष्ठुरः॥ ८.६५॥ धृतिरस्तमिता रतिश्च्युता विरतं गेयं ऋतुर्निरुत्सवः। गतं आभरणप्रयोजनं परिशून्यं शयनीयं अद्य मे॥ ८.६६॥ गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किं न मे हृतं॥ ८.६७॥ मदिराक्षि मदाननार्पितं मधु पीत्वा रसवत्कथं नु मे। अनुपास्यसि बाष्पदूषितं परलोकोपनतं जलाञ्जलिं॥ ८.६८॥ विभवेऽपि सति त्वया विना सुखं एतावदजस्य गण्यतां। अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्तदाश्रयाः॥ ८.६९॥ विलपन्निति कोसलाधिपः करुणार्थग्रथितं प्रियां प्रति। अकरोत्पृथिवीरुहानपि स्रुतशाखारसभाष्पदुर्दिनान्॥ ८.७०॥ अथ तस्य कथंचिदङ्कतः स्वजनस्तां अपनीय सुन्दरीं। विससर्ज कृतान्त्यमण्डनां अनलाय्ऽ आगुरुचन्दनदिहसे॥ ८.७१॥ प्रमदां अनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनाथ्। न चकार शरीरं अग्निसात्सह देव्या न तु जीविताशया॥ ८.७२॥ अथ तेन दशाहतः परे गुणशेषां उपदिष्य गेहिनीं। विदुषा विधयो महर्द्धयः पुर एवोपवने समापिताः॥ ८.७३॥ स विवेश पुरीं तया विना क्षणदापायशशाङ्कदर्शनः। परिवाहं इवावलोकयन्स्वशुचः पौरवधूमुखाश्रुषु॥ ८.७४॥ अथ तं सवनाय दिषितः प्रणिधानाद्गुरुराश्रमस्थितः। अभिषङ्गजडं विजज्ञिवानिति शिष्येण किलान्वबोधयथ्॥ ८.७५॥ असमाप्तविधिर्यतो मुनिस्तव विद्वानपि तापकारणं। न भवन्तं उपस्थितः स्वयं प्रकृतौ स्थापयितुं कृतस्थितिः॥ ८.७६॥ मयि तस्य सुवृत्त वर्तते लघुसंदेशपदा सरस्वती। शृणु विश्रुतसत्त्वसार तां हृदि चैनां उपधातुं अर्हसि॥ ८.७७॥ पुरुषस्य पदेष्वजन्मनः समतीतं च भवच्च भावि च। स हि निष्प्रतिघेन चक्षुषा त्रितयं ज्ञानमयेन पश्यति॥ ८.७८॥ चरतः किल दुश्चरं तपस्तृणबिन्दोः परिशङ्कितः पुरा। प्रजिघाय समाधिबेदिनीं हरिरस्मै हरिणीं सुराङ्गनां॥ ८.७९॥ स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमां। अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा मुनिः॥ ८.८०॥ भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे। इति चोपनतां क्षितिपृशं विवशा शापनिवृत्तिकारणं॥ ८.८१॥ क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा। उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणं॥ ८.८२॥ तदलं तदपायचिन्तया विपदुत्पत्तिमतां उपस्थिता। वसुधेयं अवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः॥ ८.८३॥ उदये मदवाच्यं उज्झता श्रुतं आविष्कृतं आत्मवत्तया। मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यतां॥ ८.८४॥ रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते। परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनां॥ ८.८५॥ रुदितेन न सा निवर्तते नृप तत्तावदन्र्थकं तव। न भवाननुसंस्थितोऽपि तां लभते कर्मवशा हि देहिनः॥ ८.८५*॥ अपशोकमनाः कुटुम्बिनीं अनुगृह्णीष्व निवापदत्तिभिः। स्वजनाश्रु किलात्रिसंततं दहति प्रेतं इति प्रचक्षते॥ ८.८६॥ मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितं उच्यते बुधैः। क्षणं अप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ॥ ८.८७॥ अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यं अर्पितं। स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतं॥ ८.८८॥ स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा। विरहः किं इवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम्॥ ८.८९॥ न पृथग्जनवच्छुचो वशं वशिनां उत्तम गन्तुं अर्हसि। द्रुमसानुमतां किं अन्तरं यदि वायौ द्वितयेऽपि ते चलाः॥ ८.९०॥ स तथेति विनेतुरुदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम्। तदलब्धपदं हृदि शोकघने प्रतियातं इवान्तिकं अस्य गुरोः॥ ८.९१॥ तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः। सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागम्तोसवैश्च॥ ८.९२॥ तस्य प्रसह्य हृदयं किल शोकशङ्कुः प्लक्षप्ररोह इव सौधतलं बिभेद। प्राणान्तहेतुं अपि तं भिषजां असाध्यं लाभं प्रियानुगमने त्वरया स मेने॥ ८.९३॥ सम्यग्विनीतं अथ वर्महरं कुमारं आदिश्य रक्षणविधौ विधिवत्प्रजानां। रोगोपसृष्टतनुदुर्वसतिं मुमुक्षुः प्रायोपवेशनमतिर्नृपतिर्बभूव॥ ८.९४॥ तीर्थे तोयव्यतिकरभवे जह्नुकन्यासर्य्वोर्देहत्यागादमरगणनालेख्यं आसाद्य सद्यः। पूर्वाकाराधिकतररुचा संगतः कान्तयासौ लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु॥ ८.९५॥

    नवमः सर्गः

    पितुरनन्तरं उत्तर्कोसलान्समधिगम्य समाधिजितेन्द्रियः। दशरथः प्रशशास महारथो यमवतां अवतां च धुरि स्थितः॥ ९.१॥ अधिगतं विधिवद्यदपालयत्प्रकृतिमण्डलं आत्मकुलोचितं। अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः॥ ९.२॥ उभयं एव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणां। वलनिषूदनं अर्थ्पतिं च तं श्रमनुदं मनुदण्डहरान्वयं॥ ९.३॥ जनपदे न गदः पदं आदधावभिभवः कुत एव सपत्नजः। क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे॥ ९.४॥ दशदिगन्तजिता रघुणा यथा श्रियं अपुष्यदजेन ततः परं। तं अधिगम्य तथैव पुनर्बभौ न न महीऽनं अहीनपराक्रमं॥ ९.५॥ समतया वसुवृटिविसर्जनैर्नियमनादसतां च नराधिपः। अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा॥ ९.६॥ न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु। तं उदयाय न वा नवयौवना प्रियतमा यतमानं अपाहरा॥ ९.७॥ न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि। न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरं ईरिता॥ ९.८॥ उदयं अस्तमयं च रघूद्वहादुभयं आनशिरे वसुधाधिपाः। स हि निदेशं अलङ्घयतां अभूत्सुहृदयोहृदयः प्रतिगर्जतां॥ ९.९॥ अजयदेकरथेन स मेदिनीं उदधिनेमिं अधिज्यशरासनः। जयं अघोषयदस्य तु केवलं गजवती जवतीरहया चमूः॥ ९.१०॥ जघननिर्विषयीकृतमेखलाननुचिताश्रुविलुप्तविशेषकान्। स रिपुदारगणानकरोद्बलादनलकानलकाधिपविक्रमः॥ ९.१०*॥ अवनिं एकरथेन वरूथिना जितवतः किल तस्य धनुर्भृतः। विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसंपदः॥ ९.११॥ शमितपक्षबलः शितकोटिना शिखरिणां कुलिशेन पुरंदरः। स सारवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः॥ ९.१२॥ स्फुरितकोटिसहस्रमरीचिना समचिनोत्कुलिशेन हरिर्यशः। स धनुषा युधि सायकवर्षिणा स्वनवता नवतामरसाननः॥ ९.१२*॥ चरणयोर्नखरागसमृद्धिभिर्मुकुटरत्नमरीचिभिरस्पृशन्। स धनुषा युधि सायकवर्षिणा शतमखं तं अखण्डितपौरुषं॥ ९.१३॥ निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन्। समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीं॥ ९.१४॥ उपगतोऽपि च मण्डलनाभितां अनुदितान्यसितातपवारणः। अजितं अस्ति नृपास्पदं इत्यभूदनलसोऽनलस्ॐअसमद्युतिः॥ ९.१५॥ क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः। कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसारस्यूतटाः॥ ९.१६॥ अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहां। अधिवसंस्तनुं अध्वरदीक्षितां असम्भासं अभासयदीश्वरः॥ ९.१७॥ अवभृतप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः। नमयति स्म स केवलं उन्नतं वनमुचे नमुचेररये शिरः॥ ९.१८॥ तं अपहाय ककुत्स्थकुलोद्भवं पुरुषं आत्मभुवं च पतिव्रता। नृपतिं अन्यं असेवत देवता सकमला कं अलाघवं अर्थिषु॥ ९.१९॥ स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः। स्वभुजवीर्यं अगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः॥ ९.२०॥ असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता। दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषां॥ ९.२१॥ तं अलभन्त पतिं पतिदेवताः शिखरिणां इव सागरं आपगाः। मगधकोसलकेकयशसिनां दुहितरोऽहितरोपितमार्गणं॥ ९.२२॥ प्रियतमाभिरसौ तिऋभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः। उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः॥ ९.२३॥ अथ समाववृते कुसुमैर्नवैस्तं इव सेवितुं एकनराधिपं। यमकुबेर्जलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमं॥ ९.२४॥ जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः। दिनमुखानि रविर्हिमनिर्ग्रहैर्विमलयन्मलयं नगं अत्यजथ्॥ ९.२५॥ हिमविवर्णितचन्दनपल्लवं विरहयन्मलयाद्रिं उदङ्मुखः। विहगयोः कृपयेव शनैर्ययौ रविरहर्विरहध्रुवभेदयोः॥ ९.२५*॥ कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितं। इति यथाक्रमं आविरभून्मधुर्द्रुमवतीं अवतीर्य वनस्थलीं॥ ९.२६॥ सुरभिसंगमजं वनमालया नवपलाशं अधार्यत भङ्गुरं। रमणदत्तं इवार्द्रनखक्षतं प्रमदया मदयापितलज्जया॥ ९.२६*॥ उपहितं शिशिरापगमश्रिया मुकुलजालं अशोभत किंशुके। प्रणयिनीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया॥ ९.२७॥ परभृता मदनक्षतचेतसां प्रियसखी लघुवागिव योषितां। प्रियतमानकरोत्कलहान्तरे मृदुरवा दुरवापसमागमान्॥ ९.२७*॥ व्रणगुरुप्रमदाधरदुःसहं जघननिर्विषयीकृतमेखलं। न खलु तावदशेषं अपोहितुं रविरलं विरलं कृतवान्हिमं॥ ९.२८॥ विशदचन्द्रकरं सुखमारुतं कुसुमितद्रुमं उन्मदकोकिलं। तदुपभोगरसं हिमवर्षिणः परं ऋतोर्विरलं कृतवान्हिमं॥ ९.२८*॥ अभिनयान्परिचेतुं इवोद्यता मलयमारुतकम्पितपल्लवा। अमदयत्सहकारलता मनः सकलिका कलिकामजितां अपि॥ ९.२९॥ नयगुणोपचितां इव भूपतेः सदुपकारफलां श्रियं अर्थिनः। अभिययुः सरसो मधुसंभृतां कमलिनीं अलिनीरपत्रिणः॥ ९.३०॥ दशनचन्द्रिकया व्यभासितं हसितं आसवगन्धि मधोरिव। बकुलपुष्पं असेव्यत षट्पदैः शुचिरसं चिरसंचितं ईप्सुभिः॥ ९.३०*॥ कुसुमं एव न केवलं आर्तवं नवं अशोकतरोः स्मरदीपनं। किसलयप्रसवोऽपि विलासिनां मदयिता दयिताश्रवणार्पितः॥ ९.३१॥ विरचिता मधुनोपवन्श्रियां अभिनवा इव पत्त्रविशेषकाः। मधुलिहां मधुदानविशारदाः कुरबका रवकारणतां ययुः॥ ९.३२॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। मधुकरैरकरोन्मधुलोलुपैर्बकुलं आकुलं आयतपङ्क्तिभिः॥ ९.३३॥ सुवदनावदनासवसंभृतस्तदनुवादिगुणः कुसुमोद्गमः। इति दयात इवाभवदायता न रजनी रजनीशवती मधौ॥ ९.३३*॥ प्रथमं अन्यभृताभिरुदीरिताः प्रविरला इव मुग्धवधूकथाः। सुरभिगन्धिषु शुश्रुविरे गिरः कुसुमितासु मिता वनराजिषु॥ ९.३४॥ श्रुतिसुखभ्रमरस्वनगीतयः कुसुमक्ॐअलदन्तरुचो बभुः। उपवनान्तलताः पवनाहतैः किसलयैः सलयैरिव पाणिभिः॥ ९.३५॥ ललितविभ्रमबन्धविचक्षणं सुरभिगन्धपराजितकेसरं। पतिषु निर्विविशुर्मधुं अङ्गनाः स्मरसखं रसखण्डनवर्जितं॥ ९.३६॥ तिलकमस्तकहर्म्यकृतास्पदैः कुसुममध्वनुषङ्गसुगन्धिभिः। कलं अगीयत भृङ्गविलासिनां स्मरयुतैरयुतैरबलासखैः॥ ९.३६*॥ शुशुभिरे स्मितचारुतराननाः स्त्रिय इव श्लथशिञ्जितमेखलाः। विकचतामरसा गृहदीर्घिका मदकलोदकलोलविहंगमाः॥ ९.३७॥ लघयति स्म न पत्यपराधजं न सहकारतरुस्तरुणीधृतं। कुसुमितो नमितोऽलिभिरुन्मदैः स्मरसमाधिसमाधिकरोषितं॥ ९.३७*॥ उपययौ तनुतां मधुखण्डिता हिमकरोदयपाण्डुमुखच्छविः। सदृशं इष्टसमागमनिर्वृतिं वनितयाऽनितया रजनीवधूः॥ ९.३८॥ अपतुषारतया विशदप्रभैः सुरतराग परिश्रमनोदिभिः। कुसुमचापं अतेजयदंशुभिर्हिमकरो मकरोजितकेतनं॥ ९.३९॥ हुतहुताशनदीप्ति वन्श्रियः प्रतिनिधिः कनकाभरणस्य यथ्। युवतयः कुसुमं दधुराहितं तद्(?) अलके दलकेसरपेशलं॥ ९.४०॥ अलिभिरञ्जनबिन्दुमओहरैः कुसुमपङ्क्तिनिपातिभिरङ्कितः। न खलु शोबहयित्स्म वनस्थलीं न तिलकस्तिलकः प्रमदां इव॥ ९.४१॥ अमदयन्मद्घुगन्धसनाथया किसलयाधरसंगतया मनः। कुसुमसंभ्ट्तया नवमल्लिका स्मितरुचा तरुचारुविलासिनी॥ ९.४२॥ अनलसान्यभृताऽनलसान्मनः कमलधूलिभृता मरुतेरिता। कुसुमभारनताध्वगयोषितां असमशोकं अशोकलताऽकरोथ्॥ ९.४२*॥ अरुणरागनिषेधिभिरंशुकैः श्रवणलब्धपदैश्च यवाङ्कुरैः। परभृताविरुतैश्च विलासिनः स्मरबलैरबलैकरसाः कृताः॥ ९.४३॥ उपचितावयवा शुचिभिः कणैरलिकदम्बकयोगं उपेयुषी। सदृशकान्तिरलक्ष्यत मञ्जरी तिलकजाऽलकजालकमौक्तिकैः॥ ९.४४॥ ध्वजपटं मदनस्य धनुर्भृतश्छविकरं मुखचूर्णं ऋतुश्रियः। कुसुमकेसररेणुं अलिव्रजाः सपवनोपवनोत्थितं अन्वयुः॥ ९.४५॥ अनुभवन्नवदोलं ऋतूत्सवं पटुर्पै प्रियकण्ठजिगृक्षया। अनयदासनरज्जुपरिग्रहे भुजलतां जडतां अबलाजनः॥ ९.४६॥ त्यजत मानं अलं बत बिग्रहैर्न पुनरेति गतं चतुरं वयः। परभृताभिरितीव निवेदिते स्मरमते रमते स्म वधूजनः॥ ९.४७॥ अथ यथासुखं आर्तवं उत्सवं समनुभूय विलासवतीसखः। नरपतिश्चकमे मृगयारतिं स मधुमन्मधुमन्मथसंनिभः॥ ९.४८॥ परिचयं चलक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनं। श्रमजयात्प्रगुणां च करोत्यसौ तनुं अतोऽनुमतः सचिवैर्ययौ॥ ९.४९॥ मृगवनोपगमक्षमवेषभृद्विपुलकण्ठनिषक्तशरासनः। गगनं अश्वखुरोद्धुत रेणुभिर्नृसविता सवितानं इवाकरोथ्॥ ९.५०॥ ग्रथितमौलिरसौ वनमालया तरु पलाशसवर्णतनुच्छदः। तुरगवल्गनचण्चलकुण्डलो विरुरुचे रुरुचेष्टितभूमिषु॥ ९.५१॥ तनुलताविनिवेशितविग्रहा भ्रमरसंक्रमितेक्षणवृत्तयः। ददृषुरध्वनि तं वनदेवताः सुनयनं नयनन्दितकोसलं॥ ९.५२॥ श्वगण्वागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः। स्थिरतुरंगमभूमि निपानवन्मृगवयोगवयोपचितं वनं॥ ९.५३॥ अथ नभस्य इव त्रिदशायुधं कनकपिङ्गतडिद्गुणसंयुतं। धनुर्रधिज्यं अनाधिरुपाददे नरवरो रवरोषितकेसरी॥ ९.५४॥ तस्य स्तनप्रणयिभिर्मुहुरेणशावैर्व्याहन्यमानहरिणीगमनं पुरस्ताथ्। आविर्बभूव कुशगर्भमुखं मृगाणां यूथं तदग्रसरगर्वितकृष्नसारं॥ ९.५५॥ तत्प्रार्थितं जवन्वाजिगतेन राज्ञा तूणीमुखोद्धृतशरेण विशीर्णपङ्क्ति। श्यामीचकार वनं आकुलदृश्टिपातैर्वतेरितोत्पलदलप्रकरैरिवाम्भः॥ ९.५६॥ लक्ष्यीकृतस्य हरिणस्य हरिप्रभावः प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहं। आकर्णकृष्टं अपि कामितया स धन्वी बाणं कृपामृधुमनाः प्रतिसंजहार॥ ९.५७॥ तस्यापरेष्वपि मृगेषु शरान्मुमुक्षोः कर्णान्तं एत्य बिभिदे निबिडोऽपि मुष्टिः। त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः प्रौढप्रियानयनविभ्रमचेष्टितानि॥ ९.५८॥ उत्तस्थुषः शिशिरपल्वलपङ्कमध्यान्मुस्ताप्ररोहकवलावयवानुकीर्णं। जग्राह स द्रुतवराहकुलस्य मार्गं सुव्यक्तं आर्द्रपदपङ्क्तिभिरायताभिः॥ ९.५९॥ तं वाहनादवनतोत्तरकायं ईषद्विध्यन्तं उद्धतसटाः प्रतिहन्तुं ईषुः। नात्मानं अस्य विविदुः सहसा वराहा वृकेषु विद्धं इषुभिर्जघनाश्रयेषु॥ ९.६०॥ तेनाभिघातरभसस्य विकृष्य पत्त्री वन्यस्य नेत्रविवरे महिषस्य मुक्तः। निर्भिद्य विग्रहं अशोणितलिप्तपुङ्खस्तं पातयां प्रथमं आस पपात पश्चाथ्॥ ९.६१॥ प्रायो विषाणपरिमोषलघूत्तमाङ्गान्खड्गांश्चकार नृपतिर्निशितैः क्षुरप्रैः। शृण्गं स दृप्तविनयाधिकृतः परेषां अभ्युच्छ्रितं न ममृषे न तु दीर्घं आयुः॥ ९.६२॥ व्याघ्रानभीरभिमुखोपतितान्गुहाभ्यः फुल्लासनाग्रविटपानिव वायुरुग्णान्। शिक्षाविशेषलघुहस्ततया निमेषात्तूणीचकार शरपूरितवक्त्ररन्ध्रान्॥ ९.६३॥ निर्घातोग्रैः कुञ्जलीनाञ्जिघांसुर्ज्यानिर्घोषैः क्षोभयां आस सिंहान्। नूनं तेषां अभ्यसूयापरोऽभूद्वीर्योदग्रे राजशब्दे मृगेषु॥ ९.६४॥ तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्। आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त॥ ९.६५॥ तान्हत्वा गजकुलबद्धतीव्रवैरान्काकुत्स्थः कुटिलनखाग्रलग्नमुक्तान्। आत्मानं रणकृतकर्मणां गजानां आनृण्यं गतं इव मार्गणैरमंस्त॥ ९.६५॥ चमरान्परितः प्रवर्तिताश्वः क्वचिदाकर्णविकृष्टभल्लवर्षी। नृपतीनिव तान्वियोज्य सद्यः सितवालव्यजनैर्जगाम शान्तिं॥ ९.६६॥ अपि तुरगसमीपादुत्पतन्तं मयूरं न स रुचिरकलापं बाणलक्ष्यी चकार। सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे रतिविगलितबन्धे केशपाशे प्रियायाः॥ ९.६७॥ तस्य कर्कशविहार्संभवं स्वेदं आननविलग्नजालकं। आचचाम सतुषारशीकरो भिन्नपल्लवपुटो वनानिलः॥ ९.६८॥ इति विस्मृतान्यकरणीयं आत्मनः सचिवावलम्बितधुरं नराधिपं। परिवृद्धरागं अनुभन्धसेवया मृगया जहार चतुरेव कामिनी॥ ९.६९॥ स ललितकुसुमप्रवालशय्यां ज्वलितमहौषधिदीपिकासनाथां। नरपतिरतिवाहयां बभूव क्वचिदसमेतपरिच्छदस्त्रियामां॥ ९.७०॥ उषसि स गजयूथकर्णतालैः पटुपटधवनिभिर्विनीतनिद्रः। अरमत मधुराणि तत्र शृण्वन्विहगविकूजितबन्दिमङ्गलानि॥ ९.७१॥ अथ जातु रुरोर्गृहीतवर्त्मा विपिने पार्श्वचरैरलक्ष्यमाणः। श्रमफेनमुचा तपस्विगाढां तमसां प्राप नदीं तुरंगमेण॥ ९.७२॥ कुम्भपूरणभवः पटुरुच्चैरुच्चचार नन्दोऽम्भसि तस्याः। तत्र स द्विरदबृंहितशङ्की शब्दपातिनं इषुं विससर्ज॥ ९.७३॥ नृपतेः प्रतिषिद्धं एव तत्कृतवान्पङ्क्तिरथो विलङ्घ्य यथ्। अपथे पदं अर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः॥ ९.७४॥ हा तातेति क्रन्दितं आकर्ण्य विषण्णस्तस्यान्विष्यन्वेतसगूढं प्रभवं सः। शल्यप्रोतं प्रेक्ष्य सकुम्भं मुनिपुत्रं तापादन्तःशल्य इवासीत्क्शितिपोऽपि॥ ९.७५॥ तेनावतीर्य तुरगात्प्रथितान्ग्वयेन पृष्टान्वयः स जलकुम्भनिषण्णदेहः। तस्मै द्विजेतरतपस्विसुतं स्खलद्भिरात्मानं अक्षरपदैः कथयां बभूव॥ ९.७६॥ तच्चोदितः च तं अनुद्ध्रृतशल्यं एव पित्रोः सकाशं अवसन्नदृशोर्निनाय। ताभ्यां तथागतं उपेत्य तं एकपुत्रं अज्ञानतः स्वचरितं नृपतिः शशंस॥ ९.७७॥ तौ दंपती बहु विलप्य शिशोः प्रहर्त्रा शल्यं निखातं उदहारयतां उरस्तः। सोऽभूत्परासुरथ भूमिपतिं शशाप हस्तार्पितैर्नयन्वारिभिरेव वृद्धः॥ ९.७८॥ दिष्टान्तं आप्स्यति भवानपि पुत्रशोकादन्ते वयस्यहं इवेति तं उक्तवन्तं। आक्रान्तपूर्वं इव मुक्तविषं भुजंगं प्रोवाच कोसलपतिः प्रथमापराद्धः॥ ९.७९॥ शापोऽप्यदृष्टतनयाननपद्मशोभे सानुग्रहो भगवता मयि पातितोऽयं। कृष्यां दहन्नपि खलु क्षितिं इन्धनेद्धो बीजप्ररोहजननीं ज्वलनः करोति॥ ९.८०॥ इत्थं गते गतघृणः किं अयं विधत्तां वध्यस्तवेत्यभितिते वसुधाधिपेन। एधान्हुताशनवतः स मुनिर्ययाचे पुत्रं परासुं अनुगन्तुमनाः सदारः॥ ९.८१॥ प्रातानुगः सपदि शासनं अस्य राजा संपाद्य पातकविलुप्तधृतिर्निवृत्तः। अन्तर्निविष्टपदं आत्मविनाशहेतुं शापं दधज्ज्वलनं और्वं इवाम्बुराशिः॥ ९.८२॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अजविलापो नामाष्टमः सर्गः॥

    दशमः सर्गः

    पृथिवीं शासतस्तस्य पाकशासनतेजसः। किंचिदूनं अनूनर्द्धेः शरदां अयुतं ययौ॥ १०.१॥ न चोपलेभे पूर्वेषां ऋणनिर्मोक्षसाधनं। सुताभिधानं स ज्योतिः सद्यः शोकतमोपहम्॥ १०.२॥ अतिष्ठत्प्रत्ययापेक्षसंततिः स चिरं नृपः। प्राङ्मन्थादनभिव्यक्तरत्नोत्पत्तिरिवार्णवः॥ १०.३॥ ऋष्यशृङ्गादयस्तस्य सन्तः संतानकाङ्क्षिणः। आरेभिरे जितात्मानः पुत्रीयां इष्टिं ऋत्विजः॥ १०.४॥ तस्मिन्नवसरे देवाः पौलस्त्योपप्लुता हरिं। अभिजग्मुर्निदाघार्ताश्छायावृक्षं इवाध्वगाः॥ १०.५॥ ते च प्रापुरुदन्वतं बुबुधे चादिपूरुषः। अव्याक्षेपो भविष्यन्त्याः कार्यसिद्धेर्हि लक्षणं॥ १०.६॥ भोगिभोगादनासीनं ददृशुस्तं दिवौकसः। तत्फणामण्डलोदर्चिर्मणिद्योतितविग्रहम्॥ १०.७॥ श्रियः पद्मनिषण्णायाः क्ष्ॐआन्तरितमेखले। अङ्के निक्षिप्तचरणं आस्तीर्णकरपल्लवे॥ १०.८॥ प्रबुद्धपुण्डरीकाक्षं बालातपनिभांशुकं। दिवसं शारदं इव प्रारम्भसुखदर्शनं॥ १०.९॥ प्रभानुलिप्तश्रीवत्सं लक्ष्मीविभ्रमदर्पणं। कौत्सुभाख्यं अपां सारं बिभ्राणं बृहतोरसा॥ १०.१०॥ बाहुभिर्विटपाकारैर्दिव्याभरणभूषितैः। आविर्भूतं अपां मध्ये पारिजातं इवापरम्॥ १०.११॥ दैत्यस्त्रीगण्डलेखानां मदरागविलोपिभिः। हेतिभिश्चेतनावद्भिरुदीरितजयस्वनं॥ १०.१२॥ मुक्तशेषविरोधेन कुलिशव्रणलक्ष्मणा। उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता॥ १०.१३॥ योगनिद्रान्तविशदैः पावनैरवलोकनैः। भृग्वादीननुगृह्णन्तं सौख शायनिकानृषीन्॥ १०.१४॥ प्रणिपत्य सुरास्तस्मै शमयित्रे सुरद्विषां। अथैनं तुष्टुवुः स्तुत्यं अवाङ्मनसगोचरं॥ १०.१५॥ नमो विश्वसृजे पूर्वं विश्वं तदनु बिभ्रते। अथ विश्वस्य संहर्त्रे तुभ्यं त्रेधास्थितात्मने॥ १०.१६॥ रसान्तराण्येकरसं यथा दिव्यं पयोऽश्नुते। देशे देशे गुणेष्वेवं अवस्थास्त्वं अविक्रियः॥ १०.१७॥ अमेयो मितलोकस्त्वं अनर्थी प्रार्थनावहः। अजितो जिष्णुरत्यन्तं अव्यक्तो व्यक्तकारणम्॥ १०.१८॥ एकः कारणतस्तां तां अवस्थां प्रतिपद्यसे। नानात्वं रागसंयोगात्स्फटिकस्य्ऽएव ते स्मृतम्॥ १०.१९॥ हृदयस्थं अनासन्नं अकामं त्वां तपस्विनं। दयालुं अनघस्पृष्टं पुराणं अजरं विदुः॥ १०.२०॥ सर्वज्ञस्त्वं अविज्ञातः सर्वयोनिस्त्वं आत्मभूः। सर्वप्रभुरनीशस्त्वं एकस्त्वं सर्वरूपभाक्॥ १०.२१॥ सप्तसामोपगीतं त्वां सप्तार्णवजलेशयं। सप्तार्चिर्मुखं आचख्युः सप्तलोकैकसंश्रयम्॥ १०.२२॥ चतुर्वर्गफलं ज्ञानं कालावस्था चतुर्युगा। चतुर्वर्णमयो लोकस्त्वत्तः सर्वं चतुर्मुखाथ्॥ १०.२३॥ अभ्यासनिगृहीतेन मनसा हृदयाश्रयं। ज्योतिर्मयं विचिन्वन्ति योगिनस्त्वां विमुक्तये॥ १०.२४॥ अजस्य गृह्णतो जन्म निरीहस्य हतद्विषः। स्वपतो जागरूकस्य याथात्म्यं वेद कस्तव॥ १०.२५॥ शब्दादीन्विषयान्भोक्तुं चरितुं दुश्चरं तपः। पर्याप्तोऽसि प्रजाः पातुं औदासीन्येन वर्तितुं॥ १०.२६॥ बहुधाप्यागमैर्भिन्नाः पन्थानः सिद्धिहेतवः। त्वय्येव निपतन्त्योघा जाह्नवीया इवार्णवे॥ १०.२७॥ त्वय्यावेशितचित्तानां त्वत्समर्पितकर्मणां। गतिस्त्वं वीतरागाणां अभूयःसंनिवृत्तये॥ १०.२८॥ प्रत्यक्षोऽप्यपरिच्छेद्यो मह्यादिर्महिमा तव। आप्तवागनुमानाभ्यां साध्यं त्वां प्रति का कथा॥ १०.२९॥ केवलं स्मरणेनैव पुनासि पुरुषं यतः। अनेन वृत्तयः शेषा निवेदितफलास्त्वयि॥ १०.३०॥ उदधेरिव रत्नानि तेजांसीव विवस्वतः। स्तुतिभ्यो व्यतिरिच्यन्ते दूरेण चरितानि ते॥ १०.३१॥ अनवाप्तं अवाप्तव्यं न ते किंचन विद्यते। लोकानुग्रह एवैको हेतुस्ते जन्मकरमणोः॥ १०.३२॥ महिमानं यदुत्कीर्त्य तव संह्रियते वचः। श्रमेण तदशक्त्या वा न गुणानां इयत्तया॥ १०.३३॥ इति प्रसादयां आसुस्तव संह्रियते वचः। भूतार्थव्याहृतिः सा हि न स्तुतिः परमेष्ठिनः॥ १०.३४॥ तस्मै कुशलसंप्रश्नव्यञ्जितप्रीतये सुराः। भयं अप्रलयोद्वेलादाचख्युर्नैरृतोदधेः॥ १०.३५॥ अथ वेलासमासन्नशैलरन्ध्रानुनादिना। स्वरेणोवाच भगवान्परिभूतार्णवध्वनिः॥ १०.३६॥ पुराणस्य कवेस्तस्य वर्णस्थानसमीरिता। बभूव कृतसंस्कारा चरितार्थैव भारती॥ १०.३७॥ बभौ स दशनज्योत्स्ना सा विभोर्वदनोद्गता। निर्यातशेषा चरणाद्गङ्गेवोर्ध्वप्रवर्तिनी॥ १०.३८॥ जाने वो रक्षसाक्रान्तावनुभावपराक्रमौ। अङ्गिनां तमसेवोभौ गुणौ प्रथ्ममध्यमौ॥ १०.३९॥ विदितं तप्यमानं च तेन मे भुवन्त्रयं। अकामोपनतेनेव साधोर्हृदयं एनसा॥ १०.४०॥ कार्येषु चैककार्यत्वादभ्यर्थ्योऽस्मि न वज्रिणा। स्वयं एव हि वातोऽग्नेः सारथ्यं प्रतिपद्यते॥ १०.४१॥ स्वासिधारापरिहृतः कामं चक्रस्य तेन मे। स्थापितो दशमो मूर्धा लव्यांश इव रक्षसा॥ १०.४२॥ स्रष्टुर्वरातिसर्गात्तु मया तस्य दुरात्मनः। अत्यारूढं रिपोः सोढं चन्दनेव भोगिनः॥ १०.४३॥ धातारं तपसा प्रीतं ययाचे स हि राक्षसः। दैवात्सर्गादवध्यत्वं मर्त्येष्वास्थापराङ्मुखः॥ १०.४४॥ सोऽहं दाशरथिर्भूत्वा रणभूमेर्बलिक्षमं। करिष्यामि शरैस्तीक्ष्णैस्तच्छिरःकमलोच्चयं॥ १०.४५॥ अचिराद्वज्वभिर्भागं कल्पितं विधिवत्पुनः। मायाविभिरनालीढं आदास्यध्वे मिशाचरैः॥ १०.४६॥ वैमानिकाः पुण्यकृतस्त्यजन्तु मरुतां पथि। पुष्पकालोकसंक्षोभं मेघावरणतत्पराः॥ १०.४७॥ मोष्यध्वे स्वर्गबन्दीनां वेणीबन्धानदूषितान्। शापयन्त्रितपौलस्त्यबलात्कारकचग्रहैः॥ १०.४८॥ रावणावग्रहक्लान्तं इति वागमृतेन सः। अभिवृष्य मरुत्सस्यं कृष्णमेघस्तिरोदधे॥ १०.४९॥ पुरुहूतप्रभृतयः सुरकार्योद्यतं सुराः। अंशैरनुययुर्विष्णुं पुष्पैर्वायुं इव द्रुमाः॥ १०.५०॥ अथ तस्य विशांपत्युरन्ते काम्यस्य कर्मणः। पुरुषः प्रबभूवाग्नेर्विस्मयेन सहर्त्विजां॥ १०.५१॥ हेमपात्रगतं दोर्भ्यां आदधानः पयश्चरुं। अनुप्रवेशादाद्यस्य पुंसस्तेनापि दुर्वहं॥ १०.५२॥ प्राजापत्योपनीतं तद्(?) अन्नं प्रत्यग्रहीन्नृपः। वृषेव पयसां सारं आविष्कृतं उदन्वता॥ १०.५३॥ अनेन कथिता राज्ञो गुणास्तस्यान्यदुर्लभाः। प्रसूतिं चकमे तस्मिंस्त्रैलोक्यप्रभवोऽपि यथ्॥ १०.५४॥ स तेजो वैश्नवं पत्न्योर्विभेजे चरुसंज्ञितं। द्यावापृथिव्योः प्रत्यग्रं अहर्पतिरिवातपं॥ १०.५५॥ अर्चिता तस्य कौसल्या प्रिया केकयवंशजा। अतः संभावितां ताभ्यां सुमित्रां ऐच्छदीश्वरः॥ १०.५६॥ ते बहुज्ञस्य चित्तज्ञे पत्न्यौ पत्युर्महीषितः। चरोरर्धार्धभागाभ्यां तां अयोजयतां उभे॥ १०.५७॥ सापि प्रणयवत्यासीत्सपत्न्योरुभयोरपि। भ्रमरी वारणस्येव मदनिस्यन्दलेखयोः॥ १०.५८॥ ताभिर्गर्भः प्रजाभूत्यै दध्रे देवांशसम्भवः। सौरीभिरिव नाडीभिरमृताख्याभिरम्मयः॥ १०.५९॥ समं आपन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः। अन्तर्गतफलारम्भाः सस्यानां इव संपदः॥ १०.६०॥ गुप्तं ददृशुरात्मानं सर्वाः स्वप्नेषु वामनैः। जलजासिगदाशार्ङ्गचक्रलाञ्छितमूर्तिभिः॥ १०.६१॥ हेमपक्षप्रभाजालं गगने च वितन्वता। उह्यन्ते स्म सुपर्णेन वेगाकृष्टपय्ॐउचा॥ १०.६२॥ बिभ्रत्या कौस्तुभं न्यासं स्तनान्तरविलम्बिनं। पर्युपास्यन्त लक्ष्म्या च पद्मव्यजनहस्तया॥ १०.६३॥ कृताभिषेकैर्दिव्यायां त्रिस्रोतसि च सप्तभिः। ब्रह्म र्षिभिः परं ब्रह्म गृणध्बिरुपतस्थिरे॥ १०.६४॥ ताभ्यस्तथाविधान्स्वप्नाञ्छ्रुत्वा प्रीतो हि पार्थिवः। मेने परार्ध्यं आत्मानं गुरुत्वेन जग्द्गुरोः॥ १०.६५॥ विभक्तात्मा विभुस्तासां एकः कुषिष्वनेकधा। उवास प्रतिमाचन्द्रः प्रसन्नानां अपां इव॥ १०.६६॥ अथाग्रमहिषी राज्ञः प्रसूतिसमये सती। पुत्रं तमोऽपहं लेभे नक्तं ज्योतिरिवौषधिः॥ १०.६७॥ राम इत्यभिरामेण तेनाप्रतिम तेजसा। नामधेयं गुरुश्चक्रे जगत्प्रथममङ्गलं॥ १०.६८॥ रघुवंशप्रदीपेन तेनाप्रतिम तेजसा। रक्षागृहगता दीपाः प्रत्यादिष्ट इवाभवन्॥ १०.६९॥ शय्यागतेन रामेण माता शातोदरी बभौ। सैकताम्भोजबलिना जाह्नवीव शरत्कृशा॥ १०.७०॥ कैकेय्यास्तनयो जज्ञे भरतो नाम शीलवान्। जनयित्रीं अलंचक्रे यः प्रश्रय इव श्रियं॥ १०.७१॥ सुतौ लक्ष्मणशत्रुघ्नौ सुमित्रा सुषुवे यमौ। सम्यगागमिता विद्या प्रबोधविनयाविव॥ १०.७२॥ निर्दोषं अभवत्सर्वं आविष्कृतगुणं जगथ्। अन्वगादिव हि स्वर्गो गां गतं पुरुषोत्तमं॥ १०.७३॥ तस्योदये चतुर्मूर्तेः पौलस्त्यचकितेश्वराः। विरजस्कैर्नभस्वद्भिर्दिश उच्छ्वसिता इव॥ १०.७४॥ कृशानुरपधूमत्वात्प्रसन्नत्वात्प्रभाकरः। रक्षिविप्रकृतावास्तां अपविद्धशुचाविव॥ १०.७५॥ दशाननकिरीटेभ्यस्तत्क्षणं राक्षसश्रियः। मणिव्याजेन पर्यस्ताः पृथिव्यां अश्रुबिन्दवः॥ १०.७६॥ पुत्रजन्मप्रवेश्यानां तूर्याणां तस्य पुत्रिणः। आरम्भं प्रथमं चक्रुर्देवधुन्दुभयो दिवि॥ १०.७७॥ संतानकमयी वृष्टिर्भवने चास्य पेतुषी। समङ्गलोपचाराणां सैवादिरचनाभवथ्॥ १०.७८॥ कुमाराः कृतसंस्कारास्ते धात्रिस्तन्य पायिनः। आनन्देनाग्रजेनेव समं ववृधिरे पितुः॥ १०.७९॥ स्वाभाविकं विनीतत्वं तेषं विनयकर्मणा। मुमूर्छ सहजं तेजो हविषेव हविर्भुजां॥ १०.८०॥ परस्पराविरुद्धास्ते तद्रघोरनघं कुलं। अलं उद्द्योतयां आसुर्देवारण्यं इवर्तवः॥ १०.८१॥ समानेऽपि हि सौभ्रात्रे यथोभौ रामलक्ष्मणौ। तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं बभूवतुः॥ १०.८२॥ तेषां द्वयोर्द्वयोरैक्यं बिभिदे न कदाचन। यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः॥ १०.८३॥ ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च। मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव॥ १०.८४॥ स चतुर्धा बभौ व्यस्तः प्रसवः पृथिवीपतेः। धर्मार्थकाममोक्षाणां अवतार इवाङ्गभाक्॥ १०.८५॥ गुणैराराधयां आसुस्ते गुरुं गुरुवत्सलाः। तं एव चतुर्नतेशं रत्नैरिव महार्णवाः॥ १०.८६॥ सुरगज इव दन्तैर्भग्नदैत्यासिधारैर्नय इव पणबन्धव्यक्तयोगैरुपायैः। हरिरिव युगदीर्घैर्दोर्भिरंषैस्तदीयैः पतिरवनिपतीनां तैश्चकाशे चतुर्भिः॥ १०.८७॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये भगवदवतारो नाम दशमः सर्गः॥

    एकादशः सर्गः

    कौशिकेन स किल क्षितीश्वरो रामं अध्वरविघातशान्तये। काकपक्षधरं एत्य याचितस्तेजसां हि न वयः समीक्ष्यते॥ ११.१॥ कृच्छ्रलब्धं अपि लब्धवर्णभाक्तं दिदेश मुनये सलक्ष्मणं। अप्यसुप्रणयिनां रघोः कुले न व्यहन्यत कदाचिदर्थिता॥ ११.२॥ यावदादिशति पार्थिवस्तयोर्निर्गमाय पुरमार्गसत्क्रियां। तावदाशु विदधे मरुत्सखैः सा सपुष्पजलवर्षिभिर्घनैः॥ ११.३॥ तौ निदेशकरणोद्यतौ पितुर्धन्विनौ चरणयोर्निपेततुः। भूपतेरपि तयोः प्रवत्स्यतोर्नम्रयोरुपरि बाष्पबिन्दवः॥ ११.४॥ तौ पितुर्नयनजेन वारिणा किंचिदुक्षितशिखण्डकावुभौ। धन्विनौ तं ऋषिं अन्वगच्छतां पौरदृष्टिकृतमार्गतोरणौ॥ ११.५॥ लक्ष्मणानुचरं एव राघवं नेतुं ऐच्छदृषिरित्यसौ नृपः। आशिषं प्रयुयुजे न वाहिनीं सा हि रक्षणविधौ तयोः क्षमा॥ ११.६॥ रेजतुश्च सुतरां महौजसः कौशिकस्य पदवीं अनुद्रुतौ। उत्तरां प्रति दिशं विवस्वतः प्रस्थितस्य मधुमाधवाविव॥ ११.६*॥ मातृवर्गचरणस्पृषौ मुनेस्तौ प्रपद्य पदवीं महौजसः। रेजतुर्गतिवशात्प्रवर्तिनौ भास्करस्य मधुमाधवाविव॥ ११.७॥ वीचिलोलभुजयोस्तयोर्गतं शैशवाच्चपलं अप्यशोभत। तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टितं॥ ११.८॥ तौ बलातिबलयोः प्रभावतो विद्ययोः पथि मुनिप्रदिष्टयोः। मम्लतुर्न मणिकुट्टिमोचितौ मातृपार्श्वपरिवर्तिनाविव॥ ११.९॥ पूर्ववृत्तकथितैः पुराविदः सानुजः पितृसखस्य राघवः। उह्यमान इव वाहनोचितः पादचारं अपि न व्यभावयथ्॥ ११.१०॥ तौ सरांसि रसवद्भिरम्बुभिः कूजितैः श्रुतिसुखैः पतत्रिणः। वायवः सुरभिपुष्परेणुभिश्छायया च जलदाः सिषेविरे॥ ११.११॥ नाम्भसां कमलशोभिनां तथा शाखिनां न च परिश्रमच्छिदां। दर्शनेन लघुना यथा तयोः प्रीतिं आपुरुभयोस्तपस्विनः॥ ११.१२॥ स्थाणुदग्धवपुषस्तपोवनं प्राप्य दाशरथिरात्तकार्मुकः। विग्रहेण मदनस्य चारुणा सोऽभवत्प्रतिनिधिर्न कर्मणा॥ ११.१३॥ तौ सुकेतुसुतया खिलीकृते कौशिकाद्विदितशापया पथि। निन्यतुः स्थलनिवेशितातटनी लीलयैव धनुषी अधिज्यतां॥ ११.१४॥ ज्यानिनिआदं अथ गृह्णती तयोः प्रादुरास बहूलक्षपा छविः। ताडका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी॥ ११.१५॥ तीव्रवेगधुतमार्गवृक्षया प्रेतचीवरवसा स्वनोग्रया। अभ्यभावि भरताग्रजस्तया वात्ययेव पितृकाननोत्थया॥ ११.१६॥ उद्यतैकभुजयष्टिं आयतीं श्रोणिलम्बिपुरुषान्त्रमेखलां। तां विलोक्य वनितावधे घृणां पत्त्रिणा सह मुमोच राघवः॥ ११.१७॥ यच्चकार विवरं शिलाघने ताडकोरसि स रामसायकः। अप्रविष्टविषयस्य रक्षसां द्वारतां अगमदन्तकस्य तथ्॥ ११.१८॥ बाणभिन्नहृदया निपेतुषी सा स्वकानभुवं न केवलां। विष्टपत्रयपराजयस्थिरां रावणश्रियं अपि व्यकम्पयथ्॥ ११.१९॥ राममन्मथशरेण ताडिता दुःसहेन दृदये निशाचरी। गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा॥ ११.२०॥ नैरृतघ्नं अथ मन्त्रवन्मुनेः प्रापदस्त्रं अवदानतोषिताथ्। ज्योतिरिन्धनैपाति भास्करात्सूर्यकान्त इव ताडकान्तकः॥ ११.२१॥ वामनाश्रमपदं ततः परं पावनं श्रुअं ऋषेरुपेयिवान्। उन्मनाः प्रथमजन्मचेष्टितान्यस्मरन्नपि बभूव राघवः॥ ११.२२॥ आससाद मुनिरात्मनस्ततः शिष्यवर्गपरिकल्पितार्हणं। बद्धपल्लवपुटाञ्जलिद्रुमं दर्शनोन्मुख मृगं तपोवनं॥ ११.२३॥ तत्र दीक्षितं ऋषिं रकषतुर्विघ्नतो दशरथात्मजौ शरैः। लोकं अन्धतमसात्क्रमोदितौ रशामिभिः शशिदिवाकराविव॥ ११.२४॥ वीक्ष्य वेदिं अथ रक्तबिन्दुभिर्बन्धुजीवपृथुभिः प्रदूषितां। संभ्रमोऽभवदपोढकर्मणां ऋत्विजां च्युतविकङ्कतस्रुचां॥ ११.२५॥ उन्मुखः सपदि लक्ष्मणाग्रजो बाणं आश्रयमुखात्समुद्धरन्। रक्षसां बलं अपश्यदम्बरे गृध्रपक्षपवनेरितध्वजं॥ ११.२६॥ तत्र यावधिपती मखद्विषां तौ शरव्यं अकरोत्स नेतरान्। किं महोरगविसर्पिविक्रमो राजिलेषु गरुडः प्रवर्तते॥ ११.२७॥ सोऽस्त्रं उग्रजवं अस्त्रकोविदः संदधे धनुषि वायुदैवतं। तेन शैलगुरुं अप्यपातयत्पाण्डुपत्त्रं इव ताडकासुतं॥ ११.२८॥ यः सुबाहुरिति राक्षसोऽपरस्तत्र तत्र विससर्प मायया। तं क्षुरप्रशकलीकृतां कृती पत्त्रिणां व्यभजदाश्रमाद्बहिः॥ ११.२९॥ इत्यपास्तमखविघ्नयोस्तयोः सांयुगीनं अभिनन्द्य विक्रमं। ऋत्विजः कुलपतेर्यथाक्रमं वाग्यतस्य निरवर्तयन्क्रियाः॥ ११.३०॥ तौ प्रणामचलकाकपक्षकौ भ्रातरावभृथाप्लुतो मुनिः। आशिषां अनुपदं समस्पृशद्दर्भपाटिततलेन पाणिना॥ ११.३१॥ तं न्यमन्त्रयत संभृतक्रतुर्मैथिलः स मिघिलां व्रजन्वशी। राघवावपि निनाय बिभ्रतौ तद्धनुःश्रवणजं कुतूहलं॥ ११.३२॥ तैः शिवेषु वसतिर्गताध्वभिः सायं आश्रमतरुष्वगृह्यत। येषु दीर्घतपसः परिग्रहो वासवक्षणकलत्रतां ययौ॥ ११.३३॥ प्रत्यपद्यत चिराय यत्पुनश्चारु गौतमवधूः शिलामयी। स्वं वपुः स किल किलिबिषच्छिदां रामपादरजसां अनुग्रहः॥ ११.३४॥ राघवान्वितं उपस्थितं मुनिं तं निशम्य जनको जनेश्वरः। अर्थकामसहितं सपर्यया देहबद्धं इव धर्मं अभ्यगाथ्॥ ११.३५॥ तौ विदेहनगरीनिवासिनां गां गताविव दिवः पुनर्वसू। मन्यते स्म पिबतां विलोचनैः पक्ष्मपातं अपि वञ्चनां मनः॥ ११.३६॥ यूपवत्यवसिते किर्याविधौ कालवित्कुशिकवंशवर्धनः। रामं इष्वसनदर्शनोत्सुकं मैथिलाय कथयां ब्वभूव सः॥ ११.३७॥ तस्य वीक्ष्य ललितं वपुः शिशोः पार्थिवः प्रथितवंशजन्मनः। स्वं विचिन्त्य च धनुर्दुरानमं पीडितो दुहिट्शुल्कसंस्थया॥ ११.३८॥ अब्रवीच्च भगवन्मतङ्गजैर्यद्बृहद्भिरपि कर्म दुष्करं। तत्र नाहं अनुमन्तुं उत्सहे मोघवृत्ति कलभस्य चेष्टितं॥ ११.३९॥ ह्रेपिता हि बहवो नरेश्वरास्तेन तात धनुषा धनुर्भृतः। ज्यानिघातकठिनत्वचो भुजान्स्वान्विधूय धिगिति प्रतस्थिरे॥ ११.४०॥ प्रत्युवाच तं ऋषिर्निशम्यतां सारतोऽयं अथ वा कृतं गिरा। चाप एव भवतो भविष्यति व्यक्तशक्तिरशनिर्गिराविव॥ ११.४१॥ एवं आप्तवचनात्स पौरुषं काकपक्षकधरेऽपि राघवे। श्रद्दधे त्रिदशगोपमात्रके दाहशक्तिं इव कृष्णवर्त्मनि॥ ११.४२॥ व्यादिदेश गणः सपार्श्वगान्कर्मुकाभरणाय मैथिलः। तैजसय धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः॥ ११.४३॥ तत्प्रसुप्तभुजगेन्द्रभीषणं वीक्ष्य दाशरथिराददे धनुः। विद्रुतक्रतुमृगानौसारिणं येन बाणं असृजद्वृषध्वजः॥ ११.४४॥ आततज्यं अकरोत्स संसदा विस्मयस्तिमितनेत्रं ईक्षितः। शैलसारं अपि नातियत्नतः पुष्पचापं इव पेशलं स्मरः॥ ११.४५॥ भज्यमानं अतिमात्रकर्षणात्तेन वज्रपरुषस्वनं धनुः। भार्गवाय दृढमन्यवे पुनः क्षत्रं उद्यतं इति न्यवेदयथ्॥ ११.४६॥ दृष्टसारं अथ रुद्रकार्मुके वीर्यशुल्कं अभिनन्द्य मैथिलः। राघवाय तनयां अयोनिजां रूपिणीं श्रियं इव न्यवेदयथ्॥ ११.४७॥ मैथिलः सपदि सत्यसंगरो राघवाय तनयां अयोनिजां। संनिधौ द्युतिमतस्तपोनिधेरग्निसाक्षिक इवातिसृष्टवान्॥ ११.४८॥ प्राहिणोच्च महितं महाद्युतिः कोसलाधिपतये पुरोधसं। भृत्यभावि दुहितुः परिग्रहाद्दिश्यतां कुलं इदं निमेरिति॥ ११.४९॥ उत्सुकश्च सुतदारकर्मणा सोऽभवद्गुरुरुपागतश्च तं। गौतमस्य तनयोऽनुकूलवाक्प्रार्थितं हि सुकृतां अकालहृथ्॥ ११.४९*॥ अन्वियेष सदृशीं स च स्नुषां प्राप चैनं अनुकूलवाग्द्विजः। सद्य एव सुकृतां हि पच्यते कल्पवृक्षफल धर्मि काङ्क्षितं॥ ११.५०॥ तस्य कल्पितपुरस्क्रियाविधेः शुश्रुवान्वचनं अग्रजन्मनः। उच्चचाल वलभितसखो वशी सैन्यरेणुमुषितार्कदीधितिः॥ ११.५१॥ आससाद मिथिलां स वेष्टयन्पिडितोपवनपादपां बलैः। प्रीतिरोधं असहिष्ट सा पुरी स्त्रीव कान्तपरिभोगं आयतं॥ ११.५२॥ तौ समेत्य समयस्थितावुभौ भूपती वरुणवासवोपमौ। कन्यकातनयकौतुकक्रियां स्वप्रभावसदृशीं वितेनतुः॥ ११.५३॥ पार्थिवीं उदवहद्रघूद्वहो लक्ष्मणस्तदनुजां अथोर्मिलां। यौ तयोरवरजौ वरौजसौ तौ कुशध्वजसुते सुमध्यमे॥ ११.५४॥ ते चतुर्थसहितास्त्रयो बभुः सूनवो नववधूपरिग्रहाः। सामदानविधिभेदविग्रहाः सिद्धिमन्त इव तस्य भूपतेः॥ ११.५५॥ ता नराधिपसुता नृपात्मजैस्ते च ताभिरगमन्कृतार्थतां। सोऽभवद्वरवधूसमागमः प्रत्ययप्रकृतियोग्संनिभः॥ ११.५६॥ एवं आत्तरतिरात्मसंभवांस्तान्निवेश्य चतुरोऽपि तत्र सः। अध्वसु त्रिषु विसृष्टमैथिलः स्वां पुरीं दशरथो न्यवर्तत॥ ११.५७॥ तस्य जातु मरुतः प्रतीपगा वर्त्मसु धव्जतरुप्रमाथिनः। चिक्लिशुर्भृशतया वरूथिनीं उत्तटा इव नदीरयाः स्थलीं॥ ११.५८॥ लक्ष्यते स्म तदनन्तरं रविर्बद्धभीमपैर्वेषमण्डलः। वैनतेयशमितस्य भोगिनो भोगवेष्टित इव च्युतो मणिः॥ ११.५९॥ श्येनपक्षपरिधूसरालकाः सांध्यमेघरुधिरार्द्रवाससः। अङ्गना इव रजस्वला दिशो नो बभूवुरवलोकनक्षमाः॥ ११.६०॥ भास्करश्च दिशं अध्युवास यां तां श्रिताः प्रतिभयं ववाशिरे। क्षत्रशोणितपितृक्रियोचितं चोदयन्त्य इव भार्गवं शिवाः॥ ११.६१॥ तत्प्रतीपपवनादि वैकृतं प्रेक्ष्य शान्तिं अधिकृत्य कृत्यविथ्। अन्वयुङ्क्त गुरुं ईश्वरः क्षितेः स्वन्तं इत्यलघयत्स तद्व्यथां॥ ११.६२॥ तेजसः सपदि राशिरुत्थितः प्रादुरास किल वाहिनीमुखे। यः प्रमृज्य नयनानि सैनिकैर्लक्षणीयपुरुषाकृतिश्चिराथ्॥ ११.६३॥ पित्र्यं अंशं उपवीतलक्षणं मातृकं च धनुरूर्जितं दधथ्। यः सस्ॐअ इव घर्मदीधितिः सद्विजिह्व इव चन्दनद्रुमः॥ ११.६४॥ येन रोषपरुषात्मनः पितुः शासने स्थिभिदोऽपि तस्थुषा। वेपमानजननीशिरश्छिदा प्रागजीयत घृणा ततो मही॥ ११.६५॥ अक्षभीजवलयेन निबभौ दक्षिणश्रवणसंस्थितेन यः। क्षत्रियान्तकरणैकविंशतेर्व्याजपूर्वगणनां इवोद्वहन्॥ ११.६६॥ तं पितुर्वधभवेन मन्युना राजवंशनिधनाय दीक्षितं। बालसूनुरवलोक्य भार्गवं स्वां दशां च विषसाद पार्थिवः॥ ११.६७॥ रामनाम इति तुल्यं आत्मजे वर्तमानं अहिते च दारुणे। हृद्यं अस्य भयदायि चाभवद्रत्नजातं इव हारसर्पयोः॥ ११.६८॥ अर्घ्यं अर्घ्यं इति वादिनं नृपं सोऽनवेक्ष्य भरताग्रजो यतः। क्षत्रकोपदहनार्चिषं ततः संदधे दृशं उदग्रतारकां॥ ११.६९॥ तेन कार्मुकनिषक्तमुष्टिना राघवो विगतभीः पुरोगतः। अङ्गुलीविवरचारिणं शरं कुर्वता निजगदे युयुत्सुना॥ ११.७०॥ क्षत्रजातं अपकारि वैरि मे तन्निहत्य बहुशः शमं गतः। सुप्तसर्प इव दण्डघट्टनाद्रोषितोऽस्मि तव विक्रमश्रवाथ्॥ ११.७१॥ मैथिलस्य धनुरन्यपार्थिवैस्त्वं किलानमितपूर्वं अक्षणोः। तन्निशम्य बहवता समर्थये वीर्यशृङ्गं इव भग्नं आत्मनः॥ ११.७२॥ अन्यदा जगति राम इत्ययं शब्द उच्चरित एव मां अगाथ्। व्रीडं आवहति मे स संप्रति व्यस्तवृत्तिरुदयोन्मुखे त्वयि॥ ११.७३॥ बिभ्रतोऽस्त्रं अचलेऽप्यकुण्ठितं द्वौ मतौ मम रिपू समागसौ। ह्ॐअ-धेनु-हरणाच्च हैहयस्त्वं च इर्तिं अपहर्तुं उद्यतः॥ ११.७४॥ क्षत्रियान्तकरणोऽपि विक्रमस्तेन मां अवति नाजिते त्वयि। पावकस्य महिमा स गण्यते कक्षवज्ज्वलति सागरेऽपि यः॥ ११.७५॥ विद्धि चात्तबलं ओजसा हरेरैश्वरं धनुरभाजि यत्त्वया। खातमूलं अनिलो नदीरयैः पातयत्यपि मृदुस्तटद्रुमं॥ ११.७६॥ तन्मदीयं इदं आयुधं ज्यया संगमय्य सशरं विकृष्यतां। तिष्ठतु प्रधनं एवं अप्यहं तुल्यबाहुतरसा जितस्त्वया॥ ११.७७॥ कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम। ज्यानिघातकठिनाङ्गुलिर्वृथा बध्यतां अभययाचनाञ्जलिः॥ ११.७८॥ एवं उक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः। तद्धनुर्ग्रहणं एव राघवः प्रत्यपद्यत समर्थं उत्तरं॥ ११.७९॥ पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवथ्। केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलाञ्छितः॥ ११.८०॥ तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितं। निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः॥ ११.८१॥ तावुभावपि परस्पर-स्थितौ वर्धमानपरिहीनतेजसौ। पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव॥ ११.८२॥ तं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यं आत्मनि। स्वं च संहितं अमोघं आशुगं व्याजहार हरसूनसंनिभः॥ ११.८३॥ न प्रहर्तुं अलं अस्मि निदयं विप्र इत्यभिभवत्यपि त्वयि। शंष किं गतिं अनेन पत्त्रिणा हन्मि लोकं उत ते मखार्जितं॥ ११.८४॥ प्रत्युवाच तं ऋषिर्न तत्त्वतस्त्वां न वेद्मि पुरुषं पुरातनं। गां गतस्य तव धाम वैष्णवं कोपितो ह्यसि मया दिदृक्षुणा॥ ११.८५॥ भस्मसात्कृतवतः पितृद्विषः पात्रसाच्च वसुधां ससागरां। आहितो जयविपर्ययोऽपि मे श्लाघ्य एव परमेष्ठिना त्वया॥ ११.८६॥ तद्गतिं मतिमतां वरेप्सितां पुण्यतीर्थगमनाय रक्ष मे। पीडयिष्यति न मां खिलीकृता स्वर्गपद्धतिरभोगलोलुपं॥ ११.८७॥ प्रत्यपद्यत तथेति राघवः प्राङ्मुखश्च विससर्ज सायकं। भार्गवस्य सुकृतोऽपि सोऽभवत्स्वर्गमार्गपरिघो दुरत्ययः॥ ११.८८॥ राघवोऽपि चरणौ तपोनिधेः क्षम्यतां इति वदन्समस्पृषथ्। निर्जितेषु तरसा तरस्विनां शत्रुषु प्रणतिरेव कीर्तये॥ ११.८९॥ राजसत्वं अवधूय मातृकं पित्र्यं अस्मि गमितः शमं यदा। नन्वनिन्दितफलो मम त्वया निग्रहोऽप्ययं अनुग्रहीकृतः॥ ११.९०॥ साधु याम्यहं अविघ्नं अस्तु ते देवकार्यं उपपादयिष्यतः। ऊचिवानिति वचः सलक्ष्मणं लक्ष्मणाग्रजं ऋषिस्तिरोदधे॥ ११.९१॥ स्वं निवेश्य किल धाम राघवे वैष्णवं विदितविष्णुतेजसि। स्वस्तिदानं अधिकृत्य चाक्षयं भार्गवोऽथ निजं आश्रमं ययौ॥ ११.९१*॥ तस्मिन्गते विजयिनं परिरभ्य रामं स्नेहादमन्यत पिता पुनरेव जातं। तस्याभवत्क्षणशुचः परितोषलाभः कक्षाग्निलङ्घिततरोरिव वृष्टिपातः॥११.९२॥ अथ पथि गमयित्वा क्लृप्तरम्योपकार्ये कतिचिदवनिपालः शर्वरीः शर्वकल्पः। पुरं अविशदयोध्यां मैथिलीदर्शनीनां कुवलयितगवाक्षां लोचनैरङ्गनानां॥ ११.९३॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये राम-सीताविवाह-वर्णनो नामैकादशः सर्गः॥

    द्वादशः सर्गः

    निर्विष्टविषयस्नेहः स दशान्तं उपेयिवान्। आसीदासन्ननिर्वाणः प्रदीपार्चिरिवोषसि॥१२.१॥ तं कर्णमूलं आगत्य रामे श्रीर्नस्यतां इति। कैकेयीशङ्कयेवाह पलितच्छद्मना जरा॥१२.२॥ सा पौरान्पौरकान्तस्य रामस्याभ्युदयश्रुतिः। प्रत्येकं ह्लादयां चक्रे कुल्येवोद्यानपादपान्॥१२.३॥ तस्याभिषेकसंभारं कल्पितं क्रूरनिश्चया। दूषयां आस कैकेयी शोकोष्णैः पार्थिवाश्रुभिः॥१२.४॥ सा किलाश्वासिता चण्डी भर्त्रा तत्संश्रुतौ वरौ। उद्ववामेन्द्रसिक्ता भूर्बिलमग्नाविवोरगौ॥१२.५॥ तयोश्चतुर्दशैकेन रामं प्राव्राजयत्समाः। द्वितीयेन सुतस्यैच्छद्वैधव्यैकफलां श्रियं॥१२.६॥ पित्रा दत्तां रुदन्रामः प्राङ्महीं प्रत्यपद्यत। पश्चाद्वनाय गच्छेति तदाज्ञां मुदितोऽग्रहीथ्॥१२.७॥ दधतो मङ्गलक्ष्ॐए वसानस्य च वल्कले। ददृशुर्विस्मितास्तस्य मुखरागं समं जनाः॥१२.८॥ स सीतालक्ष्मणसखः सत्याद्गुरुं अलोपयन्। विवेश दण्डकारण्यं प्रत्येकं च सतां मनः॥१२.९॥ राजापि तद्वियोगार्तः स्मृत्वा शापं स्वकर्मजं। शरीरत्यागमात्रेण शुद्धिलाभं अमन्यत॥१२.१०॥ विप्रोषितकुमारं तद्(?) राज्यं अस्तमितेश्वरं। रन्ध्रान्वेषणदक्षाणां द्विषां आमिषतां ययौ॥१२.११॥ अथानाथाः प्रकृतयो मातृबन्धुनिवासिनं। मौलैरानाययां आसुर्भर्तं स्तम्भिताश्रुभिः॥१२.१२॥ श्रुत्वा तथाविधं मृत्युं कैकेयीतनयः पितुः। मातुर्न केवलं स्वस्याः श्रियोऽप्यासीत्पराङ्मुखः॥१२.१३॥ ससैन्यश्चान्वगाद्रामं दर्शितानाश्रमालयैः। तस्य पश्यन्सस्ॐइत्रेरुदश्रुर्वसतिद्रुमान्॥१२.१४॥ चित्रकूटवनस्थं च कथितस्वर्गतिर्गुरोः। लक्ष्म्या निमन्त्रयां चक्रे तं अनुच्छिष्टसंपदा॥१२.१५॥ स हि प्रथमजे तस्मिन्नकृतश्रीपरिग्रहे। परिवेत्तारं आत्मानं मेने स्वीकरणाद्भुवः॥१२.१६॥ तं अशक्यं अपाक्रष्टुं निर्देशात्स्वर्गिणः पितुः। ययाचे पादुके पश्चात्कर्तुं राज्याधिदेवते॥१२.१७॥ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीं। नन्दिग्रामगतस्तस्य राज्यं न्यासं इवाभुनक्॥१२.१८॥ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः। मातुः पापस्य शुद्ध्यर्थं प्रायश्चित्तं इवाकरोथ्॥१२.१९॥ रामोऽपि सह वैदेह्या वने वन्येन वर्तयन्। चचार सानुजः शान्तो वृद्धेक्ष्वाकुव्रतं युवा॥१२.२०॥ प्रभावस्तम्भितच्छायं आश्रितः स वनस्पतिं। कदाचिदङ्के सीतायाः शिश्ये किंचिदिव श्रमाथ्॥१२.२१॥ ऐन्द्रिः किल नखैस्तस्या विददार स्तनौ द्विजः। प्रियोपभोगचिह्नेषु पौरोभाग्यं इवाचरन्॥१२.२२॥ मृगमांसं ततः सीतां रक्षन्तीं आतपे धृतं। पक्षतुण्डनखाघातैर्बबाधे वायसो बलाथ्॥१२.२२*॥ तस्मिन्नास्थदिषीकास्त्रं रामो रामावभोधितः। आत्मानं मुमुचे तस्मादेकनेत्रव्ययेन सः॥१२.२३॥ रामस्त्वासन्नदेशत्वाद्भरतागमनं पुनः। आशङ्क्योत्सुकसारङ्गां चित्रकूटस्थलीं जहौ॥१२.२४॥ प्रययावातिथेयेषु वसन्नृषिकुलेषु सः। दक्षिणां दिशं ऋक्षेषु वार्षिकेष्विव भास्करः॥१२.२५॥ बभौ तं अनुगच्छन्ती विदेहाधिपतेः सुता। प्रतिषिद्धापि कैकेय्या लक्ष्मीरिव गुणोन्मुखी॥१२.२६॥ अनुसूयातिसृष्टेन पुण्यगन्धेन काननं। सा चकाराङ्गरागेण पुष्पोच्चलित षट्पदं॥१२.२७॥ संध्याभ्रकपिषस्तत्र विराधो नाम राक्षसः। अतिष्ठन्मार्गं आवृत्य रामस्येन्दोरिव ग्रहः॥१२.२८॥ स जहरा तयोर्मध्ये मैथिलीं लोकशोषणः। नभोनभस्ययोर्वृष्टिं अवग्रह इवान्तरे॥१२.२९॥ तं विनिष्पिष्य काकुत्स्थौ पुरा दूषयति श्तलीं। गन्धेनाशुचिना चेति वसुधायां निचख्नतुः॥१२.३०॥ पञ्चवट्यां ततो रामः शासनात्कुम्भजन्मनः। अनपोष्हस्थितिस्तस्थौ विन्ध्याद्रिः प्रकृताविव॥१२.३१॥ रावणावरजा तत्र राघवं मदनातुरा। अभिपेदे निदाघार्ता व्यालीव मलयद्रुमं॥१२.३२॥ सा सीतासंनिधावेव तं वव्रे कथितान्वया। अत्यारूढो हि नारीणां अकालज्ञो मओभवः॥१२.३३॥ कलत्रवानहं बाले कनीयांसं भजस्व मे। इति रामो वृषस्यन्तीं वृषस्कन्धः शशास तां॥१२.३४॥ ज्येष्ठाभिगमनात्पूर्वं तेनाप्यनभिनन्दिता। साभूद्रामाश्रया भूयो नदीवोभयकूलभाक्॥१२.३५॥ संरम्भं मैथिलीहासः क्षणं स्ॐयां निनाय तां। निवातस्तिमितां वेलां चन्द्रोदय इवोदधेः॥१२.३६॥ फलं अस्योपहासस्य सद्यः प्राप्स्यसि पश्य मां। मृग्यः परिभवो व्याघ्र्यां इत्यवेहि त्वया कृतं॥१२.३७॥ इत्युक्त्वा मैथिलीं भर्तुरङ्के निर्विशतीं भयाथ्। रूपं शूर्पणखा-नाम्नः सदृशं प्रत्यपद्यत॥१२.३८॥ लक्ष्मणः प्रथमं श्रुत्वा कोकिलामञ्जुभाषिणीं। शिवाघोरस्वनां पश्चाद्बुबुधे विकृतेति तां॥१२.३९॥ पर्णशालां अथ क्षिप्रं विधृतासिः प्रविश्य सः। वैरूप्यपौनरुक्त्येन भीषणां तां अयोजयथ्॥१२.४०॥ सा वक्रनखधारिण्या वेणुकर्कशपर्वया। अङ्कुशाकारयाङ्गुल्या तावतर्जयदम्बरे॥१२.४१॥ प्राप्य चाशु जन्स्थानं खरादिभ्यस्तथाविधं। रामोपक्रमं आचख्यौ रक्षःपरिभवं नवं॥१२.४२॥ मुखावयवलूणां तां नैरृता यत्पुरोदधुः। रामाभियायिनां तेषां तदेवाभूदमङ्गलं॥१२.४३॥ उदायुधानापततस्तान्दृप्तान्प्रेक्ष्य राघवः। निदधे विजयाशंसां चापे सीतां च लक्ष्मणे॥१२.४४॥ एको दाशरथी रामो यातुधानाः सहस्रशः। ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः॥१२.४५॥ असज्जनेन काकुत्स्थः प्रयुक्तं अथ दूषणं। न चक्षमे शुभाचारः स दूषणं इवात्मनः॥१२.४६॥ तं शरैः प्रतिजग्राह खरतिशिरसौ च सः। ख्रमशस्ते पुनस्तस्य चापात्समं इवोद्ययुः॥१२.४७॥ तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः। आयुर्देहातिगैः पीतं रुधिरं तु पतत्रिभिः॥१२.४८॥ तस्मिन्रामशरोत्कृत्ते बले महति रक्षसां। उत्थितं ददृशेऽन्यच्च कबन्धेभ्यो न किंचन॥१२.४९॥ सा बाणवर्षिणं रामं योधयित्वा सुरद्विषां। अप्रबोधाय सुष्वाप गृध्रच्छाये वरूथिनी॥१२.५०॥ राघवास्त्रविदीर्णानां रावणं प्रति रक्षसां। तेषां शूर्पणखैवैका दुष्प्रत्वृत्तिहराभवथ्॥१२.५१॥ निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः। रामेण निहतं मेने पदं दशसु मूर्धसु॥१२.५२॥ रक्षसा मृगरूपेण वञ्चयित्वा स राघवौ। जहरा सीतां पक्षीन्द्रप्रयासक्षणविघ्नितः॥१२.५३॥ तौ सीतान्वेषिणौ गृध्रं लूनपक्षं अपश्यतां। प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः॥१२.५४॥ स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीं। आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः॥१२.५५॥ तयोस्रावणहृतां ताभ्यां पितृव्यापत्तिशोकयोः। पितरीवाग्निसंस्कारात्परा ववृतिरे क्रियाः॥१२.५६॥ वधनिर्धूतशापस्य कबन्धस्योपदेशतः। मुमूर्छ सख्यं रामस्य समानव्यसने हरौ॥१२.५७॥ स हत्वा वालिनं वीरस्तत्पदे चिरकाङ्क्षिते। धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयथ्॥१२.५८॥ इतस्ततश्च वैदेहीं अन्वेष्टुं भर्तृचोदिताः। कपयश्चेरुरार्तस्य रामस्येव मनोरथाः॥१२.५९॥ प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनाथ्। मारुतिः सागरं तीर्णः संसारं इव निर्ममः॥१२.६०॥ दृष्टा विचिन्वता तेन लङ्कायां राक्षसीवृता। जानकी विषवल्लीभिः परीतेव महौषधिः॥१२.६१॥ तस्यै भर्तुरभिज्ञामं अङ्गुलीयं ददौ कपिः। प्रत्युद्गतं इवानुष्णैस्तदानन्दाश्रुभिन्दुभिः॥१२.६२॥ निर्वाप्य प्रियसंदेशैः सीतां अक्षवधोद्धतः। स ददाह पुरीं लङ्कां क्षणसोढारिनिग्रहः॥१२.६३॥ प्रत्यभिज्ञानरत्नं च रामायादर्शयत्कृती। हृदयं स्वयं आयातं वैदेह्या इव मूर्तिमथ्॥१२.६४॥ स प्राप हृदयन्यस्तमणिपर्शनिमीलितः। अपयोधरसंसर्गं प्रियालिङ्गननिर्वृतिं॥१२.६५॥ श्रुत्वा रामः प्रियोदन्तं मेने तत्संगमोत्सुकः। महार्णवपरिक्षेपं लङ्कायाः परिखालघुं॥१२.६६॥ स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः। न केवलं धरा-पृष्ठे व्य्ॐनि संबाधवर्तिभिः॥१२.६७॥ निर्विष्टं उदधेः कूले तं प्रपेदे विभीषणः। स्नेहाद्राक्षसलक्ष्म्येव बुद्धिं आदिश्य चोदितः॥१२.६८॥ तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः। काले खलु समारब्धाः फलं बध्नन्ति नीतयः॥१२.६९॥ स सेतुं बन्धयां आस प्लवगैर्लवणाम्भसि। रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः॥१२.७०॥ तेनोत्तीर्य पथा लङ्कां रोधयां आस पिङ्गलैः। द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः॥१२.७१॥ रणः प्रववृते तत्र भीमः प्लवगरक्षसां। दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः॥१२.७२॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः। अतिशस्त्रनखन्यासः शैलरुग्ण मतङ्गजः॥१२.७३॥ अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनां। सीतां मायेति शंसन्ती त्रिजटा समजीवयथ्॥१२.७४॥ कामं जीवति मे नाथ इति सा विजहौ शुचं। प्राङ्मत्वा सत्यं अस्यान्तं जीवितास्मीति लज्जिता॥१२.७५॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः। दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवथ्॥१२.७६॥ ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणं। रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा॥१२.७७॥ स मारुतिसमानीतमहौषधिहतव्यथः। लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः॥१२.७८॥ स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभं। मेघस्येव शरत्कालो न किंचित्पर्यशेषयथ्॥१२.७९॥ क्लेशेन महता निद्रां त्याजितं रणदुर्जयं। रावणः प्रेषयां आस युद्धायानुजं आत्मनः॥१२.७९आ॥ जघान स तदादेशात्कपीनुग्राननेकशः। विवेश च पुरीं लङ्कां समादाय हरीश्वरं॥१२.७९भ्॥ कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः। रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः॥१२.८०॥ अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान्। रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः॥१२.८१॥ इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु। रजांसि समरोत्थानि रच्छोणितनन्दीष्विव॥१२.८२॥ निर्ययावथ पौलस्थ्यः पुनर्युद्धाय मन्दिराथ्। अरावणं अरामं वा जगदद्येति निश्चितः॥१२.८३॥ रामं पदातिं आलोक्य लङ्केषं च वरूथिनं। हरियुग्यं रथं तस्मै पर्जिघाय पुरंदरः॥१२.८४॥ तं आधूतद्वजपटं व्य्ॐअगङ्गोर्मिवायुभिः। देवसूतभुजालम्बी जैत्रं अध्यास्त राघवः॥१२.८५॥ मातलिस्तस्य माहेन्द्रं आमुमोच तनुच्छदं। यत्रोत्पलददलक्लैब्यं अस्त्राण्यापुः सुरद्विषां॥१२.८६॥ अन्योन्यदर्शनप्राप्तविक्रमावसरं चिराथ्। रामरावणयोर्युद्धं चरितार्थं इवाभवथ्॥१२.८७॥ भुजमूर्धोरुबाहुल्यादेकोऽपि धन्दानुजः। ददृशे सोऽयथापूर्वो मातृवंश इव स्थितः॥१२.८८॥ जेतारं लोकपालानां स्वमुखैरर्चितेश्वरं। रामस्तुलितकैलासं अरातिं बह्वमन्यत॥१२.८९॥ तस्य स्फुरति पौलस्त्यह्सीतासंगमशंसिनि। निचखानाधिकक्रोधः शरं सव्येतरे भुजे॥१२.९०॥ रावणस्यापि रामास्तो भित्त्वा हृदयं आशुगः। विवेश भुवं आख्यातुं उरगेभ्य इव प्रियं॥१२.९१॥ वचसैव तयोर्वाक्यं अस्त्रं अस्त्रेण निघ्नतोः। अन्योन्यजयसंरम्भो ववृधे वादिनोरिव॥१२.९२॥ विक्रमव्यतिहारेण अस्त्रं अस्त्रेण निघ्नतोः। जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव॥१२.९३॥ कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः। परस्परं शरव्राताः पुष्पवृष्टिं न सेहिरे॥१२.९४॥ अयःशङ्कुचितां रक्षः शतघ्नीं अथ शत्रवे। हृतां वैवस्वतस्येव कूटशाल्मलिं अक्षिपथ्॥१२.९५॥ राघवो रथं अप्राप्तां तां आशां च सुरद्विषां। अर्धचन्द्रमुखैर्बाणैश्चिच्छेद कदलीसुखं॥१२.९६॥ अमोघं संदधे चास्मै धनुष्यकेअध्नुर्धरः। ब्राह्मं अस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधं॥१२.९७॥ तद्व्य्ॐनि दशधा भिन्नं ददृशे दीप्तिमन्मुखं। वपुर्महोरगस्येव करालफणमण्डलं॥१२.९८॥ तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयथ्। स रावणशिरःपङ्क्तिं अज्ञातव्रणवेदनां॥१२.९९॥ बालार्कप्रतिमेवाप्सु वीचिभिन्ना पतिष्यतः। रराज रक्षःकायस्य कण्ठच्छेदप्रंपरा॥१२.१००॥ मरुतां पश्यतां तस्य शिरांसि पतितान्यपि। मनो नातिविशश्वास पुनः संधानशङ्किनां॥१२.१०१॥ अथ मदगुरुपक्षैर्लोकपालद्विपानां अनुगतं अलिवृन्दैर्गण्डभित्तीर्विहाय। उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥१२.१०२॥ यन्ता हरेः सपदि संहृतकार्मुकज्यं आपृच्छ्य राघवं अनुष्ठितदेवकार्यं। नामाङ्करावणशराङ्कितकेतुयष्टिं ऊर्ध्वं रथं हरिसहस्रयुजं निनाय॥१२.१०३॥ रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसुहृदि विभीषणे संगमय्य श्रियं वैरिणः। रविसुतसहितेन तेनानुयातः सस्ॐइत्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम्॥१२.१०४॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रावणवधो नाम द्वादशः सर्गः॥

    त्रयोदशः सर्गः

    अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः। रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच॥१३.१॥ वैदेहि पश्य्ऽ आ मलयाद्विभक्तं मत्सेतुना फेनिलं अम्बुराशिं। छायापथेनेव शरत्प्रसन्नं आकाशं आविष्कृतचारुतारं॥१३.२॥ गुरोर्यियक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरंगे। तदर्थं उर्वीं अवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः॥१३.३॥ गर्भं दधत्यर्कमरीचयोऽस्माद्विवृद्धिं अत्राश्नुवते वसूनि। अबिन्धनं वह्निं असौ बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन॥१३.४॥ तां तां अवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना। विष्णोरिवास्यानवधारणीयं ईदृक्तया रूपं इयत्तया वा॥१३.५॥ नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा। अमुं युगान्तोचितयोगन्दिरः संहृत्य लोकान्पुरुषोऽधिशेते॥१३.६॥ पक्षच्छिदा गोत्रभिदात्तगन्धाः शरण्यं एनं शतशो महीध्राः। नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यमं आश्रयन्ते॥१३.७॥ रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः। अस्याच्छं अम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्रावरणं बभूव॥१३.८॥ मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः। अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः॥१३.९॥ ससत्त्वं आदाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वाथ्। अमी शिरोभिस्तिमयः सरन्ध्रैरूर्ध्वं वितन्वन्ति जलप्रवाहान्॥१३.१०॥ मातङ्गनक्रैः सहसोत्पतद्भिर्भिन्नान्द्विधा पश्य समुद्रफेनान्। कपोलसंसर्पितया य एषां व्रजन्ति कर्ण क्षणचामरत्वं॥१३.११॥ वेलानिलाय प्रसृता भुजंगा महोर्मिविस्फूर्जथुनिर्विशेषाः। सूर्यांशुसंपर्कसमृद्धरागैर्व्यज्यन्त एते मणिभिः फणस्थैः॥१३.१२॥ तवाधरस्परधिषु विद्रुमेषु पर्यस्तं एतत्सहसोर्मिवेगाथ्। ऊर्ध्वाङ्कुरप्रोतमुखं कथंचित्क्लेशदपक्रामति शङ्खयूथं॥१३.१३॥ प्रवृत्तमात्रेण पयांसि पातुं आवर्तवेगाद्भ्रमता घनेन। आभाति भूयिष्ठं अयं समुद्रः प्रमथ्यमानो गिरिणेव भूयः॥१३.१४॥ दूरादयश्चक्रनिभस्य तन्वी तमालतालीवनराजिनीला। आभाति वेला लवणाम्बुराशेर्धारानिबद्धेव कलङ्कलेखा॥१३.१५॥ वेलानिलः केतकरेणुभिस्ते संभावयत्याननं आयताक्षि। मां अक्षमं मण्डनकालहानेर्वेत्तीव बिम्बाधरबद्धतृष्णं॥१३.१६॥ एते वयं सैकतभिन्नशुक्तिपर्यस्तमुक्तापटलं पयोधेः। प्राप्ता मुहूर्तेन विमानवेगात्कूलं फलावर्जितपूगमालं॥१३.१७॥ कुरुष्व तावत्करभोरु पश्चान्मार्गे मृगप्रेक्षिणि दृष्तिपातं। एषा विदूरीभवतः समुद्रात्सकानना निष्पततीव भूमिः॥१३.१८॥ क्वचित्पथा संचरते सुराणां क्वचिद्घनानां पततां क्वचिच्च। यथाविधो मे मन्सोऽभिलाषः प्रवर्तते पश्य तथा विमानं॥१३.१९॥ असौ महेन्द्रद्विपदानगन्धी त्रिमार्गगावीचिविमर्दशीतः। आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते॥१३.२०॥ करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि कुतूहलिन्या। आमुञ्चतीवाभरणं द्वितीयं उद्भिन्नविद्युद्वलयो घनस्ते॥१३.२१॥ अमी जनस्थानं अपोढविघ्नं मत्वा समारब्धनवोटजानि। अध्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि॥१३.२२॥ सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरं एकं उर्व्यां। अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनं॥१३.२३॥ त्वं रक्षसा भीरु यतोऽपनीता तं मार्गं एताः कृपया लता मे। अदर्शयन्वक्तुं अशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः॥१३.२४॥ मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्मां। व्यापारयन्त्यो दिशि दक्षिणस्यां उत्पक्ष्मराजीनि विलोचनानि॥१३.२५॥ एतद्गिरेर्मालयवतः पुरस्तादाविर्भवत्यम्बर्लेखि शृङ्गं। नवं यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टं॥१३.२६॥ गन्धश्च धाराहतपल्वलानां कादम्बं अर्धोद्गतकेसरं च। स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिनसह्यानि विना त्वया मे॥१३.२७॥ पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु तवोपगूढं। गुहाविसारीण्यतिवाहितानि मया कथंचिद्घनगर्जितानि॥१३.२८॥ आसारसिक्तक्षितिबाष्पयोगान्मां अक्षिणोद्यत्र विभिन्नकोशैः। विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः॥१३.२९॥ उपान्तवानीरवनोपगूधान्यालक्ष्यपारिप्लवसारसानि। दूरावतीर्णा पिबतीव खेदादमूनि पम्पासलिलानि दृष्टिः॥१३.३०॥ अत्रावियुक्तानि रथाङ्गनाम्नां अन्योन्यदत्तोत्पलकेसराणि। द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये सस्पृहं ईक्षितानि॥१३.३१॥ इमां तताशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्रां। त्वत्प्राप्तिबुद्ध्या परिरिप्समानः स्ॐइत्रिणा सास्रं अहं निषिद्धः॥१३.३२॥ अमूर्विमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनां। प्रत्युद्व्रजन्तीव खं उत्पतन्त्यो गोदावरीसारसपङ्क्तयस्त्वां॥१३.३३॥ एषा त्वया पेशलमध्ययापि घटाम्बुसंवर्धितबालचूता। आह्लादयत्युन्मुखकृष्णसारा दृष्ट चिरात्पञ्चवटी मनो मे॥१३.३४॥ अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेम विनीतखेदः। रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः॥१३.३५॥ भ्रूभेद मात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार। तस्याविलाम्भःपरिशुद्धिहेतोर्भ्ॐओ मुनेः स्थानपरिग्रहोऽयं॥१३.३६॥ त्रेताग्निधूमाग्रं अनिन्द्यकीर्तेस्तस्येदं आक्रान्तविमानमार्गं। घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानं आत्मा॥१३.३७॥ एतन्मुनेर्मानिनि शातकर्णेः पञ्चाप्सरो नाम विहारवारि। आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यं इवेन्दुबिम्बं॥१३.३८॥ पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धं ऋषिर्मघोना। समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटभन्धं॥१३.३९॥ तस्यायं अन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः। वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिष्रुन्मुखराः करोति॥१३.४०॥ हविर्भुजां एधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः। असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः॥१३.४१॥ अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि। नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि॥१३.४२॥ एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं। सभाजने मे भुजं ऊर्ध्वबाहुः सव्येतरं प्राध्वं इतः प्रयुङ्क्ते॥१३.४३॥ वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः। दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्राचिषि संनिधत्ते॥१३.४४॥ अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनं आहिताग्नेः। चिराय संतर्प्य समिधिरग्निं यो मन्त्रपूतां तनुं अप्यहौषीथ्॥१३.४५॥ छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु। तस्यातिथीनां अधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु॥१३.४६॥ धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः। बध्नाति मे बन्धुरगात्रि चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः॥१३.४७॥ एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी। मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः॥१३.४८॥ अयं सुजातोऽनुगिरं तमालः प्रवालं आदाय सुगन्धि यस्य। कर्णार्पितेन्ऽ ठाकरवं कपोलं अपार्थ्यकालागुरुपत्त्रलेखं Vथ्॥१३.४९॥ अनिग्रहत्रासविनीतसत्त्वं अपुष्पलिङ्गात्फलबन्धिवृक्षं। वनं तपःसाधनं एतदत्रेराविष्कृतोदग्रतरप्रभावं॥१३.५०॥ अत्राभिषेकाय तपोधनानां सप्तर्शिहस्तोद्धृतहेमपद्मां। प्रवर्तयां आस किल्ऽ आनुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालां॥१३.५१॥ वीरासनैर्ध्यानजुषां ऋषीनां अमी समाध्यासितवेदिमध्याः। निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि॥१३.५२॥ त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः। राशिर्मणीनां इव गारुडानां सपद्मरागः फलितो विभाति॥१३.५३॥ क्वचित्प्रभा चान्द्रमसी तमोभिश्मुक्तामयी यष्टिरिवानुविद्धा। अन्यत्र माला सितपङ्कजानां इन्दीवरैरुत्खचितान्तरेव॥१३.५४॥ क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव। अन्यत्र शुभ्रा शरदभ्रलेखा भक्तिर्भुवश्चन्दनकल्पितेव॥१३.५५॥ क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव। अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा॥१३.५६॥ क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य। पश्यानवद्याङ्गि विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः॥१३.५७॥ तमिस्रया शुभ्रनिशेव भिन्ना कुन्दस्रगिन्दीवरमालयेव। कृत्तिर्हरेः कृष्णमृगत्वचेव भूतिः स्मरारेरिव कण्ठभासा॥१३.५७आ॥ दृश्यार्धया शारदमेघलेखा निर्धूतनिस्त्रिंशरुचा विशेव। गवाक्षकालागुरुधूमराज्या हर्म्यस्थलीलेपसुधा नवेव॥१३.५७भ्॥ तुषारसंघातशिला हिमाद्रेर्जात्याञ्जनप्रस्तरशोभयेव। पतत्रिणां मनसगोचराणां ठ्श्रेणीव कादम्बविहंगपङ्क्त्या॥१३.५७C॥ नितान्तशुद्धस्फुटिकाशयोगाद्वैडूर्यकान्त्या रशनावलीव। गङ्गा रवेरात्मजया समेता पुष्प्यत्युदारं परभागलेखा॥१३.५७ढ्॥ समुद्रपत्न्योर्जलसंनिपाते पूतात्मनां अत्र किलाभिषेकाथ्। तत्त्वावबोधेन विनापि भूयस्तनुत्यजां नास्ति शरीरबन्धः॥१३.५८॥ पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय। जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति॥१३.५९॥ पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः। ब्राह्मं सरः कारणं आप्तवाचो बुद्धेरिवाव्यक्तं उदाहरन्ति॥१३.६०॥ जलानि या तीरनिखातयूपा वहत्ययोध्यां अनु राजधानीं। तुरंगमेधावभृतवतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि॥१३.६१॥ यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां। सामान्यधात्रीं इव मानसं मे संभावयत्युत्तरकोसलानां॥१३.६२॥ सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूर्वियुक्ता। दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव॥१३.६३॥ विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवं उज्जिहीते। शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः॥१३.६४॥ अद्धा श्रियं पालितसंगराय प्रत्यर्पयिष्यत्यनघां स साधुः। हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वां इव लक्ष्मणो मे॥१३.६५॥ असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः। वृद्धैरमात्यैः सह चीरवासा मां अर्घ्यपाणिर्भरतोऽभ्युपैति॥१३.६६॥ पित्रा निसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतां अभोक्ता। इयन्ति वर्षाणि तया सहोग्रं अभ्यस्यतीव व्रतं आसिधारं॥१३.६७॥ एतावदुक्तवति दाशरथौ तदीयां इच्छां विमानं अधिदेवतया विदित्वा। द्योतिष्पथादवततार सविस्मयाभिरुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः॥१३.६८॥ तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः। यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः॥१३.६९॥ इक्ष्वाकुवंशगुरवे प्रयतः प्रणम्य स भ्रातरं भरतं अर्घ्यपरिग्रहान्ते। पर्यश्रुरस्वजत मूर्धनि चोपजघ्रौ तद्भक्त्यपोढपितृराह्यमहाभिषेके॥१३.७०॥ श्मश्रुप्रवृद्धिजनिताननविक्रियांश्च प्लक्षान्प्ररोहजटिलानिव मन्त्रिवृद्धान्। अन्वग्रहीत्प्रणमतः शुभदृष्टिपातैर्वार्त्तानुयोगमधुराक्षरया च वाचा॥१३.७१॥ दुर्जातबन्धुरयं ऋक्षहरीश्वरो मे पौलस्त्य एष समरेषु पुरः प्रहर्ता। इत्यादृतेन कथितौ रघुनन्दनेन व्युत्क्रम्य लक्ष्मणं उभौ भरतो ववन्दे॥१३.७२॥ स्ॐइत्रिणा तदनु संससृजे स चैनं उत्थाप्य नम्रशिरसं भृशं आलिनिङ्ग। रूढेन्द्रजित्प्रहरणव्रणकर्कशेन क्लिश्यन्निवास्य भुजमध्यं उरःस्थलेन॥१३.७३॥ रामाज्ञया हरिचमूपतयस्तदानीं कृत्वा मनुष्यवपुरारुरुहुर्गजेन्द्रान्। तेषु क्षरत्सु बहुधा मदवारिधाराः शैलाधिरोहणसुखान्युपलेभिरे ते॥१३.७४॥ सानुप्लवः प्रभुरपि क्षणदाचराणां भेजे रथान्दशरथप्रभवानुशिष्टः। मायाविकल्परचितैरपि ये तदीयैर्न स्यन्दनैस्तुलितकृत्रिमभक्तिशोभाः॥१३.७५॥ भूयस्ततो रघुपतिर्विलसत्पताकं अध्यास्त कामगति सावरजो विमानं। दोषातनं बुधबृहस्पतियोगदृश्यस्तारापतिस्तरलविद्युदिव्ऽआभ्रवृन्दं॥१३.७६॥ तत्रेश्वरेण जगतां प्रलयादिवोर्वीं वर्षात्ययेन रुचं अभ्रघनादिवेन्दोः। रामेण मैथिलसुतां दशकण्ठकृच्छ्रात्प्रत्युद्धृतां धृतिमतीं भरतो ववन्दे॥१३.७७॥ लङ्केश्वरप्रणतिभङ्गदृढव्रतं तद्(?) वन्द्यं युगं चरणयोर्जनकात्मजायाः। ज्येष्ठानुवृत्तिजटिलं च शिरोऽस्य साधोरन्योन्यपावनं अभूदुभयं समेत्य॥१३.७८ क्रोशार्धं प्रकृतिपुरःसरेण गत्वा काकुत्स्थः स्तिमितजवेन पुष्पकेण। शत्रुघ्नप्रतिविहितोपकार्यं आर्यः साकेतोपवनं उदारं अध्युवास॥१३.७९॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये साकेतप्रत्यागमनो नाम त्रयोदशः सर्गः॥

    चतुर्दशः सर्गः

    उत्तिष्ठ वत्से ननु सानुजोऽसौ दशान्तरं तत्र समं प्रपन्ने। अपश्यतां दाशरथी जनन्यौ छेदादिवोपघ्नतरोर्व्रतत्यौ॥१४.१॥ उभावुभाभ्यां प्रणतौ हतारी यथाक्रमं विक्रमशोभिनौ तौ। विस्पष्टं अस्रान्धतया न दृष्टौ ज्ञातौ सुतस्पर्शसुखोपलम्भाथ्॥१४.२॥ आनन्दजः शोकजं अश्रु बाष्पस्तयोरशीतं शिशिरो बिभेद। गङ्गासरय्वोर्जलं उष्णत्पतं हिमाद्रिनिस्यन्द इवावतीर्णः॥१४.३॥ ते पुत्रयोर्नैरृतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ। अपीप्सितं क्षत्रकुलाङ्गनानां न वीरसूशब्दं अकामयेतां॥१४.४॥ क्लेशावहा भर्तुरलक्षणाहं सीतेति नाम स्वं उदीरयन्ती। स्वर्गप्रतिष्ठस्य गुरोर्महिष्यावभक्तिभेदेन वधूर्ववन्दे॥१४.५॥ उत्तिष्ठ वत्से ननु सानुजोऽसौ वृत्तेन भर्ता शुचिना तवैव। कृच्छ्रं महत्तीर्ण इति प्रियार्हां तां ऊचतुस्ते प्रियं अप्यमिथ्या॥१४.६॥ अथाभिषेकं रघुवंशकेतोः प्रारब्धं आनन्दजलैर्जनन्योः। निर्वर्तयां आसुरमात्यवृद्धास्तीर्थाहृतैः काञ्चनकुम्भतोयैः॥१४.७॥ सरित्समुद्रान्सरसीश्च गत्वा रक्षःकपीन्द्रैरुपपादितानि। तस्यापतन्मूर्ध्नि जलानि जिष्णोर्विन्ध्यस्य मेघप्रभवा इवापः॥१४.८॥ तपस्विवेषक्रिययापि तावद्यः प्रेक्षणीयः सुतरां बभूव। राजेन्द्रनेपथ्यविधानशोभा रस्योदितासीत्पुनरुक्तदोषा॥१४.९॥ स मौलरक्षोहरिमिश्रसैन्यस्तूर्यस्वनानन्दितपौरवर्गः। विवेष सौधोद्गतलाजवर्षां उत्तोरणां अन्वयराजधानीं॥१४.१०॥ स्ॐइत्रिणा सावरजेन मन्दं आधूतवालव्यजनो रथस्थः। धृतातपत्रो भरतेन साक्षादुपायसंघात इव प्रवृद्धः॥१४.११॥ प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन भिन्ना। वनान्निवृत्तेन रघूद्वहेन मुक्ता स्वयं वेणिरिवाभासे॥१४.१२॥ श्वश्रूजनानुष्ठितचारुवेषां कर्णीरथस्थां रघुवीरपत्नीं। प्रासादवातायनदृश्यबन्धैः साकेतनार्योऽञ्जलिभिः प्रणेमुः॥१४.१३॥ स्फुरत्प्रभामण्डलं आनुसूयं सा बिभ्रती शाश्वतं अङ्गरागं। रराज शुद्धेति पुनः स्वपुर्यै संदर्शित वह्निगतेव भर्त्रा॥१४.१४॥ वेश्मानि रामः परिबर्हवन्ति विश्राण्य सौहार्धनिधिः सुहृद्ब्यः। बाष्पायमाणो बलिमन्निकेतं आलेख्यशेषस्य पितुर्विवेश॥१४.१५॥ कृताञ्जलिस्तत्र यदम्ब सत्यान्नाभ्रश्यत स्वर्गफलाद्गुरुर्नः। तच्चिन्त्यमानं सुकृतं तवेति जहार लज्जां भरतस्य मातुः॥१४.१६॥ तथा च सुग्रीवविभीशणादीनुपाचरत्कृत्रिमसंविधाभिः। संकल्पमात्रोदितसिद्धयस्ते क्रान्ता यथा चेतसि विस्मयेन॥१४.१७॥ सभाजनायोपगतान्स दिव्यान्मुनीन्पुरस्कृत्य हतस्य शत्रोः। शुश्राव तेभ्यः प्रभवादि वृत्तं स्वविक्रमे गौरवं आदधानं॥१४.१८॥ प्रतिप्रयातेषु तपोधनेषु सुखादविज्ञातगतार्धमासान्। सीतास्वहस्तोपहृताग्र्यपूजान्रक्षःकपीन्द्रान्विससर्ज रामः॥१४.१९॥ तच्चात्मचिन्तासुलभं विमानं हृतं सुरारेः सह जीवितेन। कैलासनाथोद्वहनाय भूयः पुष्पं दिवः पुष्पकं अन्वमंस्त॥१४.२०॥ पितुर्नियोगाद्वनवासं एवं निस्तीर्य रामः प्रतिपन्नराज्यः। धर्मार्थकामेषु समां प्रपेदे यथा तथैवावरजेषु वृत्तिं॥१४.२१॥ सर्वासु मातृष्वपि वत्सलत्वात्स निर्विशेषप्रतिपत्तिरासीथ्। षडाननापीतपयोधरासु नेता चमूनां इव कृत्तिकासु॥१४.२२॥ तेनार्थवांल्लोभपराङ्मुखेन तेन घ्नता विघ्नभयं क्रियावान्। तेनास लोकः पितृमान्विनेत्रा तेनैव शोकापनुदेन पुत्री॥१४.२३॥ स पौरकार्याणि समीक्ष्य काले रेमे विदेहाधिपतेर्दुहित्रा। उपस्थितश्चारु वपुस्तदीयं कृत्वोपभोगोत्सुकयेव लक्ष्म्या॥१४.२४॥ तयोर्यथाप्रार्थितं इन्द्रियार्थानासेदुषोः सद्मसु चित्रवत्सु। प्राप्तानि दुःखान्यपि दण्डकेषु संचिन्त्यमानानि सुखान्यभूवन्॥१४.२५॥ अथाधिकस्निग्धविलोचनेन मुखेन सीता शरपाण्डुरेण। आनन्दयित्री परिणेतुरासीदनक्षरव्यञ्जितदोहदेन॥१४.२६॥ तां अङ्कं आरोप्य कृशाङ्गयष्टिं वर्णान्तराक्रान्तपयोधराग्रां। विलज्जमानां रहसि प्रतीतः प्रप्रच्छ रामां रमणोऽभिलाषं॥१४.२७॥ सा दष्टनीवारबलीनिहिंस्रैः संबद्ध वैखानसकन्यकानि। इयेष भूयः कुशवन्ति गन्तुं भागीरथीतीरतपोवनानि॥१४.२८॥ तस्यै प्रतिश्रुत्य रघुप्रवीरस्तद्(?) ईप्सितं पार्श्वचरानुयातः। आलोकयिष्यन्मुदितां अयोध्यां प्रासादं अभ्रंलिहं आरुरोह॥१४.२९॥ ऋद्धापणं राजपथं स पश्यन्विगाह्यमानां सरयूं च नौभिः। विलासिभिश्चाध्युषितानि पौरैः पुरोपकण्ठोपवनानि रेमे॥१४.३०॥ स किंवदन्तीं वदतां पुरोगः स्वऋत्तं उद्दिश्य विशुद्धवृत्तः। सर्पाधिराजोरुभुजोऽपसर्पं पप्रच्छ भद्रं विजितारिभद्रः॥१४.३१॥ निर्बन्धपृष्टः स जगाद सर्वं स्तुवन्ति पौराश्चरितं त्वदीयं। अन्यत्र रक्षोभवनोषितायाः परिग्रहान्मानवदेव देव्याः॥१४.३२॥ कलत्रनिन्दागुरुणा किलैवं अभ्याहतं कीर्तिविपर्ययेण। अयोघनेनाय इवाभितप्तं वैदेहिबन्धोर्हृदयं विदद्रे॥१४.३३॥ किं आत्मनिर्वादकथां उपेक्षे जायां अदोषां उत संत्यजामि। इत्येकपक्षाश्रयविक्लवत्वादासीत्स दोलाचलचित्तवृत्तिः॥१४.३४॥ निश्चित्य चानन्यनिवृत्ति वाच्यं त्यागेन पत्न्याः परिमार्ष्टुं ऐच्छथ्। अपि स्वदेहात्किं उतेन्द्रियार्थाद्यशोधनानां हि यशो गरीयः॥१४.३५॥ स संनिपात्यावरजान्हतौजास्तद्विक्रियादर्शनलुप्तहर्षान्। कौलीनं आत्माश्रयं आचचक्षे तेभ्यः पुनश्चेदं उवाच वाक्यं॥१४.३६॥ राजर्षिवंशस्य रविप्रसूतेरुपस्थितः पश्यत कीदृशोऽयं। मत्तः सदाचारशुचेः कलङ्कः पयोदवातादिव दर्पणस्य॥१४.३७॥ पौरेषु सोऽहं वहुलीभवन्तं अपां तरङ्गेष्विव तैलबिन्दुं। सोढुं न तत्पूर्वं अवर्णं ईशे आलानिकं स्थाणुं इव द्विएपेन्द्रः॥१४.३८॥ तस्यापनोदाय फलप्रवृत्तावुपस्थितायां अपि निर्व्यपेक्षः। त्यक्ष्यामि वैदेहसुतां पुरस्तात्समुद्रनेमिं पितुराज्ञयेव॥१४.३९॥ अवैमि चैनां अनघेति किं तु लोकापवादो बलवान्मतो मे। छाया हि भूमेः शशिनो मलत्वेनारोपिता शुद्धिमतः प्रजाभिः॥१४.४०॥ रक्षोवधान्तो न च मे प्रयासो व्यर्थः स वैरप्रतिमोचनाय। अमर्षणः शोणितकाङ्क्षया किं पदा स्पृशन्तं दशति द्विजिह्वः॥१४.४१॥ तदेष सर्गः करुणार्द्रचित्तैर्न मे भवद्भिः प्रतिषेधनीयः। यद्यर्थिता निर्हृतवाच्यशल्यान्प्राणान्मया धारयितुं चिरं वः॥१४.४२॥ इत्युक्तवन्तं जनकात्मजायां नितान्तरूक्षाभिनिवेशं ईशं। न कश्चन भ्रातृषु तेषु शक्तो निषेद्धुं आसीदनुवर्तितुं वा॥१४.४३॥ स लक्ष्मणं लक्ष्मणपूर्वजन्मा विलोक्य लोकत्रयगीतकीर्तिः। स्ॐयेति चाभाष्य यथार्थभाषी स्थितं निदेशे पृथगादिदेश॥१४.४४॥ प्रजावती दोहदशंसिनी ते तपोवनेषु स्पृहयालुरेव। स्ॐयेति चाभाष्य यथार्थभाषी प्रापय्य वाल्मीकिपदं त्यजैनां॥१४.४५॥ स शुश्रुवान्मातरि भार्गवेण पितुर्नियोगात्प्रहृतं द्विषद्वथ्। प्रत्यग्रहीदग्रजशासनं तदाज्ञा गुरूणां ह्यविचारणीया॥१४.४६॥ अथानुकूलश्रवणप्रतीतां अत्रस्नुभिर्युक्तधुरं तुरंगैः। रथं सुमन्त्र प्रतिपन्नरश्मिं आरोप्य वैदेहसुतां प्रतस्थे॥१४.४७॥ सा नीयमाना रुचिरान्प्रदेशान्प्रियंकरो मे प्रिय इत्यनन्दथ्। नाबुद्ध कल्पद्रुमतां विहाय जातं तं आत्मन्यसिपत्त्रवृक्षं॥१४.४८॥ जुगूह तस्याः पथि लक्ष्मणो यत्सव्येतरेण स्फुरता तदक्ष्णा। आख्यातं अस्यै गुरु भावि दुःखं अत्यन्तलुप्तप्रियदर्शनेन॥१४.४९॥ सा दुर्निमित्तोपगताद्विषादात्सद्यः परिम्लानमुखारविन्दा। राज्ञः शिवं सावरजस्य भूयादित्याशशंसे करणैरबाह्यैः॥१४.५०॥ गुरोर्नियोगाद्वनितां वनान्ते साध्वीं सुमित्रातनयो विहास्यन्। अवार्यतेवोत्थितवीचिहस्तैर्जह्नोर्दुहित्रा शितया पुरस्ताथ्॥१४.५१॥ रथात्स यन्त्रा निगृहीतवाहात्तां भ्रातृह्यायां पुलिनेऽवतार्य। गङ्गां निषादाहृतनौविशेषस्ततार संधां इव सत्यसंधः॥१४.५२॥ अथ व्यवस्थापितवाक्कथंचित्स्ॐइत्रिरन्तर्गतबाष्पकण्ठः। औत्पातिको मेघ इवाश्मवर्षं महीपतेः शासनं उज्जगार॥१४.५३॥ ततोऽभिषङ्गानिलविप्रविद्धा प्रभ्रश्यमानाभरणस्प्रसूना। स्वमूर्तिलाभप्रकृतिं धरित्रीं लतेव सीता सहसा जगाम॥१४.५४॥ इक्ष्वाकुवंशप्रभवः कथं त्वां त्यजेदकस्मात्पतिरार्यवृत्तः। इति क्षितिः संशयितेव तस्यै ददौ प्रवेशं जननी न तावथ्॥१४.५५॥ सा लुप्तसंज्ञा न विवेद दुःखं प्रत्यागतासुः समतप्यतान्तः। तस्याः सुमित्रात्मजयत्नलब्धो मोहादभूत्कष्टतरः प्रबोधः॥१४.५६॥ न चावदद्भर्तुरवर्णं आर्या निराकरिष्णोर्वृजिनादृतेऽपि। आत्मानं एव स्थिरदुःखबाजं पुनः पुनर्दुष्कृतिनं निनिन्द॥१४.५७॥ आश्वास्य रामावरजः सतीं तां आख्यातवाल्मीकिनिकेतमार्गः। निघ्नस्य मे भर्तृनिदेशरौक्ष्यं देवि क्षमस्वेति बभूव नम्रः॥१४.५८॥ सीता समुत्थाप्य जगाद वाक्यं प्रीतास्मि ते स्ॐयचिराय जीव। विडौजसा विष्णुरिवाग्रजेन भ्रात्रा यदित्थं परवानसि त्वं॥१४.५९॥ श्वश्रूजनं सर्वं अनुक्रमेण विज्ञापय प्रापितमत्प्रणामः। प्रजानिशेकं मयि वर्तमानं सूनोरनुध्यायत चेतसेति॥१४.६०॥ वाच्यस्त्वया मद्वचनात्स राजा वह्नौ विशुद्धां अपि यत्समक्षं। मां लोकवादश्रवणादहासीः श्रुतस्य किं तत्सदृशं कुलस्य॥१४.६१॥ कल्याणबुद्धेरथ वा तवायं न कामचारो मयि शङ्कनीयः। ममैव जन्मान्तरपातकानां विपाकविस्फूर्जथुरप्रसह्यः॥१४.६२॥ उपस्थितां पूर्वं अपास्य लक्ष्मीं वनं मया सार्धं असि प्रपन्नः। तदास्पदं प्राप्य तयातिरोषात्सोढास्मि न त्वद्भवने वसन्ती॥१४.६३॥ निशाचरोपप्लुतभर्तृकाणां तपस्विनीनां भवतः प्रसादाथ्। भूत्वा शरण्या शरणार्थं अन्यां कथं प्रपत्स्ये त्वयि दीप्यमाने॥१४.६४॥ किं वा तवात्यन्तवियोगमोघे कुर्यां उपेक्षां हतजीवितेऽस्मिन्। स्याद्रक्षणीयं यदि मे न तेजस्त्वदीयं अन्तर्गतं अन्तरायः॥१४.६५॥ साहं तपः सूर्यनिविष्टदृष्टिरूर्ध्वं प्रसूतेस्चरितुं यतिष्ये। तथा यथा मे जननान्तरेऽपि त्वं एव भर्ता न च विप्रयोगः॥१४.६६॥ नृपस्य वर्णाश्रमरक्षणं यत्स एव धर्मो मनुना प्रणीतः। निर्वासिताप्येवं अतस्त्वयाहं तपस्विसामान्यं अवेक्षणीया॥१४.६७॥ तथेति तस्याः प्रतिगृह्य वाचं रामानुजे दृश्टिपथं व्यतीते। सा मुक्तकण्ठं व्यसनातिभाराच्चक्रन्द विग्ना कुररीव भूयः॥१४.६८॥ नृत्यं मयूराः कुसुमानि वृक्षा दर्भानुपात्तान्विजहुर्हरिण्यः। तस्याः प्रपन्ने समदुःखभावं अत्यन्तं आसीद्रुदितं वनेऽपि॥१४.६९॥ तां अभ्यगच्छद्रुदितानुसारी कविः कुशेध्माहरणाय यातः। निषादविद्धाण्डजदर्शनोत्थः श्लोकत्वं आपद्यत यस्य शोकः॥१४.७०॥ तं अश्रु नेत्रावरणं प्रमृज्य सीता विलापाद्विरता ववन्दे। तस्यै मुनिर्दोहदलिङ्गदर्शी दाश्वान्सुपुर्त्राशिषं इत्युवाच॥१४.७१॥ जाने विषृश्टां प्रणिधानतस्त्वां मिथ्यापवादक्षुभितेन भर्त्रा। तन्मा व्यथिष्ठा विषयान्तरस्थं प्राप्तासि वैदेहि पितुर्निकेतं॥१४.७२॥ उथ्कातलोकत्रयकण्टकेऽपि सत्यप्रतिज्ञेऽप्यविकत्थनेऽपि। त्वां प्रत्यकस्मात्कलुषप्रवृत्तावस्त्येव मन्युर्भरताग्रजे मे॥१४.७३॥ तवेन्दुकीर्तिः श्वशुरः सखा मे सतां भवोच्छेदकरः पिता ते। धुरि स्थिता त्वं पतिदेवतानां किं तन्न येनासि ममानुकम्प्या॥१४.७४॥ तपस्विसंसर्गविनितत्सत्त्वे तपोवने वीतभया वसास्मिन्। इतो भविष्यत्यनघप्रसूतेरपत्यसंस्कारमयो विधिस्ते॥१४.७५॥ अशून्यतीरां मुनिसंनिवेशैस्तमोऽपहन्त्रीं तमसां विगाह्य। तत्सैकतोत्सङ्गबलिक्रियाभिः संपत्स्यते ते मनसः प्रसादः॥१४.७६॥ पुष्पं फलं चार्तवं आहरन्त्यो बीजं च बालेयं अकृष्टरोहि। विनोदयिष्यन्ति नवाभिषङ्गां उदारवाचो मुनिकन्यकास्त्वां॥१४.७७॥ पयोघटैराश्रमबालवृक्षान्संवर्धयन्ती स्वबलानुरूपैः। असंशयं प्राक्तनयोपपत्तेः स्तनंधयप्रीतिं अवाप्स्यसि त्वं॥१४.७८॥ अनुग्रहप्रत्यभिनन्दिनीं तां वाल्मीकिरादाय दयार्द्रचेताः। सायं मृगाध्यासितवेदिपार्श्वं स्वं आश्रमं शान्तमृगं निनाय॥१४.७९॥ तां अर्पयां आस च शोकदीनां तदागमप्रीतिषु तापसीषु। निर्विष्टसारां पितृभिर्हिमांशोरन्त्यां कलां दर्श इवौषधीषु॥१४.८०॥ ता इङ्गुदीस्नेहकृतप्रदीपं आस्तीर्णमेध्याजिनतल्पं अन्तः। तस्यै सपर्यानुपदं दिनान्ते निवासहेतोरुटजं वितेरुः॥१४.८१॥ तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः। वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार॥१४.८२॥ अपि प्रभुः सानुशयोऽधुना स्यात्किं उत्सुकः शक्रजितोऽपि हन्ता। शशंस सीतापरिदेवनान्तं अनुष्ठितं शासनं अग्रजाय॥१४.८३॥ बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः। कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः॥१४.८४॥ निगृह्य शोकं स्वयं एव धीमान्वर्णाश्रमावेक्षणजागरूकः। स भ्रातृसाधारणभोगं ऋद्धं राज्यं रजोरिक्तमनाः शशास॥१४.८५॥ तां एकभार्यां परिवादभीरोः साध्वीं अपि त्यक्तवतो नृपस्य। वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः॥१४.८६ सीतां हित्वा दशमुखरिपुर्नोपयेम यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार। वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथं अपि परित्यागदुःखं विषेहे॥१४.८७॥ ॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये सीतापरित्यागो नाम चतुर्दशः सर्गः॥

    पञ्चदशः सर्गः

    कृतसीतापरित्यागः स रत्नाकरमेखलाम्। बुभूजे पृथिवीपालः पृथिवीं एव केवलाम्।। १५.१॥ लवणेन विलुप्तेज्यास्तामिस्रेण तं अभ्ययुः। मुनयो यमुनाभाजः शरण्यं शरणार्थिनः।। १५.२॥ अवेक्ष्य रामं ते तस्मिन्न प्रजह्रुः स्वतेजसा। त्राणाभावे हि शापास्त्राः कुर्वन्ति तपसो व्ययं।। १५.३॥ प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियां। धर्मसंरक्षणायैव प्रवृत्तिर्भुवि शार्ङ्गिणः।। १५.४॥ ते रामाय वधोपायं आचख्युर्विबुधविषः। दुर्जयो लवणः शूली विशूलः प्रार्थ्यतां इति।। १५.५॥ आदिदेशाथ शत्रुघ्नं तेषां क्षेमाय राघवः। करिष्यन्निव नामास्य यथार्थं अरिनिग्रहाथ्।। १५.६॥ यः कश्चन रघूणां हि परं एकः परंतपः। अपवाद इवोत्सर्गं व्यावर्तयितुं ईश्वरः।। १५.७॥ अग्रजेन प्रयुक्ताशीस्तदा दाशरथी रथी। ययौ वन्स्तह्लिः पश्यन्पुष्पिताः सुरभीरभीः।। १५.८॥ रामादेशादनुपदं सेनाङ्गं तस्य सिद्धये। पश्चादध्ययनार्थस्य धातोरधिरिवाभवथ्।। १५.९॥ आदिष्टवर्त्मा मुनिभिः स गच्छंस्तपतां वरः। विरराज रथपृष्ठैर्वालखिल्यैरिवांशुमान्।। १५.१०॥ तस्य मार्गवशादेका बभूव वसतिर्यतः। रथस्वनोत्कण्ठमृगे वाल्मीकीये तपोवने।। १५.११॥ तं ऋषिः पूजयां आस कुमारं क्लान्तवाहनं। तपःप्रभावसिद्धाभिर्विशेषप्रतिपत्तिभिः।। १५.१२॥ तस्यां एवास्य यामिन्यां अन्तर्वत्नी प्रजावती। सुतावसूत संपन्नौ कोशदण्डाविव क्षितिः।। १५.१३॥ संतानश्रवणाद्भ्रातुः स्ॐइत्रिः स्ॐअनस्यवान्। प्राञ्जलिर्मुनिं आमन्त्र्य प्रातर्युक्तरथो ययौ।। १५.१४॥ स च प्राप मधूपघ्नं कुम्भीनस्याश्च कुक्षिजः। वनात्करं इवादाय सत्त्वराशिं उपस्थितः।। १५.१५॥ धूमधूम्रो वसाघन्धी ज्वालाबभ्रुशिरोरुहः। क्रव्याद्गणपरीवारश्चिताग्निरिव जङ्गमः।। १५.१६॥ अपशुलं तं आसाद्य लवणं लक्ष्मणानुजः। रुरोध संमुखीनो हि जयो रन्ध्रप्रहारिणां।। १५.१७॥ नातिपर्याप्तं आलक्ष्य मत्कुक्षेरद्य भोजनं। दिष्ट्या त्वं असि मे धात्रा भीग्तेनेवोपपादितः।। १५.१८॥ इति संतर्ज्य शत्रुघ्नं राक्षसस्तज्जिघांसया। प्रांशुं उत्पाटयां आस मुस्तास्तम्बं इव द्रुमं।। १५.१९॥ स्ॐइत्रेर्निशितैर्बाणैरन्तरा शकलीकृतः। गात्रं पुष्परजः प्राप न शाखी नैरृतेरितः।। १५.२०॥ विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलं। प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितं।। १५.२१॥ ऐन्द्रं अस्त्रं उपादाय शत्रुघ्नेन स ताडितः। सिकताभ्योऽपि हि परां प्रपेदे परमाणुतां।। १५.२२॥ दक्षिणं दोषं उद्यम्य राक्षसस्तं उपाद्रवथ्। एकताल इवोपातपवनप्रेरितो गिरिः।। १५.२३॥ कार्ष्नेन पत्त्रिना शत्रुः स भिन्नर्हृदयः पतन्। आनिनाय भुवः कम्पं जहाराश्रमवासिनां।। १५.२४॥ वयसां पङ्क्तयः पेतुर्हतस्योपरि रक्षसः। तत्प्रतिद्वन्दिनो मूर्ध्नि दिव्याः कुसुमवृष्टयः।। १५.२५॥ स हत्वा लवणं वीरस्तदा मेने महौजसः। भ्रातुः सोदर्यं आत्मानं इन्द्रजिद्वधशोभिनः।। १५.२६॥ तस्य संस्तूयमानस्य चरितार्थैस्तपस्विभिः। शुशुभे विक्रमोदग्रं व्रीडयावनतं शिरः।। १५.२७॥ उपकूलं स कालिन्द्याः पुरीं पौरुषभूषणः। निर्ममे निर्ममोऽर्थेषु मथुरां मधुराकृतिः।। १५.२८॥ या सौराज्यप्रकाशाभिर्बभौ पौरविभूतिभिः। स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशिता।। १५.२९॥ तत्र सौधगतः पश्यन्यमुनां चक्रवाकिनीं। हेम भक्तिमतीं भूमेः प्रवेणीं इव प्रिपिये।। १५.३०॥ सखा दशरथस्याथ जनकस्य च मन्त्रकृथ्। संचस्कारोभयप्रीत्या मैथिलेयौ यथाविधि।। १५.३१॥ स तौ कुशलवोन्मृष्टगर्भक्लेदौ तदाख्यया। कविः कुशलवावेव चकार किल नामतः।। १५.३२॥ साङ्गं च वेदं अध्याप्य किंचिदुत्क्रान्तशैशवौ। स्वकृतिं गापयां आस कविप्रथमपद्धतिं।। १५.३३॥ रामस्य मधुरं वृत्तं गायन्तौ मातुरग्रतः। तद्वियोगव्यथां किंचिच्छिथिलीचक्रतुः सुतौ।। १५.३४॥ इतरेऽपि रघोर्वंश्यास्त्रयस्त्रेताग्नितेजसः। तद्योगात्पतिवत्नीषु पत्नीष्वासन्द्विसूनवः।। १५.३५॥ शत्रुघातिनि शत्रुघ्नः सुबाहौ च बहुश्रुते। मथुराविदिशे सून्वोर्निदधे पूर्वजोत्सुकः।। १५.३६॥ भूयस्तपोव्ययो मा भूद्वाल्मीकेरिति सोऽत्यगाथ्। मैथिलीतनयोद्गीतनिष्पन्दमृगं आश्रमं।। १५.३७॥ वशी विवेश चायोध्यां रथ्यासंस्कारशोभिनीं। लवणस्य वधात्पौरैरतिगौरवं ईक्षितः।। १५.३८॥ स ददर्श सभामध्ये सभासद्भिरुपस्थितं। रामं सीतापरित्यागादसामण्यपतिं भुवः।। १५.३९॥ तं अभ्यनन्दत्प्रणतं लवणान्तकं अग्रजः। कालनेमिवधात्प्रीतस्तुराषाडिव शार्ङ्गिणं।। १५.४०॥ स पृष्टः सर्वतो वार्त्तां आख्याद्राज्ञे न संततिं। प्रत्यर्पयिष्यतः काले कवेराद्यस्य शासनाथ्।। १५.४१॥ अथ जानपदो विप्रः शिशुं अप्राप्तयौवनं। अवतार्य्ऽ आङ्कशय्यास्थं द्वारि चक्रन्द भूपतेः।। १५.४२॥ शोचनीयासि वसुधे या त्वं दशरथाच्च्युता। रामहस्तं अनुप्राप्य कष्टात्कष्टतरं गता।। १५.४३॥ श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्राय राघवः। न ह्यकालभवो मृत्युरिक्ष्वाकुपदं अस्पृशथ्।। १५.४४॥ स मुहूर्तं सहस्वेति द्विजं आश्वास्य दुःखितं। यानं सस्मार कौबेरं वैवस्वतजिगीषया।। १५.४५॥ आत्तशस्त्रस्तदध्यास्य प्रतिस्थः स रघूद्वहः। उच्चचार पुरस्तस्य गूढरूपा सरस्वती।। १५.४६॥ राजन्प्रजासु ते कश्चिदपचारः प्रवर्तते। तं अन्विष्य प्रशमयेर्भवितासि ततः कृती।। १५.४७॥ इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियां। दिशः पपात पत्त्रेण वेगनिष्कम्पकेतुना।। १५.४८॥ अथ धूमाभिताम्राक्षं वृक्षाखावलम्बिनं। ददर्श कंचिदैक्श्वाकस्तपस्यन्तं अध्ॐउखं।। १५.४९॥ पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः। आत्मानं शम्बुकं नाम शूद्रं सुरपदार्थिनं।। १५.५०॥ तपस्यनधिकारित्वात्प्रजानां तं अघावहं। शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे।। १५.५१॥ स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं इव पङ्कजं। ज्योतिष्कणाहतश्मश्रु कण्ठनालादपाहरथ्।। १५.५२॥ कृतण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिं। तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना।। १५.५३॥ रघुनाथोऽप्यगस्त्येन मार्गसंदर्शितात्मना। महौजसा संयुयुजे शरत्काल इवेन्दुना।। १५.५४॥ कुम्भयोनिरलंकारं तस्मै दिव्यपरिग्रहं। ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयं।। १५.५५॥ तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना। पश्चान्निववृते रामः प्राक्परासुर्द्विजात्मजः।। १५.५६॥ तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः। स्तुत्या निवर्तयां आस त्रातुर्वैवस्वतादपि।। १५.५७॥ तं अध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः। मेघाः सस्यं इवाम्भोभिरभ्यवर्षन्नुपायनैः।। १५.५८॥ दिग्भ्यो निमन्त्रिताश्चैनं अभिजग्मुर्महर्षयः। न भ्ॐआन्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि।। १५.५९॥ उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ। अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः।। १५.६०॥ श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः। अनन्यहानेः तस्यासीत्सैव जाया हिरण्मयी।। १५.६१॥ विधेरधिकसंभारस्ततः प्रववृते मखः। आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः।। १५.६२॥ अथ प्राचेतसोपज्ञं रामायणं इतस्ततः। मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ।। १५.६३॥ वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किंनरस्वनौ। किं तद्येन मनो हर्तुं अलं स्यातां न शृण्वतां।। १५.६४॥ रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितं। ददर्श सानुजो रामः शुश्राव च कुतूहली।। १५.६५॥ तद्गीतश्रवणैकाग्रा संसदश्रुमुखी बभौ। हिमनिस्यन्दिनी प्रातर्निवाग्तेव वनस्थली।। १५.६६॥ वयोवेषविसंवादि रामस्य च तयोश्च सा। जनता प्रेक्ष्य सादृश्यं नाक्शिकम्पं व्यतिष्ठत।। १५.६७॥ उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये। नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा।। १५.६८॥ गेये केन विनीतौ वां कस्य चेयं कवेः कृतिः। इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिं अशंसतां।। १५.६९॥ अथ सावरजो रामः प्राचेतसं उपेयिवान्। उरिक्र्त्यात्मनो देहं राज्यं अस्मै न्यवेदयथ्।। १५.७०॥ स तावाख्याय रामाय मैथिलेयौ तदात्मजौ। कविः कारुणिको वव्रे सीतायाः संपरिग्रहं।। १५.७१॥ तात शुद्धा समक्षं नः स्नुषा ते जातवेदसि। दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः।। १५.७२॥ ताः स्वचारित्रं उद्दिश्य प्रत्याययतु मैथिली। ततः पुत्रवतीं एनां प्रतिपत्स्ये तदाज्ञया।। १५.७३॥ इति प्रतिश्रुते राज्ञा जानकीं आस्रमान्मुनिः। शिष्यैरानाययां आस स्वसिद्धिं नियमैरिव।। १५.७४॥ अन्येद्युरथ काकुत्स्थः संनिपात्य पुरौकसः। कविं आह्वाययां आस प्रस्तुतप्रतिपत्तये।। १५.७५॥ स्वरसंस्कारवत्येव पुत्राभ्यां सह सीतया। ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः।। १५.७६॥ काषायपरिवीतेन स्वपदार्पितचक्षुषा। कविं आह्वाययां आस शान्तेन वपुषैव सा।। १५.७७॥ जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः। तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव सालयः।। १५.७८॥ तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः। कुरु निःसंशयं वत्से स्ववृत्ते लोकं इत्यशाथ्।। १५.७९॥ अथ वाल्मीक्शिष्येण पुण्यं आवर्जितं पयः। आचम्योदीरयां आस सीता सत्यां सरस्वतीं।। १५.८०॥ वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे। तथा विश्वंभरे देवि मां अन्तर्धातुं अर्हसि।। १५.८१॥ एवं उक्ते तया साध्व्या रन्ध्रात्सद्योभवाद्भुवः। शातह्रदं इव ज्योतिः प्रभामण्डलं उद्ययौ।। १५.८२॥ तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी। समुद्ररशना साक्षात्प्रादुरासीद्वसुंधरा।। १५.८३॥ सा सीतां अङ्कं आरोप्य भर्तरि प्रहितेक्षणां। मा मेति व्याहरत्येव तस्मिन्पातालं अभ्यगाथ्।। १५.८४॥ धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणैः। गुरुर्विधिबलापेक्षी शमयां आस धन्विनः।। १५.८५॥ ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान्। रामः सीतागतं स्नेहं निदधे तदपत्ययोः।। १५.८६॥ युधाजितस्तु संदेशात्स देश सिन्धुनामकं। ददौ दत्तप्रभावाय भरताय धृतप्रजः।। १५.८७॥ भरतस्तत्र गन्धर्वान्युधि निजित्य केवलं। आतोद्यं ग्राहयां आस समत्याजयदायुधं।। १५.८८॥ स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः। अभिषिच्याभिषेकार्हौ रामान्तिकं अगात्पुनः।। १५.८९॥ अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसंभवौ। शासनाद्रघुनाथस्य चक्रे कारापथेशावरौ।। १५.९०॥ इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः। भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमाथ्।। १५.९१॥ उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवं। रहःसंवादिनौ पास्येदावां यस्तं त्यजेरिति।। १५.९२॥ तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः। आचख्यौ दिवं अध्यास्व शासनात्परमेष्ठिनः।। १५.९३॥ विद्वानपि तयोर्द्वाःस्तहः समयं लक्ष्मणोऽभिनथ्। भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः।। १५.९४॥ स गत्वा सरयूतीरं देहत्यागेन योगविथ्। चकार वितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः।। १५.९५॥ तस्मिन्नात्मचतुर्भागे प्राङ्नाकं अधितस्थुषि। राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव।। १५.९६॥ स निवेश्य कुशावत्यां रिपुनागाङ्कुषं कुशं। शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवं।। १५.९७॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः। अन्वितः पतिवात्सल्याद्गृहवर्जं अयोध्यया।। १५.९८॥ जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः। कदम्बमुकुलस्थूलैरभिवृष्टं प्रजाश्रुभिः।। १५.९९॥ उपस्थितविमानेन तेन भक्तानुकम्पिना। चक्रे त्रिदिवनिःष्रेणिः सरयूरनुयायिनां।। १५.१००॥ यद्गोप्रतरकल्पोऽभुत्संमर्दस्तत्र मज्जतां। अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे।। १५.१०१॥ स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु। त्रिदशीभूतपौराणां स्वर्गान्तरं अकल्पयथ्।। १५.१०२॥ निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां विष्वक्सेनः स्वतनुं अविशत्सर्वलोकप्रतिष्ठाम्। लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा कीर्तिस्तम्भद्वयं इव गिरौ दक्षिणे चोत्तरे च।। १५.१०३॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये रामस्वर्गारोहणो नाम पञ्चदशः सर्गः॥

    षोडशः सर्गः

    अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया जुणैश्च। चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रं एषां हि कुलानुसारि॥ १६.१॥ ते सेतुवार्त्तागजबन्धमुख्यैरभ्युच्छ्रिताः कर्मभिरप्यवन्ध्यैः। अन्योन्यदेशप्रविभागसीमां वेलां समुद्रा इव न व्यतीयुः॥ १६.२॥ चतुर्भुजांशप्रभवः स तेषां दानप्रवृत्तेरनुपारतानां। सुरद्विपानां इव सामयोनिर्भिन्नोऽष्ठदा विप्रससार वंशः॥ १६.३॥ अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः। कुशः प्रवासस्थकलत्रवेषां अदृष्टपूर्वां वनितां अपश्यथ्॥ १६.४॥ सा साधुसाधारणपार्थिवर्द्धेः स्थित्वा पुरस्तात्पुरुहूतभासः। जेतुः परेषां जयशब्दपूर्वं तस्याञ्जलिं बन्धुमतो बबन्ध॥ १६.५॥ अथानुपोढार्गलं अप्यगारं छायां इवादर्शतलं प्रविष्टां। सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धविषृटतल्पः॥ १६.६॥ लभ्दान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते। बिभर्षि चाकारं अनिर्वृतानां मृणालिनी हैमं इवोपरागं॥ १६.७॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते। आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति॥ १६.८॥ तं अब्रवीत्सा गुरुणा नवद्या या नीतपौरा स्वपदोन्मुखेन। तस्याः पुरः संप्रति वीतनाथां जानीहि राजन्नधिदेवतां मां॥ १६.९॥ वसौकसारां अभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या। समग्रशक्तौ त्वयि सूर्यवंष्ये सति प्रपन्ना करुणां अवस्थां॥ १६.१०॥ विशीर्णतल्पाट्टशतो निवेशः पर्यस्तशालः प्रभुणा विना मे। विडम्बयत्यस्तनिमग्नसूर्यं दिनान्तं उग्रानिलभिन्नमेघं॥ १६.११॥ निशासु भास्वत्कलनूपुराणां यः संचरोऽभूदभिसारिकाणां। नदन्मुखोल्काविचितामिषाभिः स वाह्यते राजपथः शिवाभिः॥ १६.१२॥ आस्फालितं यत्प्रमदाकराग्रैर्मृदङ्गधीरध्वनिं अन्वगच्छथ्। वन्यैरिदानीं महिषैस्तदम्भः शृङ्गाहतं क्रोशति दीर्घिकाणां॥ १६.१३॥ चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः। नखाङ्कुशाघातविभिन्नकुम्भाः संरब्धसिंहप्रहृतं वहन्ति॥ १६.१६॥ स्तम्भेषु योषित्प्रतियातनानां उत्क्रान्तवर्णक्रमधूसराणां। स्तनोत्तरीयाणि भवन्ति सङ्गान्निर्मोकपट्टाः फणिभिर्विमुक्ताः॥ १६.१७॥ कालान्तरश्यामसुधेषु नक्तं इतस्ततो रूढतृणाङ्कुरेषु। त एव मुक्तागुणशुद्धयोऽपि हर्म्येषु मूर्छन्ति न चन्द्रपादाः॥ १६.१८॥ आवर्ज्य शाखाः सदयं च यासां पुष्पाण्युपात्तानि विलासिनीभिः। वन्यैः पुलिन्दैरिव वानरैस्ताः क्लिश्यन्त उद्यानलता मदीयाः॥ १६.१९॥ रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि। तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः॥ १६.२०॥ बलिक्रियावर्जितसैकतानि स्नानीयसंसर्गं अनापनुवन्ति। उपान्तवानीरगृहाणि दृष्ट्वा शून्यानि दूये सरयूजलानि॥ १६.२१॥ तदर्हसीमां वसतिं विसृज्य मां अभ्युपैतुं कुलराजधानीं। हित्वा तनुं कारणमानुषीं तां यथा गुरुस्ते परमात्ममूर्तिं॥ १६.२२॥ तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणां। पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव॥ १६.२३॥ तदद्भुतं संसदि रार्त्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस। श्रुत्वा त एनं कुलराजधान्या साक्षात्पतित्वे वृतं अभयनन्दन्॥ १६.२४॥ कुशावतीं श्रोत्रियसात्स कृत्वा यात्रानुकूलेऽहनि सावरोधः। अनुद्रुतो वायुरिवाभ्रवृन्दैः सैन्यैरयोध्याभिमुखः प्रतस्थे॥ १६.२५॥ सा केतुमालोपवना बृहद्भिर्विहारशैलानुगतेव नागैः। सेना रथोदारगृहा प्रयाणे तस्याभवज्जङ्गमराजधानी॥ १६.२६॥ तेनातपत्रामलमण्डलेन प्रस्थापितः पूर्वनिवासभूमिं। बभौ बलौघः शशिनोदितेन वेलां उदन्वानिव नीयमानः॥ १६.२७॥ तस्य प्रयातस्य वरूथिनीनां पीडां अपर्याप्तवतीव सोढुं। वसुंधरा विष्णुपदं द्वितीयं अध्यारुरोहेव रजश्छलेन॥ १६.२८॥ उद्यच्छमाना गमनाय पश्चात्पुरो निवेशे पथि च व्रजन्ती। सा यत्र सेना ददृषे नृपस्य तत्रैव सामग्र्यमतिं चकार॥ १६.२९॥ तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणां। रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वं इयाय नेतुः॥ १६.३०॥ मार्गैषिणी सा कटकान्तरेषु वैन्ध्येषु सेना बहुधा विभिन्ना। चकार रेवेव महाविरावा बद्धप्रतिश्रुन्ति गुहामुखानि॥ १६.३१॥ स धातुभेदारुणयाननेमिः प्रभुः प्रयाणध्वनिमिश्रतूर्यः। व्यलङ्घयद्विन्ध्यं उपायनानि पश्यन्पुलिन्दैरुपपादितानि॥ १६.३२॥ तीर्थे तदीये गजसेतुबन्धात्प्रतीपगां उत्तरतोऽस्य गङ्गां। अयत्नवालग्व्यजनीबभूवुर्हंसा नभोलङ्घनलोलक्पक्षाः॥ १६.३३॥ स पूर्वजानां कपिलेन रोषाद्भस्मावशेषीकृतविग्रहाणां। सुरालयप्राप्तिनिमित्तं अम्भस्त्रैस्रोतसं नौलुलितं ववन्दे॥ १६.३४॥ इत्यध्वनः कैश्चिदहोभिरन्ते कूलं समासाद्य कुशः सरय्वाः। वेदिप्रतिष्ठान्वितताध्वराणां यूपानपश्यच्छतशो रघूणां॥ १६.३५॥ आधूय शाखाः कुसुमद्रुमाणां स्पृष्ट्वा च शीतान्सरयूतरङ्गान्। तं क्लान्तसैन्यं कुलराजधान्याः प्रत्युज्जगामोपवनान्तवायुः॥ १६.३६॥ अथोपशल्ये रिपुमग्नशल्यस्तस्याः पुरः पौर्सखः स राजा। कुलध्वजस्तानि चलध्वजानि निवेशयां आस बली बलानि॥ १६.३७॥ तां शिल्पिसंघाः प्रभुणा नियुक्तास्तथागतां संभृतसाधनत्वाथ्। पुरं नवीचक्रुरपां विसर्गान्मेघा निदाघग्लपितां इवोर्वीं॥ १६.३८॥ ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः। उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयां आस रघुपवीरः॥ १६.३९॥ तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य। यथार्हं अन्यैरनुजीविलोकं संभावयां आस गृहैस्तदीयैः॥ १६.४०॥ सा मन्दुरासंश्रयिभिस्तुरंगैः शालाविधिस्तम्भगतैश्च नागैः। पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी॥ १६.४१॥ वसन्स तस्यां वसतौ रघूणां पुराणशोभां अधिरोपितायां। न मैथिलेयः स्पृहयां बभूव भर्त्रे दिवो नाप्यलकेश्वराय॥ १६.४२॥ अथास्य रत्नग्रथितोत्तरीयं एकान्तपाण्डुस्तनलम्बिहारं। निःश्वासहार्यांशुकं आजगाम घर्मः प्रिया वेषं इवोपदेष्टुं॥ १६.४३॥ अगस्त्यचिह्नादयनात्समीपं दिगुत्तरा भास्वति संनिवृत्ते। आनन्दशीतं इव भाष्पवृष्टिं हिमस्रुतिं हैमवतीं ससर्ज॥ १६.४४॥ प्रवृद्धतापो दिवसोऽतिमात्रं अत्यर्थं एव क्षणदा च तन्वी। उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्तां॥ १६.४५॥ दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः। उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव॥ १६.४६॥ वनेषु सायनतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु। प्रत्येकनिक्षिप्तपदः सशब्दं संख्यां इवैषां भ्रमरश्चकार॥ १६.४७॥ स्वेदानुविद्धार्द्रनखक्षताङ्के संदष्टभूयिष्ठशिखं कपोले। च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात॥ १६.४८॥ यन्त्रप्रवाहैः शिशिरैः परीतान्रसेन धौतान्मलयोद्भवस्य। शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपं ऋद्धिमन्तः॥ १६.४९॥ स्नानार्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु। कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलं अङ्गनानां॥ १६.५०॥ आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदाराशुशुभेऽर्जुनस्य। दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभ्वस्य॥ १६.५१॥ मनोज्ञगन्धं सहकारभङ्गं पुराणसीधुं नवपाटलं च। संबध्नता काइजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः॥ १६.५२॥ जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ। तापापनोदक्षमपाद स चोदयस्थो नृपतिः शशी च॥ १६.५३॥ अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः। विहर्तुं इच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव॥ १६.५४॥ स तीरभूमौ विहितोपकार्यां आनायिभिस्तां अपकृष्टनक्रां। विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः॥ १६.५५॥ सा तीरसोपानपथावतारादन्योन्यकेयूरविघट्टिनीभिः। सनूपुरक्षोभपदाभिरासीदुद्विग्नहंसा सरिदङ्गनाभिः॥ १६.५६॥ परस्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी। नौसंश्रयः पार्श्वगतां किरातीं उपात्तवालव्यजनां बभाषे॥ १६.५७॥ पश्यावरोधैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः। संध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः॥ १६.५८॥ विलुप्तं अन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः। तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तं आसां॥ १६.५९॥ एता गुरुश्रोणिपयोधरत्वादात्मानं उद्वोहुढुं अशक्नुवन्त्यः। गाढाङ्गदैर्बाहुभिरस्पु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते॥ १६.६०॥ अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनां। पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान्॥ १६.६१॥ आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु। पयोधरोत्सर्पिषु शीर्यमाणाः संलक्ष्यते न च्छिदुरोऽपि हारः॥ १६.६२॥ आवर्तशोभा नतनाभिकान्तेर्भङ्ग्यो भ्रुवां द्वन्द्वचराःस्तनानां। जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनां॥ १६.६३॥ तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैरभिनन्द्यमानं। श्रोत्रेषु संमूर्छति रक्तं आसां गीतानुगं वारिमृदङ्गवाद्यं॥ १६.६४॥ संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुकल्पाः। अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः॥ १६.६५॥ एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः। वक्रेतराग्रैरलकैस्तरुण्यश्चूर्णारुणान्वारिलवान्वमन्ति॥ १६.६६॥ उद्बद्धकेशश्च्युतपत्त्ररेखो विश्लेषिमुक्ताफलपत्त्रवेष्टः। मनोज्ञ एव प्रमदामुखानां अम्भोविहाराकुलितोऽपि वेषः॥ १६.६७॥ स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु। स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः॥ १६.६८॥ ततो नृपेनानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयं विरेजुः। प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किं उतोन्मयूखं॥ १६.६९॥ वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तं आयताक्ष्यः प्रणयादसिञ्चन्। तथागतः सोऽतिररां बभासे सधातुनिस्यन्द इवाद्रिराजः॥ १६.७०॥ तेनावरोधप्रमदासखेन विगाहनानेन सरिद्वरां तां। आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः॥ १६.७१॥ यत्कुम्भयोनेरदिगम्य रामः कुशाय राज्येन समं दिदेश। तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज॥ १६.७२॥ स्नात्वा यथाकामं असौ सदारस्तीरोपकार्यां गतमात्र एव। दिव्येन शून्यं वलयेन बाहुं उपोढनेपथ्यविधिर्ददर्श॥ १६.७३॥ जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्माथ्। सेहेऽस्य न भ्रंशं अतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः॥ १६.७४॥ ततः समाज्ञापयदाशु सर्वानानायिनस्तद्विचये नदीष्णान्। वन्ध्यश्रमास्ते सरयूं विगाह्य तं ऊचुराम्लानमुखप्रसादाः॥ १६.७५॥ कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते। नागेन लौल्यात्कुमुदेन नूनं उपात्तं अन्तर्ह्रदवासिना तथ्॥ १६.७६॥ ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः। गारुत्मतं तीरगतस्तरस्वी भुजंगनाशाय समाददेऽस्त्रं॥ १६.७७॥ तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समाविद्धतरङ्गहस्तः। रोधांस्यभिघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास॥ १६.७८॥ तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज। लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजंगराजः॥ १६.७९॥ विभूषणप्रत्युपहारहस्तं उपस्थितं वीक्ष्य विशांपतिस्तं। सौपर्णं अस्त्रं प्रतिसंजहार प्रहेष्वनिर्बन्धरुषो हि सन्तः॥ १६.८०॥ त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषां अङ्कुशं अस्त्रविद्वान्। मानोनन्तेनाप्यभिवन्द्य मूर्ध्ना मूर्धाभिषिक्तं कुमुदो बभाषे॥ १६.८१॥ अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं त्वां। सोऽहं कथं नाम तवाचरेयं आराधनीयस्य धृतेर्विभातं॥ १६.८२॥ कराभिघातोत्थितकन्दुकेयं आलोक्य बालातिकुतूहलेन। जवात्पतज्ज्योतिरिवान्तरिक्षादादत्त जत्राभरणं त्वदीयं॥ १६.८३॥ तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिण लाञ्छनेन। भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन॥ १६.८४॥ इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुं। आत्मापराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते॥ १६.८५॥ इत्यूचिवानुपहृताभरणः क्षितीशं श्लाघ्यो भवान्स्वजन इत्यनुभाषितारं। संयोजयां विधिवदास समेतबन्धुः कन्यामयेन कुमुदः कुलभूषणेन॥ १६.८६॥ तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य। दिव्यस्तूर्यध्वनिरुदचरद्व्यश्नुवानो दिगन्तान्गन्धोदग्रं तदनौ ववृषुः पुष्पं आश्चर्यमेघाः॥ १६.८७॥ इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं लब्ध्वा बन्धुं तं अपि च कुशः पञ्चमं तक्षकस्य। एकः शङ्कां पितृवधरिपोरत्यजद्वैनतेयाच्छान्तव्यालां अवनिं अपरः पौरकान्तः शशास॥१६.८८॥ ॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये कुश-कुमुवतीपरिणयो नाम षोडशः सर्गः॥

    सप्तदशः सर्गः

    ऐथिं नाम काकुत्स्थात्पुत्रं आपकुमुद्वती। पश्चिमाद्यामिनीयामात्प्रसादं इव चेतना॥१७.१॥ स पितुः पितृमान्वंशं पुत्रं आपकुमुद्वती। अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ॥१७.२॥ तं आदौ कुलविद्यानां अर्थं अर्थविदां वरः। पश्चात्पार्थिवकन्यानां पाणिं अग्राहयत्पिता॥१७.३॥ जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः। अमन्यतैकं आत्मानं अनेकं वशिना वशी॥१७.४॥ स कुलोचितं इन्द्रस्य साहायकं उपेयिवान्। जघान समरे दैत्यं दुर्जयं तेन सोऽवधि॥१७.५॥ तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती। अन्वगात्कुमुदानन्दं शशाङ्कं इव क्ॐउदी॥१७.६॥ तयोर्दिवस्पतेरासीदेकः सिंहासनार्धबाक्। द्वितीयापि सखी शच्याः पारिजातांशभागिनी॥१७.७॥ तदात्मसंभवं राज्ये मन्त्रिवृद्दाः समादधुः। स्मरन्तः पश्चिमां आज्ञां भर्तुः संग्रामयायिनः॥१७.८॥ ते तस्य कल्पयां आसुरभिषेकाय शिल्पिभिः। विमानं नवं उद्वेदि चतुःस्तम्भप्रतिष्टं॥१७.९॥ तत्रैनं हेमकुम्भेषु संभृतैस्तीर्थवारिभिः। उपतस्थुः प्रकृतयो भद्रपीठोपवेशितं॥१७.१०॥ नदध्बिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः। अन्वमीयत कल्याणं तस्याविच्छिन्नसंतति॥१७.११॥ दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान्। ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन्॥१७.१२॥ पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः। उपचक्रमिरे पूर्वं अभिषेक्तुं द्विजातयः॥१७.१३॥ तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत। सशब्दं अभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः॥१७.१४॥ स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स बन्दिभिः। प्रवृद्ध इव प्रजन्यः चातकैरभिनन्दितः॥१७.१५॥ तस्य सन्मन्त्रपूताभिः स्नानं अद्भिः प्रतीच्छतः। ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः॥१७.१६॥ स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु। यावत्तेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः॥१७.१७॥ ते प्रीतमनसस्तस्मै यां आशिषं उदीरयन्। सा तस्य कर्मनिर्वृत्तैर्दूरं पश्चात्कृता फलैः॥१७.१८॥ बन्धच्छेदं स बद्धानां वधार्हाणां अवध्यतां। धुर्याणां च धुरो मोक्षं अदोहं चादिषद्गवां॥१७.१९॥ क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः। लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन्॥१७.२०॥ ततः कक्षान्तरन्यस्तं गजदन्तासनं शुचि। सोत्तरच्छदं अध्यास्त नेपथ्यग्रहणाय सः॥१७.२१॥ तं धूपाश्यानकेशान्तं तोयनिर्णिक्तपाणयः। आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः॥१७.२२॥ तेऽ स्य मुक्तागुणोन्नद्धं मौलिं अन्तर्गतस्रजं। प्रत्यूपुः पद्मरागेण प्रभामण्डलशोभिना॥१७.२३॥ चन्दनेनाङ्गरागं च मृगनाभिसुगन्धिना। समापय्य ततश्चक्रुः पत्त्रं विन्यस्तरोचनं॥१७.२४॥ आमुक्ताभरणः स्रग्वी हंसचिह्नदुकूलवान्। आसीदतिशयप्रेक्ष्यः स राज्यश्रीवधूवरः॥१७.२५॥ नेपथ्यदर्शिनश्छाया तस्यादर्शे हिरण्मये। विरराजोदिते सूर्ये मेरौ कल्पतरोरिव॥१७.२६॥ स राजककुदव्यग्रपाणिभिः पार्श्ववरिभिः। ययावुदीरितालोकः सुधर्मानवमां सभां॥१७.२७॥ वितानसहितं तत्र भेजे पैतृकं आसनं। चूडामणिभिरुद्घृष्टपादपीठं महीक्षितां॥१७.२८॥ शुशुभे तेन चाक्रान्तं मङ्गलायतनं महथ्। श्रीवत्सलक्षणं वक्षः कौस्तुभेनेव कैशवं॥१७.२९॥ बभौ भूयः कुमारत्वादाधिराज्यं अवाप्य सः। रेखा भावादुपारूढः सामग्र्यं इव चन्द्रमाः॥१७.३०॥ प्रसन्नमुखरागं तं स्मितपूर्वाभिभाषिणं। मूर्तिमन्तं अमन्यन्त विश्वासं अनुजीविनः॥१७.३१॥ स पुरं पुरुहूतश्रीः कल्पद्रुमनिभध्वजां। क्रममाणश्चकार द्यां नागेनैरावतौजसा॥१७.३२॥ तस्यैकस्योच्छ्रितं छत्त्रं मूर्ध्नि तेनामलत्विषा। पूर्वराजवियोगौष्म्यं कृत्स्नस्य जगतो हृतं॥१७.३३॥ धूमादग्नेः शिखाः पश्चादुदयादंशवो रवेः। सोऽतीत्य तेजसां वृत्तिं समं एवोत्थितो गुणैः॥१७.३४॥ तं प्रीतिविशदैर्नेत्रैरन्वयुः पौरयोषितः। शरत्प्रसन्नैर्ज्योतिर्भिर्विभावर्य इव ध्रुवं॥१७.३५॥ अयोध्यादेवताश्चैनं प्रशस्तायतनार्चिताः। अनुदध्युरनुध्येयं सांनिध्यैः प्रतिमागतैः॥१७.३६॥ यावन्नाश्यायते वेदिरभिषेकजलाप्लुता। तावदेवास्य वेलान्तं प्रतापः प्राप दुःसहः॥१७.३७॥ वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः। किं तत्साध्यं यदुभये साधयेयुर्न संगताः॥१७.३८॥ स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयं। ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः॥१७.३९॥ ततः परं अभिव्यक्तास्ॐअनस्यनिवेदितैः। युयोज पाकाभिमुखैर्भृत्यान्विज्ञापनाफलैः॥१७.४०॥ प्रजास्तद्गुरुणा नद्यो नभसेव विवर्धिताः। तस्मिंस्तु भूयसीं वृद्धिं नभस्ये ता इवाययुः॥१७.४१॥ यदुवाच न तन्मिथ्या यद्ददौ न जहार तथ्। सोऽभूद्भग्नव्रतः शत्रूनुद्धृत्य प्रतिरोपयन्॥१७.४२॥ वयोरूपविभूतीनां एकैकं मदकारणं। तानि तस्मिन्समस्तानि न तस्योत्सिषिचे मनः॥१७.४३॥ इत्थं जनितरागासु प्रकृतिष्वनुवासरं। अक्षोभ्यः स नवोऽप्यासीद्दृढमूल इव द्रुमः॥१७.४४॥ अनित्याः शत्रवो बाह्या विप्रकृष्टाश्च ते यतः। अतः सोऽभ्यन्तरान्नित्यान्षट्पूर्वं अजयद्रिपून्॥१७.४५॥ प्रसादाभिमुखे तस्मिंश्चपलापि स्वभावतः। निकषे हेमरेखेव श्रीरासीदनपायिनी॥१७.४६॥ कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितं। अतः सिद्धिं समेताभ्यां उभाभ्यां अन्वियेष सः॥१७.४७॥ न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः। अदृष्टं अभवत्किंचिद्व्यभ्रस्येव विवस्वतः॥१७.४८॥ रात्रिंदिवविभागेषु यदादिष्टं महीक्षितां। तत्सिषेवे नियोगेन स विकल्पपराङ्मुखः॥१७.४९॥ मन्त्रः प्रतिदिनं तस्य बभूव सह मन्त्रिभिः। स जातु सेव्यमानोऽपि गुप्तद्वारो न सूच्यते॥१७.५०॥ परेषु स्वेषु च क्षिप्तैरविज्ञातपरस्परैः। सोऽपसर्पैर्जजागार यथाकालं स्वपन्नपि॥१७.५१॥ दुर्गाणि दुर्ग्र्हाण्यासंस्तस्य रोद्धुरपि द्विषां। न हि सिंहो गजास्कन्दी भयाद्गिरिगुहाशयः॥१७.५२॥ बह्व्यमुख्याः समारम्भाः प्रत्यवेक्ष्या निरत्ययाः। गर्भशालिसधर्माणस्तस्य गूढं विपेचिरे॥१७.५३॥ अपथेन प्रववृते न जातूपचितोऽपि सः। वृद्धौ नदीमुखेनैव प्रस्थानं लवणाम्भसः॥१७.५४॥ कामं प्रत्कृतिवैराग्यं सद्यः शमयितुं क्षमः। यस्य कार्यः प्रतीकारः स तन्नैवोदपादयथ्॥१७.५५॥ शकेष्वेवाभवद्यात्रा तस्य शक्तिमतः सतः। समीरणसहायोऽपि नाम्भःप्रार्थी दवानलः॥१७.५६॥ न धर्मं अर्थकामाभ्यां बबाधे न च तेन तौ। नार्थं कामेन कामं वा सोऽर्थेन सदृशस्त्रिषु॥१७.५७॥ हीनान्यनुपकर्तःणि प्रवृद्धानि विकुर्वते। तेन मध्यमशक्तीनि मित्राणि श्तापितान्यतः॥१७.५८॥ परात्मनोः परिच्छिद्य शक्त्यादीनां बलाबलं। ययावेभिर्बलिष्ठश्चेत्परस्मादास्त सोऽन्यथा॥१७.५९॥ कोशेनाश्रयणीयत्वं इति तस्यार्थसंग्रहः। अम्बुगर्भो हि जीमूतश्चातकैरभिनन्द्यते॥१७.६०॥ परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु। आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून्॥१७.६१॥ पित्रा संवर्धितो नित्यं कृतास्त्रः सांपरायिकः। तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत॥१७.६२॥ सर्पस्येव शिरोरत्नं नास्य शक्तित्रयं परः। स चकर्ष परस्मात्तदयस्कान्त इवायसं॥१७.६३॥ वापीष्विव स्रवन्तीषु वनेषूपवनेष्विव। सार्थाः स्वैरं स्वकीयेषु चेरुर्वेश्मस्विवाद्रिषु॥१७.६४॥ तपो रक्षन्स विघ्नेभ्यस्तस्करेभ्यश्च संपदः। यथास्वं आश्रमैश्चक्रे वर्णैरपि षड्संशभाक्॥१७.६५॥ खनिभिः सुषुवे रत्नं क्षेत्रैः सस्यं वनैर्गजान्। दिदेश वेतनं तस्मै रक्षासदृशं एव भूः॥१७.६६॥ स गुणानां बलानां च षण्णां षण्मुखविक्रमः। बभूव विनियोगज्ञः साधनीयेषु वस्तुषु॥१७.६७॥ इति क्रमात्प्रयुञ्जानो राज नीतिं चतुर्विधां। आ तीर्थादप्रतीघातं स तस्याः फलं आनशे॥१७.६८॥ कूटयुद्धविधिज्ञेऽपि तस्मिन्सन्मार्गयोधिनि। भेजेऽभिसारिकावृत्तिं जयश्रीर्वीरगामिनी॥१७.६९॥ प्रायः प्रतापभग्नत्वादरीणां तस्य दुर्लभः। रणो गन्धविपस्येव गन्धभिन्नान्यदन्तिनः॥१७.७०॥ प्रवृद्धौ हीयते चन्द्रः समुद्रोऽपि तथाविधः। स तु तसमवृद्धिश्च न चाभूत्ताविव क्षयी॥१७.७१॥ सन्तस्तस्याभिगमनादत्यर्थं महतः कृषाः। उदधेरिव जीमूताः प्रापुर्दातृत्वं अर्थिनः॥१७.७२॥ स्तूयमानः स जिह्राय स्तुत्यं एव समाचरन्। तथापि ववृधे तस्य तत्कारिद्वेषिनो यशः॥१७.७३॥ दुरितं दर्शनेन घ्नंस्तत्त्वार्थेन नुदंस्तमः। प्रजाः स्वतन्त्रयां चक्रे शश्वत्सूर्य इवोदितः॥१७.७४॥ इन्दोरगतयः पद्मे सूर्यस्य कुमुदेऽंशवः। गुणास्तस्य विपक्षेऽपि गुणिनो लेभिरेऽन्तरं॥१७.७५॥ पराभिसंधानपरं यद्यप्यस्य विचेष्टितं। जिगीषोरश्वमेधाय धर्म्यं एव बभूव तथ्॥१७.७६॥ एवं उद्यन्प्रभावेण शास्त्ग्रनिर्दिष्टवर्त्मना। वृषेव देवो देवानां राज्ञां राजा बभूव सः॥१७.७७॥ पञ्चमं लोकपालानां तं ऊचुः साम्ययोगतः। भूतानां महतां षष्ठं अष्टमं कुलभूभृतां॥१७.७८॥ दूरापवर्जितच्छत्त्रैस्तस्याज्ञां शासनार्पितां। दधुः शिरोभिर्भूपाला देवः पौरंदरीं इव॥१७.७९॥ ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतौ। यथा साधारणीभूतं नामास्य धनदस्य च॥१७.८०॥ इन्द्राद्वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभूद्यादोनाथः शिवजलपथः कर्मणे नौचराणां। पूर्वापेक्षी तदनु विदधे कोशवृद्धिं कुबेरस्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः॥१७.८१॥ ॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः॥

    अष्टादशः सर्गः

    स नैषधस्यार्थपतेः सुतायां उत्पादयां आस निषिद्धशत्रुः। अनूनसारं निषधान्नगेन्द्रात्पुत्रं यं आहुर्निषधाख्यं एव।। १८.१॥ तेनोरुवीर्येण पिता प्रजायै कल्पिष्यमाणेन ननन्द यूना। सुवृष्तियोगादिव जीवलोकः सस्येन संपत्तिफलात्मकेन।। १८.२॥ शब्दादि निर्विश्य सुखं चिराय तस्मिन्प्रतिष्ठापितराजशब्दः। क्ॐउद्वतेयः कुमुदावदातैर्द्यां अर्जितां कर्मभिरारुरोह।। १८.३॥ पौत्रः कुशस्यापि कुशेशयाक्षः ससागरां सागरधीरचेताः। एकातपोअत्रां भुवं एकवीरः पुरार्गलादीर्घभुजो बुभोज।। १८.४॥ तस्यानलौजास्तनयस्तदन्ते वंशश्रियं प्राप नलाभिधानः। यो नड्वलानीव गजः परेषां बलान्यमृद्नान्नलिनाभवक्त्रः।। १८.५॥ नभश्चरैर्गीतयश्यामतनुं तनूजं नभस्तलश्यामतनुं तनूजं। ख्यातं नभःशब्दमयेन नाम्ना कान्तं नभ्ॐआसं इव प्रजानां।। १८.६॥ तस्मै विष्र्ज्योत्तरकोसलानां धर्मोत्तरस्तत्प्रभवे प्रभुत्वं। मृगैरजर्यं जरस्पोदैष्टं अदेहबन्धाय पुनर्बबन्ध।। १८.७॥ तेन द्विपानां इव पुण्डरीको राज्ञां अजय्योऽजनि पुण्डरीकः। शान्ते पितर्याहृतपुण्डरीका यं पुण्डरीकाक्षं इवाश्रिता श्रीः।। १८.८॥ स क्षेमधन्वानं अमोघधन्वा पुत्रं प्रजाक्षेमविधानदक्षं। क्ष्मां लम्भयित्वा क्षमयोपपन्नं वने तपः क्षान्ततरश्चचार।। १८.९॥ अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूथ्। व्यश्रूयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य।। १८.१०॥ पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन। पुत्रस्तथैवाधिकवत्सलेन स तेन पित्रा पितृमान्बभूव।। १८.११॥ पूर्वस्तयोरात्मसमे चिरोढां आत्मोद्भवे वर्णचतुष्टयस्य। धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकं।। १८.१२॥ वशी सुतस्तस्य वशंवदत्वात्स्वेषां इवासीद्द्विषतां अपीष्टः। सकृद्(?) विविग्नानपि हि प्रयुक्तं माधुर्यं ईष्टे हरिणान्ग्रहीतुं।। १८.१३॥ अहीनगुर्नाम स गां समग्रां अहीनबाहुद्रविणः शशास। यो हीन संसर्गपराङ्मुखत्वाद्माधुर्यं ईष्टे हरिणान्ग्रहीतुं।। १८.१४॥ गुरोः स चानन्तरं अन्तर्ज्ञः पुंसां पुमानाद्य इवावतीर्णः। उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव।। १८.१५॥ तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयं। उच्चैःशिरस्त्वाज्जितपारियात्रं लक्ष्मीः सिषेवे किल पारियात्रं।। १८.१६॥ तस्याभवत्सूनुरुदारशीलः शिलः शिलापट्टविशालवक्षाः। जितारिपक्षोऽपि शिलीमुखैर्यः शालीनतां अव्रजदीड्यमानः।। १८.१७॥ तं आत्मसंपन्नं अनिन्दितात्मा कृत्वा युवानं युवराजं एव। सुखानि सोऽभुङ्क्त सुखोपरोधि वृत्तं हि राज्ञां उपरुद्धवृत्तं।। १८.१८॥ तं रागबन्धिष्ववितृप्तं एव भोगेषु सौभाग्यविशेषभोग्यं। विलासिनीनां अरतिक्षमापि जरा वृथा मत्सरिणी जहार।। १८.१९॥ उन्नाभ इत्युदग्तस्नामधेयस्तस्यायथार्थोन्नतनाभ्हिरन्ध्रः। सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नाभिर्नृपमण्डलस्य।। १८.२०॥ ततः परं वज्रधरप्रभावस्तदात्मजः संयति वज्रघोषः। बभूव वज्राकरभुषणायाः पतिः पृथिव्याः किल वज्रनाभः।। १८.२१॥ तस्मिन्गते द्यां सुकृतोपलब्धां तत्संभवं शङ्खणं अर्णवान्ता। उत्खातशत्रुं वसुधोपतस्थे रत्नोपहारैरुदितैः खनिभ्यः।। १८.२२॥ तस्यावसाने हरिदश्वधामा पित्र्यं प्रपेदे पदं अश्विरूपः। वेलातटेषूषितसैनिकाश्वं पुराविदो यं ध्युषिताश्वं आहुः।। १८.२३॥ आराध्य विश्वेश्वरं ईश्वरेण तेन क्षितेर्विश्वसहोऽधिजज्ञे। पातुं सहो विश्वसखः समग्रां विश्वंभरां आत्मजमूर्तिरात्मा।। १८.२४॥ अंशे हिरण्याक्शरिपोः स जाते हिरण्यनाभे तनये नयज्ञः। द्विषां असह्यः सुतरां तरूणां हिरण्यरेता सानिलोऽभूथ्।। १८.२५॥ पिता पितःणां अनृणस्तं अन्ते वयस्यनन्तानि सुखानि लिप्सुः। राजानं आजानुविलम्बिबाहुं कृत्वा कृती वल्कलवान्बभूव।। १८.२६॥ कौसल्य इत्युत्तरकोसलानां पत्युः पतंगान्वयभूषणस्य। तस्यौरसः स्ॐअसुतः सुतोऽभून्नेत्रोत्सवः स्ॐअ इव द्वितीयः।। १८.२७॥ कौसल्य इत्युत्तरकोसलानां स ब्रह्मभूयं गतिं आजगाम। ब्रह्मिष्ठं आधाय निजेऽधिकारे ब्रह्मिष्ठं एव स्वतनुप्रसूतं।। १८.२८॥ यशोभिराब्रह्मसभं प्रकाशः सम्यग्महीं शासति शासनाङ्कां। प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः।। १८.२९॥ पात्रीकृतात्मा गुरुसेवनेन स्पृष्टाकृतिः पत्त्ररथेन्द्रकेतोः। तं पुत्रिणां पुष्करपत्त्रनेत्रः पुत्रः समारोपयदग्रसंख्यां।। १८.३०॥ वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः। उपस्पृषन्स्पर्शनिवृत्तलौल्यस्त्रिपुष्करेषु त्रिदशत्वं आप।। १८.३१॥ तस्य प्रभानिर्जितपुष्प-रागं पौष्यं तिथौ पुष्यं असूत पत्नी। यस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये।। १८.३२॥ महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा। तस्मात्सयोगादधिगम्य योगं अजन्मनेऽकल्पत जन्मभीरुः।। १८.३३॥ ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीं। यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतां अरीणां।। १८.३४॥ सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः। मृगायताक्षो मृगयाविहारी सिंहादवापद्विपदं नृसिंहः।। १८.३५॥ स्वर्गामिनस्तस्य तं ऐकमत्यादमात्यवर्गः कुलतन्तुं एकं। अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिवच्चकार।। १८.३६॥ ववेन्दुना तन्नभसोपमेयं शावैकसिंहेन च काननेन। रघोः कुलं कुड्मलपङ्कजेन तोयेन चाप्रौष्हनरेन्द्रं आसीथ्।। १८.३७॥ लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः। दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातं अवाप्य मेघः।। १८.३८॥ तं राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेषं। षड्वर्षदेशियं अपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण।। १८.३९॥ कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय। तेज्ॐअहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण।। १८.४०॥ तस्मादधः किंचिदिवावतीर्णावसंस्पृशन्तौ तपनीयपीठं। सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ।। १८.४१॥ मणौ महानील इति प्रभावादल्पप्रमाणेऽपि यथा न मिथ्या। शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि।। १८.४२॥ पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षथ्। तस्याननादुच्चरितो विवादश्चक्शाल वेलास्वपि नार्णवानां।। १८.४३॥ निर्वृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलकं दधानः। तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार।। १८.४४॥ शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि श्रुतवृद्धयोगाथ्। नितान्तगुर्वीं अपि चानुभावाद्धुरं धरित्र्या बिभरां बभूव।। १८.४५॥ न्यस्ताक्षरां अक्षरभूमिकायां कार्त्स्न्येन गृह्णाति लिपिं न यावथ्। सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः।। १८.४६॥ उरस्यपर्याप्तभागा प्रौढीभविष्यन्तं उदीक्षमाणा। संजातलज्जेव तं आतपत्रछ्हायाछलेनोपजुगूह लक्ष्मीः।। १८.४७॥ अनश्नुवानेन युगोपमानं अबद्धमौर्वीकिणलाञ्छनेन। अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः।। १८.४८॥ न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिं। वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः।। १८.४९॥ स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणां। तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः।। १८.५०॥ व्यूह्य स्थितः किंचिदिवोत्तरार्धं उन्नद्धचूडोऽञ्चितस्व्यजानुः। आकर्णं आकृष्टसबानधन्वा व्यरोचत्ऽ आस्ते स विनीयमानः।। १८.५१॥ अथ मधु वनितां नेत्रनिर्वेशनीयं मनसिजतरुपुष्पं रागबन्धप्रवालं। अकृतकविधि सर्वाङ्गीणं आकल्पजातं विलसितपदं आद्यं यौवनं स प्रपेदे।। १८.५२॥ प्रतिकृतिरचनाभयो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसंतानकामैः। अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः।। १८.५३॥ ॥इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये वंशानुक्रमो नामाष्टादशः सर्गः॥

    एकोनविंशः सर्गः

    अग्निवर्णम् अभिषिच्य राघवः स्वे पदे तनयम् अग्नितेजसम्। शिश्रिये श्रुतवताम् अपश्चिमः पश्चिमे वयसि नैमिषं वशी।। १९.१॥ तत्र तीर्थसलिलेन दीर्घिकास्तल्पं अन्तरितभूमिभिः कुशैः। सौधवासं उटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः।। १९.२॥ लब्धपालनविधौ न तत्सुतः खेदं आप गुरुणा हि मेदिनी। भोक्तुं एव भुजनिर्जितद्विषा न प्रसाधयितुं अस्य कल्पिता।। १९.३॥ सोऽधिकारं अभिकः कुलोचितं काश्चन स्वयं अवर्तयत्समाः। तं निवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवथ्।। १९.४॥ कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु। ऋद्धिमन्तं अधिकर्द्धिरुत्तरः पूर्वं उत्सवं अपोहदुत्सवः।। १९.५॥ इन्द्रियार्थपरिशून्यं अक्षर्मः सोढुं एकं अपि स क्षणातरं। अन्तरे च विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः।। १९.६॥ गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ। तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितं।। १९.७॥ तं कृतप्रणतयोऽनुजीविनः क्ॐअलात्मनखरागरूषितं। भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणं।। १९.८॥ युवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः। गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः।। १९.९॥ तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः। अङ्गनास्तं अधिकं व्यलोभयन्नर्पितप्रकृतिकान्तिभिर्मुखैः।। १९.१०॥ घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियासखः। अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः।। १९.११॥ सातिरेकमदकारणं रहस्तेन दत्तं अभिलेषुरङ्गनाः। ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः।। १९.१२॥ अङ्कं अङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतां उभे। वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना।। १९.१३॥ स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः। नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जवथ्।। १९.१४॥ चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमाथ्। प्रेमदत्तवदनानिअः मनः सोऽन्वजीवदमरालकेश्वरौ।। १९.१५॥ तस्य सावरणदृष्टसंधयः काम्यवस्तुषु नवेषु सङ्गिनः। वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः।। १९.१६॥ अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितं। मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः।। १९.१७॥ तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु। शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः।। १९.१८॥ लौल्यं एत्य गृहिणीपरिग्रहान्नर्तकीष्वसुलभासु तद्वपुः। वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः।। १९.१९॥ प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितं। निन्युरुत्सवविधिच्छलेन तं देव्य उज्जितरुषः कृतार्थतां।। १९.२०॥ प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः। प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः।। १९.२१॥ स्वप्नकीर्तितविपक्षं अङ्गनाः दर्शनेन कृतखण्डनव्यथाः। प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः।। १९.२२॥ क्ëप्तपुष्पशयनांल्लतागृहानेत्य दूतिकृतमार्गदर्शनः। अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरं।। १९.२३॥ नाम वल्लभजनस्य ते मया प्राप्य भाग्यं अपि तस्य काङ्क्ष्यते। लोलुपं बत मनो ममेति तं गोत्रविस्खलितं ऊचुरङ्गनाः।। १९.२४॥ चूर्णबभ्रु लुलितस्रगाकुलं छिन्नमेखलं अलक्तकाङ्कितं। उत्थितस्य शयनं विलासिनस्तस्य विभ्रमर्ततान्यपावृणोथ्।। १९.२५॥ स स्वयं चरणरागं आदधे योषितं न च तथा समाहितः। लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः।। १९.२६॥ चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने। विघ्नितेच्छं अपि तस्य सर्वतो मन्मथेन्धनं अभूद्वधूरतं।। १९.२७॥ दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वं अनुपृष्ठसंस्थितः। छायया स्मितमनोज्ञया वधूर्ह्रीनिमीलितमुखीश्चकार सः।। १९.२८॥ कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलं अग्रपादयोः। प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनं।। १९.२९॥ प्रेक्ष्य दर्पणतल्स्थं आत्मनो राजवेषं अतिशक्रशोभिनं। पिप्रिये स न तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनं।। १९.३०॥ मित्रकृत्यं अपदिश्य पार्श्वतः प्रस्थितं तं अनवस्थितं प्रियाः। विद्म हे शठ पलायनच्छलान्यञ्जसेति रुरुधुः कचग्रहैः।। १९.३१॥ तस्य निर्दयरतिश्रमालसाः कण्ठसूत्रं अपदिश्ययोषितः। अध्यशेरत बृहद्(?) भुजान्तरं पीवरस्तनविलुप्तचन्दनं।। १९.३२॥ संगमाय निशि गूढचारिणं चारदूतिकथितं पुरो गताः। वञ्चयिष्यसि कुतस्तमोवृतः कामुकेति चकृषुस्तं अङ्गनाः।। १९.३३॥ योषितां उडुपतेरिवाचिषां स्पर्शनिर्वृतिं असावनाप्नुवन्। आरुरोह कुमुदाकरोपमां रात्रिजागरपरो दिवाशयः।। १९.३४॥ वेणुना दशनपीडिताधरा वीणया नखपदाङ्कितोरवः। शिलपकार्य उभयेन वेजितास्तं विजिह्मनयना व्यलोभयन्।। १९.३५॥ अङ्गसत्त्ववचनाश्रयं मिथः स्त्रीषु नृत्यं उपधाय दर्शयन्। स प्रयोगनिपुणैः प्रयोक्तृभिः संजघर्ष सह मित्रसंनिधौ।। १९.३६॥ अंसलम्बिकुटजार्जुनस्रजस्तस्य नीपरजसाङ्गरागिणः। प्रावृषि प्रमदबर्हिणेष्वभूत्कृतिमाद्रिषु विहारविभ्रमः।। १९.३७॥ विग्रहाच्च शयने पराङ्मुखीर्नानुनेतुं अबलाः स तत्वरे। आचकाङ्क्ष घनशब्दविक्लवास्ता विवृत्य विशतीर्भुजान्तरं।। १९.३८॥ कार्त्तिकीषु सवितानहर्म्यभाग्यामिनीषु ललिताङ्गनासखः। अन्वभुङ्क्त सुरतश्रमापहां मेघमुक्तविशदां स चन्द्रिकां।। १९.३९॥ सैकतं च सरयूं विवृण्वतीं श्रोणिबिम्बं इव हंसमेखलं। स्वप्रियाविलसितानुकारिणीं सौधजाल्विवरैर्व्यलोकयथ्।। १९.४०॥ मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमर्शनैस्तं एकतः। जह्रुराग्रथनमोक्षलोलुपं हैमनैर्निव्सनैः सुमध्यमाः।। १९.४१॥ अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु। तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः।। १९.४२॥ दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवं। अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगं अङ्गनाः।। १९.४३॥ ताः स्वं अङ्कं अधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया। मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनं अवाप बाहुभिः।। १९.४४॥ तं पयोधरनिषक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः। ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलाः प्रियाः।। १९.४५॥ यत्स भग्नसहकारं आसवं रक्तपाटलसमागमं पपौ। तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः।। १९.४६॥ एवं इन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः। आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः।। १९.४७॥ तं प्रमत्तं अपि न प्रभावतः शेकुराक्रमितुं अन्यपार्थिवाः। आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रं अक्षिणोथ्।। १९.४८॥ दृष्टदोषं अपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजां अनाश्रवः। स्वादुभिस्तु विषयैर्हृतस्ततो दुःखं इन्द्रियगणो निवार्यते।। १९.४९॥ तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना। यक्ष्मणापि परिहानिराययौ कामयानसमवस्थया तुलां।। १९.५०॥ व्य्ॐअ पश्चिमकलास्थितेन्दु वा पङ्कशेषं इव घर्मपल्वलं। राज्ञि तत्कुलं अभूत्क्षयातुरे वामनार्चिरिव दीपभाजनं।। १९.५१॥ बाढं एषु दिवसेषु कर्म साधयति पुत्रजन्मने। इत्यदर्शितरुजोऽस्य मन्त्रिणः शश्वदूचुरघशङ्किनीः प्रजाः।। १९.५२॥ स त्वनेकवनितासखोऽपि सन्पावनीं अनवलोक्य संततिं। वैद्ययत्नपरिभाविनं गदं न प्रदीप इव वायुं अत्यगाथ्।। १९.५३॥ तं गृहोपवन एव संगताः पश्चिमक्रतुविदा पुरोधसा। रोगशान्तिं अपदिश्य मन्त्रिणः संभृते शिखिनि गूढं आदधुः।। १९.५४॥ तैः कृतप्रकृतिमुख्यसंग्रहैराशु तस्य सहधर्मचारिणी। साधु दृष्टशुभगर्भलक्षणा प्रत्यपद्यत नराधिपश्रियं।। १९.५५॥ तस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः। निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः।। १९.५६॥ तं भावार्थ प्रसवसमयाकाङ्क्षिणीनां प्रजानां अन्तर्गूढं क्षितिरिव बभौ बीजमुष्टिं दधाना। मौलैः सार्धं स्थविरसचिवैर्हेमसिंहासनस्था राज्ञी राज्यं विधिवदशिषद्भर्तुरव्याहताज्ञा।।१९.५७॥ ॥ इति श्रीमहाकविकालिदासकृतौ रघुवंशे महाकाव्ये गर्भाभिषेको नामैकोनविंशः सर्गः॥ [समाप्तमिदं रघवंशाख्यं३ महाकाव्यम्]

  • मुख्य पृष्ठ : कालिदास - संस्कृत रचनाएँ हिंदी में
  • मुख्य पृष्ठ : हिन्दी कविता वेबसाइट (hindi-kavita.com)